SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२९ अथास्या जिहिवकामाह-'रोहिअं'इत्यादि, व्यक्तं, नवरं आयामे योजनविष्कम्भमानेऽर्द्धत्रयोदशानि योजनानि-सार्द्धद्वादशयोजनानि बाहल्ये क्रोशं, गङ्गाजिहिवकाया अस्या द्विगुणत्वात्। अथ कुण्डस्वरूपमाह-रोहिअंसा इत्यादि, प्रायःप्रकटार्थं, परमायामविष्कम्मयोविंश त्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विगुणत्वात्, अथात्र द्वीपमाह-'तस्सण मित्यादि, प्रकटायें, से केणटेणं भंते ! एवं वुधइ रोहिअंसादीवे २' इत्याद्यभिलापेन ज्ञेयः, सम्प्रत्यस्या येन तोरणेन निर्गमोयस्य च क्षेत्रस्यस्पर्शनायावांश्चनदीपरिवारोयत्रस संक्रमस्तथाऽऽह-तस्सण'मित्यादि, तस्य-रोहितांशाप्रपातकुण्डस्य औत्तराहेण तोरणेन रोहितांशा महानदी प्रव्यूढा-निर्गता सती हैमवतं वर्ष इयती २-गच्छन्ती २ चतुर्दशभिः सलिलासहौः आपूर्यमाणा २ शब्दापातिनामानं वृत्तवैताद्यपर्वतं अर्द्धयोजनेनासम्प्राप्ता सती पश्चिमाभिमुखी आवृत्ता सती हैमवन्तं वर्ष द्विधा विभजन्ती २ अष्टाविंशत्या सलिलासहनैः समग्रा-परिपूर्णा जगतीं अधो दारयित्वा पश्चिमायां लवणसमुद्रं प्रविशति, अस्या एव मूलविस्ताराद्याह 'रोहिअंसा णमित्यादि, रोहितांशा प्रवहे-मूलेऽर्द्धत्रयोदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात्,क्रोशमुद्वेधेनप्रवहव्यासपञ्चाशत्तमभागरूपत्वात्, तदनन्तरं मात्रया २-क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्विंशत्या वृद्धया प्रतिपार्श्व धनुर्दशकवृध्येत्यर्थः परिवर्द्धमाना २ मुखमूले-समुद्रप्रवेशे पंचविंशतं योजनशतं विष्कम्भेन, प्रवहव्यासाशगुणत्वात्, अर्द्धतृतीयानि योजनानि उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात्, शेषं प्राग्वत् । अथ हिमवति कूटान्याह मू. (१३०) चुलहिमवंते गंभंते ! वासहरपब्बए कइ कूडा पं०?, गोय०! इक्कारस कूड़ा पं०, तं०-सिद्धाययणकूडे १ चुलहिमवन्तकूडे २ भरहकूडे ३ इलादेवीकूडे ४ गंगादेवीकूडे ५ सिरिकूडे ६ रोहिअंसकूडे ७ सिन्धुदेवीकूडे ८ सुरदेवीकूडे ९ हेमवयकूडे १० वेसमणकूडे ११ कहि णं भंते ! चुल्लहिमवन्ते वासहरपव्वए सिद्धाययणकूडे नामं कूडे पं० ?, गोअमा! पुरच्छिमलवणसमुदस्स पञ्चस्थिमेणं चुल्लहिमवंतकूडस्स पुरथिमेणं एत्य णं सिद्धाययणकूडे नामं कूडे पन्नत्ते, पंच जोअणसयाई उद्धं उच्चत्तेणं मूले पंच जोअणसयाई विखंभेणं मझे तिन्नि अ पन्नत्तरे जोअणसए विक्खंभेणं उप्पिं अद्धाइजे जोअणसए विक्खंभेणं मूले एगंजोअणसहस्सं पंच य एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसीअंजोअणसयं किंचिविसेसूणं परिक्खेवेणं उपिं सत्तइक्कानउएजोअणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखइथअथए उप्पिंतणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे । सेणंएगाएपउमवरवेइआएएगेण यवनसंडेणंसव्वओसमंता संपरिक्खित्ते सिद्धाययणस्स कूडस्सणं उप्पिं बहुसमरमणिजे भूमिभागे प० जाव तस्सणं बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे प० पन्नासं जोअणाई आयामेणं पणवीसं जोअणाई विखंभेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं जाव जिनपडिमावण्णओ भा० कहि णं भंते ! चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूडे पन्नते?, गो० ! भरहकूडस्स पुरथिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं, एत्थ णं चुल्लहिमवंते वासहरपव्यए चुल्लहिमवंतकूड़े नाम कूड़े पन्नत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy