________________
वक्षस्कारः-४
२८७
व्याससत्कपञ्चशतयोजनानां पर्यवसितत्वात, शोभमानाश्चोक्तरीत्यैव भवन्तीति।
किञ्च-इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात्, वानस्पतान्यपि बहूनि तत्रोत्पधन्ते, यदाहुः श्रीउमाखातिवाचकपादाः स्वोपज्ञम्बूद्वीपसमासप्रकरमे-"नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिपुष्पाञ्चित" इति, अन्यथा श्रीवज्रस्वामिपादाः श्रीदेवतासमर्पितानुपमेयमहापद्मानयनेन पुरिकापुर्याकथंजिनप्रवचनप्रभावनामका(रिति? एतानिचन शाश्वतानि, तत्रत्यश्रीदेवतादिभिरवचीयमानत्वात्, यदूचुः, श्रीहेमचन्द्रसूरयःस्वोपज्ञपरिशिष्टपर्वणि
"तदा च देवपूजार्थमवचित्यैकमम्बुजम्।
श्रीदेव्या देवतागारं, यान्त्या वषिर्रक्ष्यत ।।" इति, नन्वयमनन्तरोक्तोऽर्थकथं प्रत्येतव्यः?,उच्यते, इदमेवद्वितीयपरिक्षेपसूत्रप्रत्यायकं, तथाहि-अत्रैकादशाधिकचतुस्त्रशसहस्रकमलानि उक्तदिशि माययितव्यानि, तानि च क्रोशमानानि एकपंक्त्या च तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुस्त्रिशत्सहनकोशप्रमाणः स्यात्, सचतदस्यायदा मूलक्षेत्रायामव्यासौ साधिकषडविंशतिशतप्रमाणौ स्यातां, तो प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेपद्मजाति पूरणीयेति तात्पर्य, एवमन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थ सिद्धानन्तता प्रापित इति उच्यते, अन्यथाऽनुपपत्या, नहियथाक्षरमात्रसन्निवेशं सूरयः सूत्रव्याख्यानपरा भवन्ति, किन्तु प्राकपरार्थाविरोधेन, यदुक्तम्॥१॥ “जंजह सुत्ते भणिअंतहेवतंजइ विआलणा नत्थि।
किंकालिआणुओगो दिट्टो दिटिप्पहाणेहिं॥ इति । अलंप्रसङ्गेनेति।अथपद्मद्रहनामनिरुक्तं पृच्छन्नाह-'सेकेण?ण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-पद्मद्रहः पद्मद्रह इति, गौतम! पद्मद्रहे तत्र तत्र देशे-तस्मिन् देशे २ बहूनि उत्पलानियावत्शतसहस्रपत्राणि पद्मद्रहप्रभाणि-पद्मद्रहाकाराणि आयतचतुरखाकाराणीत्यर्थः, एतेन तत्र वानस्पतानि पद्मद्रहाकाराणि पशनिबहूनि सन्ति, नतु केवलं पार्थिवानिवृत्ताकाराणि महापद्मादीन्येव तत्र सन्तीति ज्ञापितं, तथा पद्मद्रहवर्णस्यैवाभा-प्रतिभासो येषां तानि तथा, ततस्तानितदाकारत्वात्तद्वर्णत्वाच्चपद्मद्रहाणीति प्रसिद्धानि, ततस्तद्योगादयंजलाशयोऽपिपद्मद्रहः, उभयेषामपि धन नाम्नामनादिकालप्रवृत्तत्वेन नेतरेतराश्रयदोषः, अथ पार्थिवपातोऽप्यस्य नामप्रवृत्तिर्जाताऽस्तीति ज्ञापयितुं प्रकारान्तरेण नामनिबन्धनमाह-श्रीश्च देवी पद्मवासाऽत्र परिवसति, ततश्च श्रीनिवासयोग्यपद्माश्रयत्वात् पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते, मध्यपदलोपिसमासात्, समाधानं शेषं प्राग्वत् । अथ गङ्गामहानदी-स्वरूपमाह
मू. (१२९) तस्स उणं पउमद्दहस्स पुरथिमिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी पुरत्याभिमुही पञ्च जोअणसयाई पब्बएणं गंता गंगा वत्तणकूडे आवत्ता समाणी पञ्च तेवीसे जोअणसए तिन्नि अ एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवत्तएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ।
गंगा महानईजओ पवडइइत्थणं महंएगा जिब्भिया पन्नत्ता, साणंजिभिआअद्धजोअणं आयामेणं छ सकोसाई जोअणाई विक्खंभेणं अद्धकोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org