________________
-
वक्षस्कारः-४
२९३ ष्टियोजनप्रमाणमुखव्यासस्य पञ्चाशत्तमभागे एतावत एव लाभात्, उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यांच सम्परिक्षिप्ता गङ्गेत्यर्थः,प्रतियोजनाधनुर्दशकवृद्धिस्त्वेयम्
मुखव्यासात् प्रवहव्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सरिदायामेन भक्ते लब्धं इष्टप्रदेशगतयोजसङ्ख्यया गुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धिर्वाच्या, तथाहि-गङ्गायाः प्रवहे व्यासः योजन ६क्रोश १ मुखे तुयोजन ६२ क्रोश २, तत्र मुखव्यासात्प्रवहव्यासेऽपनीते जातं योजन ५६ क्रोश १, योजनानां च क्रोशकरणाय चतुभिर्गुणने उपरितनैकक्रोशप्रक्षेपे च जातः २२५ क्रोशे च धनुषां सहस्रद्वयमिति सहस्रद्वयेन गुण्यन्ते जातानि धषि ४५००००, ततः पञ्चचत्वारिंशता सहस्र ज्यन्ते लब्धानि १० धनूंषि एकेन गुण्यन्ते जातानि १०,एतावती च समुदितयोरुभयोः पार्श्वयोः प्रवहादेकस्मिन् योजने गते जलवृद्धिः, अथ मूलाधोजनद्वयान्ते यदा वृद्धिातुमिष्यतेतदा दशधनूर्षिद्विकेन गुण्यन्तेजातानि२० एतावतीप्रवहादुभयपार्श्वयोज नद्विकान्ते वृद्धिः स्यात्, अस्याश्चा॰ १०, एतदावत्येकपार्वे वृद्धि, एवं सर्वत्र भाव्यं ।
अथगणायामादीन्यन्यत्रावतारयति-‘एवं सिंधु इत्यादि, एवं सिन्ध्याअपिस्वरूपं नेतव्यं यावत्तस्यपद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा सिन्ध्वावर्तनकूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींश्चैकोन-विंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन यावत्प्रपातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति अत्र महती जिह्निका वाच्या, सिन्धुमहानदी यत्र प्रपतति तत्र सिन्धुप्र- पातकुण्डं वाच्यं, तन्मध्ये सिन्धुद्वीपो वाच्योऽर्थ स एव यथा गङ्गाद्वीपप्रमाणि गङ्गाद्वीपवर्णाभानिपानि तथा सिन्धुद्वीपप्रमाणि सिन्धुद्वीपवर्णामानि पद्मानि सिन्धुद्वीप इत्युच्यते, अत्र यावत्पर्यन्तं सूत्रं वाच्यं तथाह
यावदधस्तमिस्रगुहाया इत्यादि, अत्र यावत्करणादिदं-'तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणिल्लेणंतोरणेणं सिन्धुमहानईपवूढासमाणी उत्तरद्धभरहवासं एज्जेमाणी २ ससिलासहस्सेहिं आपूरेमाणी २' इति संग्रहः, अधस्तमिनगुहाया वैताढयपर्वतंदारयित्वा 'देशदर्शनाद्देशस्मरण मिति 'दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता' इति पदानि बोध्यानि, पश्चिमाभिमुखी आवृता सती चतुर्दशभि सलिलासहसैः समग्रा-पूर्णाजगतीमधोदारयित्वा पश्चिमायां लवणसमुद्रंसमुपसर्पति, शेषं-उक्तातिरिक्तं प्रवहमुखमानादि तदेव-गङ्गामानसमानमेव ज्ञेयम्,
अथ पद्मद्रहनिर्गततृतीयनदीस्वरूपमाह- "तस्स णं० व्यक्तं नवरं द्वे षटसप्तत्यधिके योजनशतेषट्च एकोनविंशतिभागान्योजनस्य एतावती भुवं उत्तराभिमुखी-हैमवतक्षेत्राभिमुखी पर्वतेन गत्वा, अत्रोपपत्ति-हिमवदव्या-साद्रहव्यासेऽपनीतेशेषहिमवदव्यासेऽर्कीकृते एतावत एव लाभात्, ननु गङ्गायां दक्षिणाभिमुखं गिरिगमनं पञ्चयोजनशतानि २३ योजनानि कलात्रिकं च समधिकमिति, अस्यास्तु षट्सप्तत्यधिके द्वेशते षट्च कलाः किमित्येतावदन्तरं?, गङ्गायाः गिरिमध्यवर्त्तिनापुर्वदिकतोरणेन निर्गतायाः पञ्चशतयोजनपूर्वाभिमुखगमनानन्तरं दक्षिणादिग्गामिन्याः स्वव्यासरहितगिरिव्यासा-र्द्धगामित्वं, एवं सिन्ध्वा अपि पञ्चशतयोजनपश्चिमाभिमुखगमनादनु, अस्यास्तु उत्तरदिकतोरणेन निर्गतायाः उत्तरगामिन्याद्रहव्यासशुद्धगिरिव्यासार्द्धगामित्वमिति भेदः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org