SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ रथस्य - अवयवे समुदायोपचारात् रथाङ्गस्य चक्रस्य चक्रवालं - मण्डलं तस्येव संस्थानेन संस्थितः, अथवा चक्रवालं-मण्डलं मण्डल- त्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं शेषं प्राग्वत, एवं वृत्तः 'पुष्करकर्णिकासंस्थानसंस्थितः ' पुष्करकर्णिकाः पद्मबीजकोशः मकलमध्यभाग इतियावत्, वृत्तः परिपणर्मचन्द्रसंस्थानसंस्थितः प्राग्वत् पदद्वयं भावनीयं, एकेनैव चरितार्थकत्वेऽपि नानादेशजविनेयानां क्षयोपशमवैचित्र्यात् कस्य चित् किञ्चिद्बोधकमित्युमापदनात्वं, अत एव प्रत्युपमापदं योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्काऽपि एतेन संस्थानमुक्तं ३ । अथ सामान्यतः प्रागुक्तं प्रमाणं विशेषतो निर्वक्तुमाह-एकं योजनशतसहस्रं, प्रमाणाङ्गुलनिष्पन्नंयोजनलक्षमित्यर्थः 'आयामविष्कम्भेन' अत्र च समाहारद्वन्द्वस्तेन क्लीबे एकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः, अत्राह परः - जम्बूद्वीपस्य योजनलक्षं प्रमाणयुक्तं तच्च पूर्वपश्चिमयोर्जगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विंशत्यधिकं भवति, तथा (च) यथोक्तं मानं विरुध्यत इति, न, जम्बूद्वीपजगतीविष्कम्मेन सहैव लक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन लवणसमुद्रलक्षद्वयं, एवमन्येष्वपि द्वीपसमुद्रेषु, अन्यथा समुद्रमानाज्जगतीमानस्य पृथगभणने मनुष्यक्षेत्र परिधिरतिरिक्तः स्यात्, स हि पञ्चचत्वारिंशलक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, अयमेवाशयः श्री अभयदेवसूरिभिः चतुर्थाङ्गवृत्तौ पञ्चपञ्चाशत्तमे समवाये प्रादुष्कृतोऽस्तीति, तथा त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशे- सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविंशं - अष्टाविंशत्यधिकं धनुः शतं त्रयोदशाङ्गुनि अर्द्धाङ्गुलञ्च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण- परिधिना प्रज्ञप्तः । अत्र सप्तविंशमष्टाविंशमित्यादिकाः शब्दाः 'अधिकं ततसंख्यमस्मिन् शतसहस्र शतिशद्दशान्ताया ड' इति सूत्रेण डप्रत्यये सप्तविंशत्यधिकमष्टाविंशत्यधिकमित्यर्थः । परिध्यानयनोपायस्त्वयं चूर्णिकारोक्तः 119 11 वक्षस्कारः - १ "विक्खंभवग्गदहगणकरणी वट्टस्स परिरओ होइ । विक्खंभपायगुमिओ परिरओ तस्स गणियपयं ।।" 119 11 अत्र व्याख्या - जम्बूद्वीपस्य विष्कम्भो - व्यासः, १०००००, तद्वर्गः क्रियते जातं १००००००००००, स च दशगुणः क्रियते, शून्यानि ११, तदनु वर्गमूलमानीयते । 'विषमात्पदतस्त्यकत्वा वर्गं स्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पङ्क्त्याम् ।। तद्वर्गं संशोध्य द्विगुणीकुर्वीत पूर्वबल्लब्धम् । उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतं दलयेत् ॥ -इत्यनेन करणेनानीते वर्गमूले जातोऽधस्तनच्छेदराशि ६३२४४७, अत्र सप्तकरूपोऽन्त्योऽङ्को न द्विगुणीकत इति तद्वर्जं शेषं सर्वमप्यद्धक्रियते, लब्धं योजनानि ३१६२२७, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः ६३२४५४, उपरि शेषांशा: ४८४४७१, एते च योजनस्थानीया इति क्रोशानयनार्थं चतुर्भिर्गुणिताः जाताः १९३७८८४, छेदराशिना भागे लब्धं क्रोशाः ३, शेषं ४०५२२, धनुरानयनाय द्विसहस्रगुणं, जातं ८१०४४०००, छेदराशिना भागे लब्धानि धनूंषि १२८, शेषं ८९८८८, षन्नवत्यङ्गुलमानत्वाद्धनुषोऽङ्गुलानयनार्थं षण्णतिगुणं, जातं ८६२९२४८, छेदेन भागे लब्धं अङ्गुलानि १३, शेषं ४०७३४६, अत्र 'व्याख्यातो Jain Education International For Private & Personal Use Only www.jainelibrary.org ॥२॥
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy