________________
३१४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४२ गौतम! मन्दरस्य पर्वतस्योत्तरतोनीलवतोवर्षधरपर्वतस्यदक्षिणतोगन्धमादनस्यवक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः, प्राकपश्चिमायता उत्तरदक्षिणाविस्तीर्णा अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ शतानि द्वाचत्वा- रिंशदधिकानि द्वौ चैकोनविंशतिभागी योजनस्य विष्कम्भेन, अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् ३३६८४ कला ४ इत्येवंरूपात् मेरुविष्कम्भेऽपनीते शेषस्याः कृते उक्ताङ्कराशि स्यात्, ननु वर्षवर्षधरादीनांक्रमव्यवस्थाप्रज्ञापकापेक्षयाऽस्ति यथा प्रज्ञापकासन्नं भरतं ततो हिमवानित्यादि, ततो विदेहकथनानन्तरं क्रमप्राप्ता देवकुरुर्विमुच्य कथमुत्तरकुरूमां निरूपणं?, उच्यते, चतुर्दिग्मुखे विदेहे प्रायः सर्वं प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते, तेनप्रथमतउत्तपरकुरुकथनं भरतपार्श्वस्थौ विधुप्रभसौमनसौविहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणंभरतासनविजयान् विहाय कच्छमहाकच्छादिविजयकथनं चेति, अर्थतासांजीवामाह
'तीसे इत्यादि,तासामुत्तरकुरूणां, सूत्रेएकवचनं प्राकृतत्वात्, जीवा-उत्तरतोनीलवद्वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, एतदेव विवृणोति, तद्यथा-पौरस्त्ययाकोट्या पौरस्त्यं वक्षस्कारपर्वतमाल्यवन्तंस्पृष्टा पाश्चात्यया पाश्चात्यं गन्धमादननामानं वक्षस्कारपर्वतंस्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति उच्यते, मेरोः पूर्वस्यां दिशि भद्रशालवनमायामतो द्वाविंशतिर्जनसहस्राणि एवं पश्चिमायामपि, उभयमीलनेजातंचतुश्चत्वारिंशत्सहस्राणिमेरुविष्कम्भे दशसहनयोजनात्मकेप्रक्षिप्ते जातं चतुष्पश्चाशदयोजनसहनाणि, एकैकस्य वक्षस्कारगिरेवर्षधरसमीपे पृथुत्वं पञ्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्यो पृथुत्वपरिमाणं योजनसहनं तत्पूर्वराशेरपनीयते, जातः पूर्वराशिस्त्रिपञ्चाशदयोजनसहनाणीति।
__ अथैतासांधनुःपृष्ठमाह-'तीसेणंधनुदाहिणेण मित्यादि, तासांधनुःपृष्ठंदक्षिणतो मेर्वासन्न इत्यर्थः, षष्टियोजनसहस्राणि चत्वारि च योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण, तथाहि-एकैकवक्षस्कारगिरेरायामस्त्रिशयोजनसहनिणि द्वे च नवोत्तरे षट् च कलाः, ततो द्वयोर्वक्षस्कारयोर्मीलने यथोक्तं मानमिति, अथैतासां स्वरूपप्ररू-पणायाह-'उत्तरकुराए ण मित्यादि, उत्तरकुरूणां भदन्त ! कीद्दश आकारभावप्रत्यवतारः-स्वरूपाविर्भावःप्रज्ञप्तः?, गौतम! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, एवमुक्तन्यायेन पूर्वं भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या, कियत्पर्यन्तमित्याह-यावत्षट्प्रकाराः पद्मगन्धादयो मनुष्यास्तावदिति ।
उक्तोत्तरकुरुवक्तव्यताऽथ तद्वर्तिन यमकपर्वतौ प्ररूपयति
मू. (१४३) कहि णं भंते ! उत्तरकुराए जमगानामं दुवे पव्वया प० गो० नीलवंतस्स वासहरपव्ययस्स दक्खिणिलाओ चरिमन्ताओ अट्ठजोअणसए चोत्तीसे चत्तारि अ सत्तमाए जोअणस्स अबाहाए सीआए महानईए उभओ कूले एत्थ णं जमगानामंदुवे पव्वया पन्नत्ता।
जोअणसहस्सं उद्धं उच्चत्तेणं अड्वाइजाई जोअणसयाइं उव्वेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेणं मज्झे अद्धमाणि जोअणसयाइंआयामविक्खम्भेणं उवरिपंचजोअणसयाई आयामविक्खम्भेणं मूले तिन्नि जोअणसहस्साई एगं च बावट्ट जोअणसयं किंचिविसेसाहिअं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org