SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२९ तत्संस्थानेनेत्यर्थः सातिरेकं योजनशतं क्षुद्रहिमवच्छिखरतलादारभ्य दशयोजनोद्वेधप्रपातकुण्डं याद्वारापातात्मानमस्येति सातिरेकयोजनशतिकस्तेनतथा प्रपातेन-प्रपतजलौघेन, अत्रकरणे तृतीया, प्रपतति-प्रपातकुण्डं प्राप्नोतीत्यर्थः। दक्षिणाभिमुखगमनपञ्चयोजनशतादिसङ्ख्यात्वेवम्-हिमवद्गिरिव्यासात्योजन १०५२ कला १२ रूपात् गङ्गाप्रवाहव्यासे योजन ६क्रोश १ प्रमिते शोधिते शे, १०४६ क्रोशे तुपादोनं कलापञ्चकं तत्कलाद्वादशकात् शोध्यं ततः शेषाः सप्त सपादाः कलाः, गङ्गाप्रवाहः पर्वतस्य मध्यभागेन पद्मद्रहाद्विनिर्यातितेनास्या दक्षिणाभिमुखगङ्गाप्रवाहोनगिरिव्यासार्द्धस्य गन्तव्यत्वेन गङ्गाव्यासोनो गिरिव्यासः योजन १०४६कलासपादसप्त७रूपोऽर्टीक्रियतेजातंयथोक्तंयोजन ५२३ कला३, यद्यप्यत्र कलात्रिकंकिश्चित्स्मधिकार्द्धयुक्तमायाति तथाऽप्यल्पत्वात्रविवक्षितम् __ अथ जिहिवकाया अवसरः-'गङ्गामहानई जओ पवडई इत्थ ण'इत्यादि, सा महानदी यतः स्थानात्प्रपततिअत्रान्तरे महती एका जिहिवका प्रणालापरपर्यायाप्रज्ञप्ता, साणं'इत्यादि, सा जिहिवका अर्द्धयोजनमायामेन षट् सक्रोशानि योजनानि विष्कम्भेन गङ्गामूलव्यासस्य मातव्यत्वात् अर्द्धक्रोशं बाहल्येन-पिण्डेन विवृतं-प्रसारितं यन्मकरमुखं-जलचरविशेषमुखं तत्संस्थानसंस्थिता विसेषणस्य परनिपातः प्राग्वत् सर्वात्मना वज्रमयी इत्यादि कण्ठ्यं । अथ प्रपातकुण्डस्वरूपमाह-'गंगामहानई इत्यादि, गङ्गा महानदी यत्र प्रपततिअत्रान्तरे महदेकं गङ्गाप्रपातकुण्डं नाम यथार्थनामकं कुण्डं प्रज्ञप्तं, षष्टिं योजनान्यायामविष्कम्माभ्यां, अत्र करणविभावनायां 'मूले पन्नासं जोअणवित्थारो ५० उवरि सट्टी ६०' इति विशेषोऽस्ति, श्रीउभास्वातिवाचककृतजम्बूद्वीपसमाससूत्रादावपितथैव, इत्थंचकुण्डस्य यथार्थनामतोपपत्तिरपि भवति, एवमन्येष्वपि यथायोगज्ञेयमिति, तथा नवतं-नवत्यधिकंयोजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेणे, श्रीजिनभद्रगणिक्षमाश्रमणपादाः खोपज्ञक्षेत्रविचारसूत्रे॥५॥ "आयामो विखंभो सद्धिं कुंडस्स जोअणा हुंति । नउअसयं किंचूर्ण परिही दसजोअणोगाहो ॥" इत्युचुः, तद्वृत्तावपि श्रीमलयगिरिपादास्तथैव, करणरीत्याऽपि तथैवागच्छति, तेन प्रस्तुतसूत्र गम्भीरार्थं बहुश्रुतैर्विचार्य नास्माध्शां मन्दमेधसां मतिप्रवेश इति, यद्वा प्रस्तुतसूत्रं पद्मवरवेदिकासहितकुण्डपरिधिविवक्षया प्रवृत्तमिति सम्भाव्यते, तेन न दोषः, तत्वंतु केवलिगम्यमिति, दशयोजनान्युद्वेधेन-उण्डत्वेन अच्छं-स्फटिकवहिर्निर्मलप्रदेशंश्लक्ष्णं-लक्ष्णपुदगलनिष्पादितवहिप्रदेशं रजतामयं-रूप्यमयं कूलं यस्य तत्तथा समंन गर्तासदभावतो विषम वीरवर्तिजलापूरितं स्थानं यस्मिन् तत्तथा, वज्रमयाः पाषाणाः भितिबन्धनाय यस्य तत् तथा, वज्रमयं तलं यस्य तत्तथा, सुवर्ण-पीतहेम सुब्म-रूप्यविशेषः रजतं प्रतीतं तन्मय्यो वालुका यस्मिन्, तत्तथा, वैडूर्यमणिमयानि स्फटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीवर्तयभ्युन्नतप्रदेशायस्य तत्तथा, सुखेनावतारो-जलमध्ये प्रवेशनं यस्मिन् तत्तथासुखेनोत्तारोजलमध्याद् बहिर्विनिर्गमनं यस्मिन् तत्तथा, ततः पूर्वपदविशेषणसमासः, तथा नानामणिभि सुबद्धतीर्थंयत्रतत्तथा, अत्बहुव्रीहावपिक्तान्तस्यपरनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, तथा वृत्तं-वर्तुलं आनुपूव्येर्ण-क्रमेण नीचैनीचैस्तरभावरूपेण सुष्टु-अतिशयेनयो जातो वप्रः Jain Education International Forp For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy