________________
३०२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३५ द्धनुरधिकस्तेन किञ्चिदूनाऽशीतिरुक्ता इत्यर्थः, परिक्षेपेणेति।
___ अधूनाऽस्य द्वीपवक्तव्यमाह- 'तस्स णं० व्यक्तं, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात् षोडश योजनानि रोहिता- द्विपप्रमाणमित्यर्थः, ‘से ण'मित्यादि, सुगम, 'रोहिअदीव'इत्यादि, सुगम, नवरं शेषविष्क-म्मादिकंप्रमाणंतदेव, कोऽर्थः?--अर्द्धक्रोशं विष्कम्भेन देशोनक्रोशमुच्चत्वेनेति, चशब्दा- द्रोहितादेवीशयनादिवर्णकोऽपि, अर्थश्च ‘से केणटेणं भंते ! रोहिअदीवे' इत्यादि, सूत्रावगम्यः, सम्प्रति यथेयं लवणगामिनी तथाऽऽह
_ 'तस्स०' तस्य-रोहिताप्रपातकुण्डस्य दाक्षिणात्येनतोरणेन द्वारेणेत्यर्थः रोहिता महानदी प्रव्यूढा-निर्गतासती हैमवतंवर्ष आगच्छन्ती र हैमवतक्षेत्राभिमुखमायान्तीत्यर्थः शब्दापातनामानं वृत्तवैताढयपर्वतमर्द्धयोजनेन क्रोशद्वयेनासम्प्राप्ता-असंस्पृष्टा दूरस्थितेत्यर्थः पूर्वाभिमुखी आवृत्ता सती हैमवतं वर्षद्विधा विभजन्ती२-द्विभागं कुर्वती २ अष्टाविंशत्यासलिलासहस्रासमग्रा-पूर्णा, भरतनदीतो द्विगुणनदीपरिवारत्वात्, अधोभागे जगती-जम्बूद्वीपकोट्टं दारयित्वा पूर्वभागेन लवणसमुद्रं समुपसर्पति, प्रविशतीत्यर्थः,अथ लाघवार्थ रोहितांशातिदेशेन रोहितावक्तव्यमाहअतिदेशसूत्रत्वादेव प्राग्वत् । अथास्मादुत्तरगामिनीयं नदी क्वावतरतीत्याशंक्याह
____ 'तस्स णमिति व्यक्तं, हरिकता' इत्यादि कण्ठ्यं, अत्र ‘सव्वरयणामई ति पाठो बहादद्दिष्टोऽपिलिपिप्रमादापतित एव सम्भाव्यते, बृहत्क्षेत्रविचारादिषुसर्वासांजिबिकानांवज्रमयत्वेनैव भणनात्, जलाशयानांप्रायो वज्रमयत्वेनैवोपपत्तेश्च, 'हरिकंताणमित्यादि, व्यक्तं, नवरंहरिकांताप्रपातकुण्डं द्वेयोजनशतेचत्वारिंशदधिके आयामविष्कम्भाभ्यांसप्त योजनसतानिएकोनषष्टानिएकोनषष्ट्यधिकानि परिधिना इति।
'तस्सण मित्यादि, सूत्रत्रयंप्राक्सूत्रानुसारेणबोद्धव्यं, नवरं विकटापातिनं वृत्तवैतायं योजनेनासम्प्राप्ता पश्चिमेनावृत्ता सत हरिवर्ष नाम क्षेत्रं वक्ष्यमाणस्वरूपं द्विधा विभजमाना २ षट्पञ्चाशता नदीसहनै समग्रा-परिपूर्णा, हैमवतक्षेत्रनदीतो द्विगुणनदीपरिवारत्वात्, पश्चिमेन भगेन लवणोदधिमुपैति । सम्प्रत्यस्याः प्रवाहाद कियन्मानमित्याह-'हरिकंता इत्यादि, हरिकान्ता महानदीप्रवहे-द्रहनिर्गमेपञ्चविंशतियोजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेनतदनन्तंरचमात्रया २-क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोःचत्वारिंशद्धनुर्वृद्धया, प्रतिपार्श्वधनुर्विंशतिवृद्धयेत्यर्थः, परिवर्द्धमाना २ मुखमूले-समुद्रप्रवेशेऽर्द्धतृतीयानि योजनशतानि विष्कम्भेन पञ्चयोजनान्द्वेधेन, उभयोः पार्श्वयोभ्यिांपद्मवरवेदिकाभ्यां द्वाभ्यांचवनखण्डाभ्यांसम्परिक्षिप्ता अर्थतस्य कूटवक्तव्यमाह
मू. (१३६) महाहिमवंते णं भंते ! वासहरपव्वए कइ कूडापं०?, गो०! अट्ठ कूडाप०, -सिद्धाययणकूडे १ महाहिमवंतकूडेर हेमवयकूडे३ रोहिअकूडे ४हिरिकूडे५हरिकंतकूडे६ हरिवासकूड़े ७ वेरुलिअकूडे ८ एवं चुलहिमवंतकूडाणं जा चेव क्त्तव्वया सच्चेव नेअव्वा।
से केणडेणं भंते ! एवं वुच्चइ महाहिमवंते वासहरपव्वए २?, गोअमा! महाहिमवंतणं वासहरपव्वए चुलहिमवंतं वासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खम्भपरिक्खेवेणंमहंततराए चेव दीहतराए चेव, महाहिमवंते अइत्य देवे महिंद्धीए जाव पलिओवमट्टिइए परिवसइ।
वृ. 'महाहिमवंते'त्ति, महाहिमवति वर्षधरपर्वते भगवन् ! कति कूटानि?, गौतमेत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org