________________
३०८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३९ क्रोशा अन्तरालमित्यर्थः, ततः पश्चिमाभिमुखी परावृत्ता सती विद्युत्प्रमं वक्षस्कारपर्वतं नैऋतकोणगतकुरुगोपकगिरिमधोदारयित्वामन्दरस्य पर्वतस्य पश्चिमेनापरविदेहवर्ष-पश्चिमविदेहं द्विधा विभजन्ती २, एकैकस्माञ्चक्रवर्तिविजयादधाविंशत्या २ नदीसहमरापूर्यमाणा २ तथाहि
___ अस्यादक्षिणकूलगतविजयाटकेद्वेवमहानद्यौगङ्गासिन्धुनाम्नीचतुर्दश र सहस्रनदीपरिवारे उत्तरकूलवर्तिविजयाष्टकेचद्वेद्वेमहानद्योरक्तारक्तवतीनाम्नी तावत्परिवारेस्तइति प्रतिविजयमष्टाविंशतिनदीसहस्राणि, अथ सर्वाग्रणास्यानदीपरिवारंविशेषणद्वारेणाह-पञ्चभिर्नदीलक्षात्रिशता च नदीसहनैः समग्रा-परिपूर्णा, तथाहि-अस्या उभयंकूलवर्तिविजयषोडशकेऽष्टाविंशतिरनंदीसहस्राणीत्यष्टाविंशतिसहस्राणि षोडशभिर्गुण्यंते, जातंचतुर्लक्षाण्यष्टचत्वारिंशत्सहस्राणि, अत्र राशौ कुरुगत ८४ सहस्रनदीप्रक्षेपेजातं यथोक्तं मानमिति, अधोजयन्तस्यद्वारस्य-पश्चिमदिग्वर्तिजम्बूद्वीपद्वारस्य जगतं दारयित्वा पश्चिमेन-लवणसमुद्रं समुपसर्पतीति
अधुनाऽस्या विष्कम्भाद्याह-'सीओआइत्यादि, शीतोदा महानदी प्रवहे-दनिर्गमे पञ्चाशद्योजनानिविष्कम्भेन, हरिनदीप्रवहादस्याः प्रवहस्य द्विगुणत्वात्,योजनमुद्वेधेन-उण्डत्वेन, पश्चाशयोजनानां पञ्चाशता भागे एकस्यैव लाभात्, तदनन्तरं मात्रया २-क्रमेण २ प्रतियोजनं समुदितोरुभयोः पार्श्वयोरशीतिधनुर्वृद्धया,प्रतिपावं चत्वारिंशद्धनुर्वृद्धयेत्यर्थः, परिवर्द्धमाना २ मुखमूले-समुद्रप्रवेशे पञ्च योजनशतानि निष्कम्भेन प्रवहविष्कम्भापेक्षया मुखविष्कम्भस्य दशगुणत्वात्, दशयोजनान्युद्वेधेन, आद्यप्रवहोद्वेधापेक्षयाऽस्य दशगुणत्वात्, शेषं व्यक्तं ।
__अथ निषधे कूटवक्तव्यमाह-'निसढेण मित्यादि, सिद्धायतनकूटं निषधवर्षधराधिपवासकूटं हरिवर्षक्षेत्रपतिकूटं पूर्वविदेहपतिकूटं हरिसलिलानदीसूरीकूटं धृति-तिगिछिद्रहसुरी तस्याः कूटशीतोदानदीसुरीकूटअपरविदेहपतिकूटं रुचकः-चक्रवालगिरिविशेषस्तदधिपतिकूट, अत्र वक्तव्येऽतिदेशसूत्रमाह- 'जोचेव'इत्यादि, यएवक्षुद्रहिमवतिकूटानामुन्नत्वविष्कम्माभ्यां सहितः परिक्षेपः उच्चत्व-विष्कम्भपरिक्षेपः, चशब्दात् कूटवर्णकः पूर्ववर्णितः अधस्तनग्रन्थोक्तः स एव इहापि ज्ञातव्यः, तथाहि-पञ्चयोजनशतान्युश्चत्वं मूलविष्कम्भश्चेत्यादि, राजधानी च सैव इहापिनेतव्या, अत्रलिङ्गविपरिनामेनार्थयोजनाइति, कोऽर्थः?-यथा क्षुद्रहिमवदिरिकूटस्य दक्षिणेन तिर्यगसङख्येयान्द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन्जम्बूद्वीपेक्षुद्रहिमवती नाम्नी राजधानी तथा इहापि निषधा नाम राजधानीति, अधुनाऽस्य नामार्थं प्रश्रयन्नाह
____ 'सेकेणखूण मित्यादि, व्यक्तं, नवरं निषधे वर्षधरपर्वते बहूनि कूटानि निषधसंस्थानसंस्थितानि, तत्र नितरांसहते स्कन्धेपृष्ठेवासमारोपितंभारमिति निषधो-वृषभः पृषोदरादित्वादिष्टरूपसिद्धि तत्संस्थानसंस्थितानि, एतदेव पर्यायान्तरेणाह- वृषभसंस्थितानि, निषधश्चात्र देव आधिपत्यं परिपालयति, तेन निषधाकारकूटयोगानिषधदेवयोगाद्वा निषध इति व्यवलियते । अथ यनिषधसूत्रे 'महाविदेहस्स वासस्स दक्खिणेणमित्युक्तं तत् किं महाविदेहमित्याह
मू. (१४०) कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे नामं वासे प० गो० नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं निसहस्स वासहरपव्वयस्स उत्तरेणं पुरथिमलवण- समुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्य णं जंबुद्दीवे २ महाविदेहे वासे पन्नते।
-पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org