________________
वक्षस्कारः - १
२५
इति, तथा ‘अभिरूवअभि सर्व द्रष्टा मनः प्रासादीनुतया अभिमुखं रूपं यस्याः सा, अत्यन्तकमनीया इति भावः ।
अत एव प्रतिविशिष्टम् - असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितृणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तानयनोपायः प्रदर्श्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे लभ्यते, अपान्तराले उपरिष्टादधोगमनेऽमुपायः - जगतीशिखरादधो यावदुत्तीर्णं तस्मिन्नेकेन भक्ते सति यल्लब्धं तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, तथाहि उपरितनागाद्योजनमेकं गव्यताधिकमवतीर्णं ततोऽस्य राशेः एकेन भागे हृते लब्धमेकं योजनं गव्यूताधिकं तच्च योजनचतुष्कयुतं क्रियते, जातानि पञ्च योजनानि गव्यताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं सर्वत्र भाव्यं, सम्प्रति मूलादूर्द्धगमने विस्तारानयनोपायः - मूलादूर्ध्वगमने यावदूर्ध्वं गतं तस्यैकेन भागे हृते यल्लब्धं तस्मिन्मूलविस्ताराच्छोधिते यच्छेषं स तत्र योजनादावतिक्रान्ते विस्तारः, तद्यथा - मूलादुत्पत्य योजनमेकं गव्यतद्वबाधिकं गतस्ततो योजनस्य गव्यतद्वयाधिकस्यैकेन भागे हृते यल्लब्धं योजनं गव्यूतद्वयाधिकं एतन्मूलसम्बन्धिनो द्वादशयोजनप्रमाणविस्तारादपनीयते, स्थितानि दश योजनानि गव्यूतद्वयाधिकानि, एतावप्रमाणः सार्द्धयोजनातिक्रमे विस्तारः, एवं सर्वत्रापि भाव्यं ।
एवं ऋषभकूटजम्बू शाल्मलीवृक्षवनगतकूटानामिष्टस्थाने विस्तारानयनार्थमिदमेवकरणं भाव्यं, अथास्यां गवाक्षकटकवर्णनायाह- 'सा' अनन्तरोदितस्वरूपा 'जगती ण' मिति प्राग्वत् जगती एकेन महावाक्षकटकेन - बृहञ्जालकसमूहेन सर्वतः सर्वासु दिक्षु समन्तात्, सामस्त्येन संपरिक्षिप्ता व्याप्तेत्यर्थः, स गवाक्षकटक ऊर्ध्वोच्चत्वेनार्द्धयोजनं द्वे गव्यूते विष्कम्भेन पञ्च धनुःशतानि, सर्वात्मना रत्नमयः, तथा अच्छ:, अत्र यावत्करणात् प्राग्व्यावर्णितं विशेषणपदं ग्राह्यं, इयञ्च गवाक्षश्रेणिर्लवणोदपार्श्वे जगतीभितिबहुमध्यभागगताऽवगन्तव्या, रिरंसुदेवविद्याधरवृन्दरमणस्थानं । अथ जगत्युपरिभागवर्णनायाह
“तस्या' यथोक्तस्वरूपाया जगत्या 'उपरि' उपरितने तले यो बहुमध्यदेशलक्षणो भागः, भागश्च प्रदेशलक्षणोऽपि स्यात् तत्र च पद्मवरवेदिकाया अवस्थानासम्भवः अतो देशग्रहणेन महान् भाग इत्यर्थः, स च चतुर्योजनात्मकजगत्युपरितनतलस्य मध्ये पञ्चधनुःशतात्मक इति, सूत्रे एकारान्तता मागधभाषालक्षणानुरोधात्, 'अत्र' एतस्मिन् बहुममध्यदेशभागे णमिति प्राग्वत महती एका पद्मवरवेदिका - देवभोगभूमि प्रज्ञप्ता मया शेषैश्च तीर्थकरैः, सा च ऊर्ध्वोच्चत्वेनार्द्धयोजनं पञ्च धनुः शतानि विष्कम्भेन जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका परिक्षेपेण-परिरयेण, कोऽर्थः ? – जम्बूद्वीपस्य सर्वतो वलयाकारएण व्यवस्थिताया जगत्या यावदुपरितनं तलं चतुर्योजनविस्तारात्मकं तस्माल्लवणदिशि देशोनयोजनद्वये त्यक्ते अर्वाक वावान् जगतीपरिरवस्तावानस्या अपीति, सर्वरत्नमयी- सामस्त्येन रत्नखचिता, 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् । अथास्या अतिदेशगर्भवर्णकसूत्रमाह
तस्याः पद्मवरवेदिकाया ‘अय' मिति वक्ष्यमाणतया प्रत्यक्षः स चोच्यमानी न्यूनाधिकोऽपि स्यादिति एतद्रूपः - एतदेव रूपं स्वरूपं यस्य स तथा 'वर्णावासो' वर्ण-श्लाधा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो - निवासो ग्रन्थपद्धतिरूपो वर्णकनिवेश इत्यर्थः, अथवा वर्णव्यासो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org