________________
वक्षस्कारः-४
२८५
महत्तरिकाणां चत्वारि पद्मानिप्रज्ञप्तानि, अत्र प्राग्व्यावर्णितविजयदेव सिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणि वक्तव्यानि, सुगमत्वाच्च न विव्रियन्ते, यावत्पश्चिमायां सप्तानीकाधिपतीनां सप्तपद्मानि।अथ तृतीयपद्मपरिक्षेपसमयः-तस्य मुख्यपद्मस्य चतसृणां दिशांसमाहारश्चतुर्दिक तस्मिन् चतुर्दिशि सर्वतः समन्तात्, अत्रान्तरे श्रिया देव्याः षोडशानामात्मरक्षकदेवसहस्राणां षोडश पद्मसहस्राणि, तथाहि-चत्वारि पूर्वस्यां चत्वारि दक्षिणस्यां एवं पश्चिमोत्तरयोः । अथोक्तव्यति-रिक्ताः अन्येऽपित्रयः परिवेषाः सन्तीत्याह_ 'से णं पउमे'इत्यादि, तत्पद्यं त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः सर्वतः समन्तात् सम्परिक्षिप्तं, तद्यथा-अभ्यन्तरकेण-अभ्यन्तरभवेनमध्यमकेन-मध्यभवेन बाहिरकेण–बहिभवेन, एतदेवव्यनक्ति-अभ्यन्तरपद्मपरिक्षेपे द्वात्रिशत्पद्मानांशतसहस्राणि-लक्षाणि मध्यमके चत्वारिंशत्पद्मलक्षाणि बाह्येऽष्टत्वारिंशत्पद्यलक्षाणि प्रज्ञप्तानि, इदं च पद्मपरिक्षेपत्रिकं आभियोगिकदेवसम्बन्धि बोध्यं, अतएव भिन्नत्रिकख्यापनपरंसूत्रं निर्दिष्टं, अन्यथा सूत्रकृत् चतुर्थपश्चमषष्ठपरिक्षेपाः इत्येवाकथयिष्यत्, ननुतर्हि आभियोगिकजातीयानामेकएवात्मरक्षकाणामिव वाच्यः,उच्ये, उच्चमध्यनीचकार्यनियोज्यत्वेनाभियोगिकानां भिन्नत्वेन परिक्षेपस्यापिभिन्नत्वात्, अत परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह
एवमेव उक्तन्यायेन सपूर्वापरेण-सपूर्वापरसमुदायेन त्रिभिः, पद्मपरिक्षेपैरेका पद्मकोटी विंशतिश्च पद्मलक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृभिः, सङ्ख्यानयनं च स्वयमभ्यूह्यं, षण्णं पद्मपरिक्षेपाणां मुख्यपझेन सहमीलनेसैव सङ्ख्या पञ्चाशत्सहस्रैकशतविंशत्यधिका ज्ञातव्या, ननु कमलानि कमलिन्याः पुष्परूपाणि भवन्ति, मूलं कन्दश्च कमलिन्या एव भवतः, नतु कमलस्य, तत्कथमत्र मूलकन्दावुक्तो? उच्यते, कमलान्यत्र न वनस्पतिपरिणामानि, किन्तु पृथिवीकायपरिणामरूपाः कमलाकारवृक्षास्तेन तेषामिमौ न विरुद्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपद्मादर्द्धमानसूत्रकृतासाक्षादुक्तं, उत्तरोत्तरपरिक्षेपपद्मानांतु पूर्वर परिक्षेपपद्मेभ्योऽर्द्धार्द्धमानता युक्तितः सङ्गच्छते विजयप्रासादपंक्तेरिव, अन्यथाऽल्प-द्धिकमहर्द्धिकदेवानामाश्रयतारतमयं चतुर्थादिमहापरिक्षेपपद्मानामवकाशः शोभमानस्थितिकत्वं च न सम्भवेत्, अर्द्धार्द्धमानता चैवम्-मूलपद्मं योजनप्रमाणं आधे परिक्षेपे पद्मानि द्विक्रोशमानानि द्वितीये क्रोशमानानि तृतीयेऽर्द्धक्रोशमानानि चतुर्थे पञ्चधनुःशतमानानि पञ्चमे सार्द्धद्विशतधनु- मानानि षष्ठे सपादशतधनुर्मानानि, तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्रयभागोऽ- प्य‘र्द्धक्रमेण ज्ञेयः, यथा मूलपगंजलात् क्रोशद्वयमुच्छ्रये आये परिक्षेपे क्रोश उच्छ्रयः द्वितीये क्रोशार्द्ध तृतीये क्रोशचतुर्थांशः चतुर्थे क्रोशाष्टांशः पञ्चमे क्रोशषोडशांशः षष्ठे क्रोशद्वात्रिंशांश इति, एवमेव मूलपद्मापेक्षया परिक्षेपपद्यानां बाहल्यमप्यर्द्धिक्रमेण वाच्यं ।
ननुषट् परिक्षेपा इति विचार्य, योजनात्मना सहनत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्लक्षप्रमाणस्य द्रहपरमपरिधेः षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुःक्षेत्रमातव्यानां एकया पंक्त्या कथमवकाशः सम्भवति? एवं प्रथमपरिक्षेपवर्जशेषपरिक्षेपाणामपितत्परिधिमानपद्यमाने परिभाव्य वाच्यं, उच्यते, षट्परिक्षेपाइत्यत्रषड्जातीयाः परिक्षेपाइतिग्राह्यं, आद्या मूलपद्मार्द्धमाना जातिः द्वितीया त्पादमाना तृतीया तदष्टमभागमानाचतुर्थीतत्षोडशभागमाना पञ्चमीतद्वात्रिंशत्तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org