________________
२८४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२८ कर्णिकामानाद्याह-“सा ण"मित्यादि, सा-कर्णिका अर्द्धयोजनमायामेन विष्कम्भेन च क्रोशं बाहल्येन-पिण्डेन सर्वात्मना कनकमयी, अत एव कनकमयीतिपूर्वविशेषणेनावयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता, 'अच्छा' इत्येकदेशेन सण्हा इत्यादिपदान्यपि ज्ञेयानि, तेषां व्याख्या च प्राग्वत्।
'तीसे णमित्यादि, एतानि सर्वाण्यपि निगदसिद्धानि, शयनीयवर्णकश्चायं जीवाभिगभोक्तः-तस्सणं देवसयणिज्जस्स अयमेआख्वेदण्णावासे पं०, तंजहा-नानामणिमयापडिपाया सोवण्णिआ पाया नानामणियाइं पायसीसगाईजम्बूणयामयाइं गत्ताइं वइरामया संधी णाणामणिमएचिच्चे रययामई तूली लोहिअक्खा मया विब्बोअणा तवणिज्जमईओ गंडोवहाणियाओ' इति सेणंसयणिजे सालिंगणवट्टइएउभओविबोअणे उभओउण्णए मज्झेणयगम्भीरे गंगापुणिणवालुआउद्दालसालिसएओअविअखोमदुगुल्लपट्टपडिच्छायणेआइणगअबूरणवणीअतूलतुलफासे लसुविरइअरयत्ताणे रत्तंसुअसंवुडे सुरम्मे पासादीए ४'इति, अत्र व्याख्या-तस्य देवशयनीयस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः, मूलपादानांप्रतिविशिष्टोपटम्भकरणाय पादाः प्रतिपादाः, सौवर्णिकाः-सुवर्णयाः पादाः-मूलपादाः, जम्बूनदमयानि गात्राणि-ईषादीनि, वज्रमया-वज्ररत्नपूरिताः सन्धयः।
'नानामणिमए चिच्चे'इति चिञ्चं नाम व्यतं विशिष्टं वानमित्यर्थः, रजतमयी तली लोहिताक्षमयानि विव्वोअणा इति-उपधानकानिउच्छीर्षकाणीतियावत्, तपनीयमय्यो गण्डोपधानिकाः गल्लमसूरकाणीत्यर्थः तच्छयनीयं सह आलिङ्गन वा-शरीरप्रमाणेनोपधानेन यतत्तथा उभयतः - उभौ शिरोऽन्तपादान्तावाश्रित्य विव्वोअणेउपधाने यत्र तत्तथा, उभयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्वात् तत्तधा, गङ्गापुलिनवालु कायाः अवदालो-विदलनं पादादिन्यासे अधोगमनमिति तेन सालिसे इति-सध्शकं यत्ततथा, तथा 'ओअविअत्ति विशिष्टं परिकर्मितं क्षौम-कासिकंदुकूलं-वस्त्र तदेव पट्टःसप्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगे'त्यादि, प्राग्वत्, सुविरचितंरजनाणं-आच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा, रक्तांशुकेन-मशकदंशादिनिवारणार्थकमशकगृहाभिधानवस्तरविशेषेण संवृतं, अतएव सुरम्यं, 'पासा-दीए' इत्यादि पदचतुष्कं प्राग्वत् । अथास्य प्रथमपरिक्षेपमाह--
'सेण'मित्यादि, तत्पद्ममन्येनाष्टशतेनपद्मानां तदर्बोच्चत्वप्रमाणमात्राणां तस्य-मूलपद्मप्रमाणस्याई-अर्द्धरूपा उच्चत्वे-उच्छ्रये प्रमाणेच-आयामविस्तारबाहल्यरूपे मात्रा-प्रमाणं येषां तानि तथा तेषां, सर्वतः समन्तात् संपरिक्षिप्तं, अत्र जलोपरितनभागे उच्चतवस्य व्यवहारप्राप्तस्य विवक्षणादर्द्धप्रमाणं सम्भवत्यन्यथा जलावगाहसहितोच्चत्वविवक्षायामुत्तरसूत्रे सातिरेकपञ्चयोजनानि इति वक्तव्यं स्यात् सामान्यतः, उक्तमेव मानं व्यनक्ति-'ते ण मित्यादि, प्रागुक्तप्रायं, एषां वर्णकमाह-'तेसिण'मित्यादि, व्यक्तं, 'साण'मित्यादि, इदमपि व्यक्तं, 'तीसेण'मित्यादि, व्यक्तं, एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः।
अथ द्वितीयपद्मपरिक्षेपमाह- 'तस्स णं तसय-मूलपद्मस्यापरोत्तरस्यां-वायव्यकोणे उत्तरस्यां उत्तरपूर्वस्यां-ईशानकोणेच सर्वसङ्कलनया तिसृषु दिक्षु अत्रान्तरे श्रिया देव्याश्चतुर्णा सामानिकसहस्राणांचत्वारिप्रद्यसहस्राणि प्रज्ञप्तानि, तस्यपद्मस्य पूर्वस्यां दिशिअत्र श्रियाश्चतसृणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org