SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/३ विशेषप्रतिपत्ति'रिति न्यायात्यवादिकमप्यानीयते, तथाहि-ते ह्यङ्गुलांशा 'अष्टभिर्यवैरॉल मिति अष्टभिर्गुण्यन्ते, जाताः ३२५८७६८ छेदः स एव लब्धाः यवाः ५। -ततोऽप्यष्टगुणने यूकादयः स्यु, तत्र यूका १, एतत्सर्वमप्यर्धाङ्गुलस्य किञ्चिद्विशेषाधिकत्वकथेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्यं, गणितपदं तत्करणंच सोदाहरणमग्रे भावयिष्यत इति । अथाकारभावप्रत्यवतारविषयकं प्रश्न निर्वस्तुमाह-- मू. (१) से णं एगाए वइरामईए जगईए सव्वओ समंता संपरिक्खित्ते, साणं जगई अट्ठ जोयणाई उद्धं उच्चत्तेणं मूले बारस जोअणाई विखंभेणं मझे अट्ट जोयणाई विक्खंभेणं उवरि चत्तारिजोअणाई विक्खंभेणं मूले विच्छिन्ना मज्झे संक्खित्ता उवरितणुया गोपुच्छसंठाणसंठिया सबवइरामई अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मा निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरिसणिजा अभिरुवा पडिरूवा।। साणंजगई एगेणं महंतगवक्खकडएणंसब्बओसमंता संपरिक्खित्ता, सेणंकवक्खकडए अद्धजोअणं उद्धं उच्चत्तेणं पंच धनुसयाई विक्खंभेणं सव्वरयणामए अच्छे जाव पडिलवे, तीसे णं जगईए उप्पिं बहुमज्झदेसभाए एत्थ णं महई एगा पउमवरवेइया पन्नता, अद्धजोयणं उड्ढे उच्चत्तेणं पंच धनुसयाइं विस्खंभेणंजगईसमिया परिक्लेवेणं सव्वरयणामईअच्छा जावपडिरूवा तीसे णं परमवरवेइयाए अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा-वइरामया नेमा एवं जहा जीवाभिगमे जाव अट्टो जाव धुवा नियया सासया जाव निच्चा । वृ. सेण मिति, सोऽनन्तरोदितायामविष्कम्भपरिक्षेपपरिमाणोजम्बूद्वीपः, णमिति पूर्ववत्, 'एकया' एकसंख्यया अद्वितीयया (वा) वज्रमय्या' वज्ररत्नात्मिकया 'जगत्या' जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकल्पयासर्वतो दिक्षुसमन्ताद्विदिक्षुसम्परिक्षिप्तःसम्यग्वेष्टितः, प्राकृतत्वाद्दीर्घत्वं वज्रशब्दस्य, सा जगती अष्ट योजनान्योच्चत्वेन, वस्तुनो ह्यनेकधोच्चत्वं ऊर्ध्वस्थितस्यैकं अपरं तिर्यकस्थितस्य अन्यद् गुणोन्नतिरूपं, तोतरापोहेनार्ध्वस्थितस्य यदुच्चत्वं तदूर्वोच्चत्वमित्यागमे रूढमिति, अत्रानुस्वारः प्राकृतत्वात्, मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरिचत्वारि, अत एवमूले विष्कम्भमधिकृत्य विस्तीर्णा मध्ये सङ्क्षिप्ता त्रिभागोनत्वात् उपरितनुकामूलापेक्षयात्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति-गोपुच्छस्येव संस्थानं तेन संस्थिता, ऊर्वीकृतगोपुच्छाकारेति भावः । सर्वात्मनासामस्त्येन वज्रमयी-वज्ररलामिका, दीर्घत्वं च प्राकृतशैलीप्रभवं, 'अच्छा' आकाशस्फटिकवदति-स्वच्छा ‘सण्हा' लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णपुद्गलस्क्धनिष्पना श्लक्ष्णदलनिष्प-त्रपटवत्, ‘लण्हा' मसृणा घुटितपटवत्, घट्टा घृष्टा इवघृष्टा खरशाणया पाषाप्रतिभावत्, तथा मृष्टा इव मृष्टा सुकुमारशाणया पाषाणप्रतिभावत्, तथा नीरजाः' सहजरजोरहिता, तथा 'निर्मला' आगन्तुकमलरहिता, तथा 'निष्पका कलङ्कविकला कईमरहिता वा, तथा निष्ककटा-निष्कवचा निरावरणा छाया-दीप्तिर्यस्याः सा तथा, सप्रभा-स्वरूपतः प्रभावती अथवा स्वेन-आत्मना प्रभाति-शोभते प्रकाशते वेति स्वप्रभा, तथा समरीचिका-सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः, तथा प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात प्रासादीया मनःप्रह्लाद- कारिणीति भावः, तथा “दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy