SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२८ भागमाना षष्ठीतचतुःषष्टितमभागमाना, ततश्चतत्परिधिक्षेत्रपरिक्षेपपद्मसङख्यापद्मविस्तारान् परिभाव्य यत्र यावत्यः पंक्तयः सम्भवंति गणितज्ञेन करणीयास्तत्र तावतीभि पंक्तिभिरेक एव परिक्षेपोज्ञेयः, पद्मानामेकजातीयत्वात्,महापरिक्षेप एकयापंक्त्यानसम्माति, इह परिधिक्षेत्रस्याल्पत्वात्, पद्मानां च बहुत्वात्, ततः पंक्तिभिः पद्यानि पूरणीयानि, एवं परिक्षेपः पूर्णो भवति, द्रहपरिधिश्च प्रतिपरिक्षेपं भिन्नमानकत्वात् सपद्मपरिक्षेपो भिन्न एव लक्ष्यते इति, न च द्रहक्षेत्रस्याल्पत्वमिति वाच्यं, अत्र गणितपदक्षेत्रस्य पञ्चलक्षयोजनप्रमाणत्वात्, सहनयोजनप्रमाणायामस्य पञ्चशतयोजनविष्कम्भेन गुणनेएतावत एव लाभात्, पद्मावगाढक्षेत्रंतुस्वसङ्ख्ययाविंशति सहस्राणि पञ्चाधिकानि योजनानां षोडशभागीकृतस्यैकस्य योजनस्य त्रयोदश भागाः, मूलपद्मावगाहोयोजनमेकंजगती द्वादशयोजनानिमूले पृथुरिति, जगतीपूर्वापरभागसत्कमूलव्यासयोर्मीलनेन पञ्चविंशतिर्योजनानीति, तथा तत्परिधीप्रथमः परिक्षेपोऽष्टोत्तरशतपमानां तदवगाहक्षेत्रं सप्तविंशतिर्योजनानि, अर्द्धयोजनप्रमाणत्वेन तेषामेकस्मिन् योजने चतुर्णामवकाशाच्चतुर्भिरष्टोत्तरशते भक्ते एतावतामेव लाभात्, ननु योजनार्द्धमानवतां तावतां चतुःपञ्चाशद् योजनानि सम्भवेयुरिति, सत्यं, क्षेत्रबहुत्वादेकपंक्त्याव्यवस्थितत्वेन प्रत्येकं योजनचतुर्थांशावगाहकत्वेन च उक्तसङ्ख्यैव समुचिता, अत्र पद्मरुद्धक्षेत्रस्यैव भणनादिति, तथा द्वितीयः परिक्षेप एकादशाधिकचतुस्त्रिंशत्सहस्राणां, तदवगाहक्षेत्रं वे सहने पञ्चविंशत्यधिकं शतं च योजनानां एकादशच भागा योजनस्यषोडशभागीकृतस्य, उपपत्तिस्तुयोजनपादप्रमाणत्वादिमानिषोडश मान्तीति ३४०११ इत्ययं परिक्षेपपद्मराशिषोडशभिर्भज्यते, आगच्छत्यनन्तरोक्तोराशिः, अस्यां च परिक्षेपजाती पंक्त्यः सूत्रोकतस्वस्वदिशि निवेशनीयपद्मनिवेशनेन विषमवृत्ताः सम्भाव्यन्ते, पद्यानां विषमसङ्ख्यकत्वादिति, अथ तृतीयः परिक्षेपः षोडशसहस्रपद्यानां तदवगाहक्षेत्र द्वेशते पञ्चाशदधिके योजनानां, उपपत्तिस्तु अमूनि योजनाष्टममागप्रमाणत्वाघोजने चतुःषष्टिर्भान्तीतिचतुःषष्ट्य १६००० प्रमाणः पद्मराशिभज्यते, उपतिष्ठते चायं राशि । ___अत्र च पंक्त्यः समवृत्ताएव निवेशनीयाः, यथेच्छंचतुर्दिापमानां निवेशनादिति, अथ चतुर्थ परिक्षेपो-द्वात्रिंशल्लक्षपद्मानांतदवगाहक्षेत्रं द्वादश सहस्राणिपञ्चशताधिकानियोजनानां, आनयनोपायस्तु एषां योजनषोडशभागप्रमाणत्वाद्योजनेमान्तीति षटपञ्चाश-दधिकशतद्वयेन ३२००००० इत्ययं पद्मराशिभज्यते, ततो यथोक्तो राशिरायातीति, अथ पञ्चमः परिक्षेपः चत्वारिंशल्लक्षपद्मानां, तदवगाहक्षेत्रं त्रीणि सहस्राणि नव शतानि च षडधिकानि योजनानां चत्वारश्च षोडशभागा योजनस्य, उपपत्तिस्तुएषां योजनद्वात्रिंशत्तमांश-प्रमाणत्वादमूनि योजने मान्तीतिचतुर्विंशत्यधिकसहस्रेण रूपकस्य पद्मराशे-भगिहरणेन प्राप्यते यथोक्तराशिरिति, अथ षष्ठः परिक्षेपः–अष्टचत्वारिंशल्लक्षं पद्मानां, तदवगाहक्षेत्रं एकादश शतानि एकसप्तत्यधिकानि योजनानां चतुर्दश च च षोडशभागाः योजनस्य, उपपत्तिश्चात्र-अमीषां योजनचतुषष्टितमांशप्रमाणत्वाद्योजने मान्तीति षन्नवत्य-धिकचतुःसहनै रित्यस्य पद्मराशेर्भागहरणात् यथोक्तो राशिरुपपद्यत इति पूर्वापरपद्म- क्षेत्रयोजनमीलनेन च पूर्वोक्तं सर्वाग्रं सम्पद्यते, परिक्षेपाश्चात्र वृत्ताकारेण बोद्धयाः क्षेत्रस्य बहुत्वात् सम्भवन्तीति, पंक्त्यश्चात्र द्रहक्षेत्रस्याय तचतुरस्रत्वेन आयामविस्तारयोर्विषमत्वेऽपि पञ्चशतयोजनमर्यादयैव कर्तव्या, ततः परं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy