________________
२९२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२९ त्रिपदो बहुव्रीहि, पदविपर्यासः प्राकृतत्वात्, शेष सुबोधं, नवरं घण्टावले वशेन चलिताया मधुरोमनोहरश्च स्वरोयेषु तानि तथा, 'तेसि णमित्यादि, अस्य व्याख्या प्राग्वत्।
_ 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरध्वजाः एवं नीलचामरध्वजादयोऽपि वाच्याः, ते च सर्वेऽपि कथंभूता इत्याह-अच्छा-आकाशस्फटिकवदतिनिर्मलाः, श्लक्ष्णपुदगलस्कन्धनिर्मापिताः, रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषा ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो नतु कुद्रव्यगन्धसम्मिश्रोयोगन्धः सविद्यतेयेषांतेतया, जलजानामिवजलजकुसुमानां पद्मादीनामिवामलोन तुकुद्रव्यगन्धसम्मिश्रोयो गन्धः सविधतेयेषां तेजलजालमगन्धिकाः 'अतोऽनेकस्वरा' दितीकप्रत्ययः, त एव सुरम्याः, पासाईआ इत्यादि प्राग्वत्, 'तेसि णमित्यादि, अस्य व्याख्या प्राग्वत् । अथ गङ्गाद्वीपवक्तव्यतामाह- 'तस्स गङ्गप्पवाय'इत्यादि, तस्य गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागेऽत्रमहानेको गङ्गादेव्यावासभूतोद्वीपोगङ्गाद्वीप इति नाम्ना द्वीपःप्रज्ञप्तःमध्यलोपी समासात् साधुः, अष्टौ योजनान्यायामविष्कम्भेन सातिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण द्वौ क्रौशो यावदुच्छ्रितो जलान्तात्-लपर्यन्तात् सर्वतोवर्तिजलस्य जलानावृतस्य क्षेत्रस्य द्वीपव्यवहारात्, शेष व्यक्तं, सेण मित्यादि, सगङ्गाद्वीप एकयापावरवेदिकयाएकेनवनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तः, वर्णकश्चभणितव्योजगतीपद्मवरवेदिकावदिति, अथ तत्र यद्यदस्ति तदाह-'गंगादीवस्स णमित्यादि, गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य बहुमध्यदेशभागे अत्रान्तरे गङ्गाया देव्या महदेकं भवनं प्रज्ञप्तं, आयामदिविभागदिकं शय्यावर्णकपर्यन्तं सूत्रं सव्याख्यानं श्रीभवनानुसारेण ज्ञेयं, अथ नामान्वर्थ पृच्छति- से केणटेण'मित्यादि, व्यक्तं, अथ गङ्गा यथा यत्र समुपसर्पतितथाऽऽह-" . .
'तस्स ण'मित्यादि, तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रव्यूढा-निर्गता सती गङ्गामहानदी उत्तरार्द्धभरतवर्ष इयती२-गच्छन्ती र सप्तभिः सलिलानां-नदीनांसहनैरापूर्यमाणा २-भ्रियमाणा अधः खण्डप्रपातगुहाया वैताढ्यपर्वतं दारयित्वा-मित्वा दक्षिणार्द्धभरतं वर्ष इयती २ दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशमागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्र समग्रा-संपूर्णा आपूर्यमाणा इत्यर्थः अधोभागे जगतीजम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लवणसमुद्रंसमुपसर्पति–अवतरतीत्यर्थः, अथास्याएव प्रवहमुखयोः पृथुत्वोदवेधीदर्शयति, गङ्गा महानदी प्रवहे यतः स्थानात् नदी वोढुं प्रवर्तते सप्रवहः पद्मद्रहात्तोरणात्रिर्गम इत्यर्थः, तत्र षट् सक्रोशानि योजनानि विष्कम्भेन, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासपञ्चाशत्तमभागरूपत्वात्, अस्तीतिशेषः । तदनन्तर मितिपद्मदहतोरणीयव्यासादनन्तरं एतेन यावत् क्षेत्रसव्यासोऽनुवृत्तस्ता-वतक्षेत्रादनन्तरं गङ्गाप्रपातकुण्डनिर्गमादननतरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुख- प्रणालनिर्गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स नेति, श्रीसमवायाङ्गवृत्ती श्रीमलयगिरिपादैश्च बृहत्क्षेत्रसमासवृत्तौ पद्मदहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपिज्ञेयं,मात्रया२-क्रमेण २ प्रतियोजनसमुदितयोरुभयोः पार्श्वयोर्धनुर्दश कवृद्धया प्रतिपार्श्व धनुःपञ्चकवृधेत्यर्थ परिवर्द्धमाना २ मुखे-समुद्रप्रवेशे द्वाषष्टिं योजनानि अर्द्धयोजनं चविष्कम्भेन,प्रवहमानान्मुखमानस्य दशगुणत्वात्, सक्रोशंयोजनमुद्वेदेन सार्द्धद्वाष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org