________________
वक्षस्कारः-४
२९१
केदारोजलस्थानंतत्रगम्भीरं-अलब्धस्ताधंजलंयस्मिन्तत्तथा संछन्नानि जलेनान्तरितानि पत्रबिसमृणालानि यस्मिन्तत्तथा, अत्रबिसमृणालसाहचर्यात् पत्राणि-पद्मिनीपत्राणि द्रष्टाव्यानि बिसानि-कन्दाः मृणालानि-पद्मनालानि, बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्राणा प्रपुल्लानां-विकस्वराणां केसरैः-किंजल्कैरुपशोभितं-भृतं, विशेषणस्य व्यस्ततया निपातः प्राकृतत्वात्, षटपदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहितेन पथ्येन-आरोग्यकरणेन सलिलेनपूर्ण,तथा पडिहत्या-अतिप्रभूताः देशीशब्दोऽयंभ्रमन्तो मत्स्यकच्छपायत्रतत्तथा, अनेकशकुनिमिथुनकानांप्रविचरितं-इतस्ततो गमनंयत्रतत्तथा ततः पूर्वपदेन विशेषणसमासः, तथा शब्दोन्नतिकं-उन्नतशब्दकंसारसादिजलचररुतापेक्षया मधुरस्वरं च हंसभ्रमरादिकूजितापेक्षया एवंविधं नादितं-विलपितं यत्र तत्तथा, अत्र च यत् कानिचिद्विशेषणानि प्रस्तुतसूत्रद्दश्यमानादशपिक्षया व्यस्ततया लिखितानि सन्ति तज्जीवाभिगमवाप्यादिवर्णकसूत्रस्य बहुसमानगमकतया तदनुसारेणेति बोध्यं, एवमन्यत्रापि, 'पासाईएत्ति, अनेनत 'पासोईए दरिसणिज्जे अभिरुवेपडिरूवे इति पदचतुष्टयंग्राह्यं, तच्च प्राग्वत्।
अथात्र पद्मवरवेदिकादिवर्णनायाह-'सेणं'इत्यादि, व्यक्तं, अत्र सुखावतारोत्तारी कथं भवत इत्याह-'तस्स णमित्यादि, तस्य गङ्गाप्रपातकुण्डस्य त्रिदिशि-दिकत्रये वक्ष्यमाणलक्षणे त्रीणि सोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतदव्याख्या प्राग्वत्,शेषं व्यक्तं, 'तेसि ण मित्यादि, व्यक्तं, गतीवर्णकलुत्यत्वात्, नवरंआलम्बनाः-अवतारोत्तारयोरालम्बनहेतुभूताः अवलम्बनबाहावयवाः, अवलम्बनबाहा नाम-द्वयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः।
"तेसि णमित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोरणानि प्रज्ञप्तानि तानि तोरणानि नानामणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि तानिच कदाचिन्चलानिस्थानभ्रष्टानीत्यर्थः अथवा अपदपतितानि भवेयुरिति सन्निविष्टानि-सम्यग् निश्चलतयाअपदपरिहारेणचनिविष्टानि, ततोविशेषणसमासः, विविधा-नानाविच्छित्तिकलिता मुक्ताः-मुक्ताफलानि अन्तराशब्दोऽगृहीतवीप्सोऽपि सामथ्यार्दवीप्सां गमयति, अन्तरान्तरा ओअविआ-ओरापितानि यत्र तानि तथा विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगाः-वृकाः ऋषभा-वृषभाः व्याला-भुजगाः रुरवो-मगविशेषाः शरभा-अष्टपदाः चमरा-आटव्या गावः वनलताअशोकादिलता:प्रतीताः पद्मलताः-पद्मिन्यःशेषप्रतीतं, एतासांभक्त्योविच्छित्तयस्ताभिश्चित्राणि,
स्तम्भोदतया-स्तम्भोपरिवर्तिन्या वज्रवेदिकया परिगतानि-परिकरितानि सन्ति यानि अभिरामाणि-अभिरमणीयानि तानि तथा, विद्याधरयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलंसमश्रेणीकंयुगलं-द्वन्द्वंतेनैव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेणयुक्तानि,आर्षत्वान्चैवंविधः समासः, अथवा प्राकृतत्वेन तृतीया- लोपात् विद्याधरयमलयुगलेनेवेति, शेषं पूर्ववत्, अर्चिषां-मणिरलप्रभाणां सहस्रर्मालनीयानि-परिवारणीयानि रूपकसहस्रकलितानीति स्पष्टं, भृशं-अत्यर्थं मान-प्रमाणं येषां तानि तथा, 'भिब्धिसमाण'त्ति 'भासेर्भिस' इत्यनेन भिसादेशे प्रकृष्टार्थप्रत्ययेच रूपसिद्धि, अत्यर्थं देदीप्यमानानि लोकने सति चक्षुषो लेशः-श्लेषो यत्र तानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org