________________
२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/२ . एअमटुंखामेइत्ति, अथवा भगवानपगतसंशयोऽपिस्वकीयबोधसंवादार्थम- ज्ञलोकबोधनार्थं शिष्याणांवा स्ववचसिप्रत्ययोत्पादनार्थपृच्छति,अथवाइस्थमेव सूत्ररचनाकल्प इतिन कश्चिद्विरोधः
मू. (३) कहिणं भंते ! जंबुद्दीवे ! केमहालए णं भंते ! जंबुद्दीवे ? २ किंसंठिए णं भंते ! जंबुद्दीवे ३ किमायारभावपडोयारे णं भंते ! जंबुद्दीवे ४ पन्नते?,
गोयमा! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सब्वमंतराए १ सव्वखुड्डाए २ वट्टे तेल्लापूयसंठाणसंठिए बट्टे रहचकवालसंठाणसंठिए बट्टे पुक्खरकण्णियासंठाणसंठिए बट्टे पडिपुन्नचंदसंठाणसंठिए४ एगंजोयणसयसहस्सं आयामविक्खंभेणं तिन्निजोयणसयसहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं पन्नते॥
वृ.किमुक्तवानित्याह-'कहिं णं' इति क-कस्मिन् देशे, 'भंते'त्ति गुरोरामन्त्रणं, अत्र एकारोमागधभाषाप्रभवः ततश्च हे भदन्त! हे सुखकल्याणस्वरूप! भदुङ सुखकल्याणयो रिति वचनात् प्राकृतशैल्या वा भवस्य-संसारस्य भयस्य वा-भीतेरन्तहेतुत्वात्, भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त! भयान्त! वा प्राग्वर्णितान्वर्थको जम्बूद्वीपो नाम द्वीपो वर्तत इति शेषः, अनेन जम्बूद्वीपस्य स्थानं पृष्टं १ । तथा भदन्त ! किंप्रमाणो महानालयः-आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा, कियप्रमाण-मस्यमहत्वमित्यर्थः, एतेन प्रमाणं पृष्टं२।।
अथ भदन्त ! किं संस्थानं यस्य स तथा, एतेन संस्थानं पृष्टं ३ । तथा भदन्त ! आकारभावःस्वरूपविशेषः कस्याकारभावस्य प्रत्यवतारोयस्य स किमा-कारभावप्रत्यवतारः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, यद्वा आकारश्च-स्वरूपं भावाश्च- जगतीवर्षवर्षधराद्यास्तदगतपदार्था आकारभावास्तेषां प्रत्यवतारः-अवतरणं आविर्भाव इतियावत्आकारभावप्रत्यवतारःकः-कीग् आकारभावप्रत्यवतारो यस्मिन् स तथा, अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः ४ ।
-इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचःश्रवणसोत्साहताकरणार्थं जगतप्रसिद्धगोत्राभिधानेन तमामन्त्रय निर्वचनचतुष्टयीं भगवानाह-गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हेगौतम! 'अयं यत्रवयंवसामः,अनेन समयक्षेत्रबहिर्वर्तिनामसङ्खयेयानांजम्बूद्वीपानांव्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः । कथम्भूत इत्याह- सर्वद्वीपानां' धातकीखण्डादीनां ‘सर्वसमुद्राणां' लवणोदादीनां सर्वात्मना-सामस्त्येन अभ्यन्तरः सकलतिर्यग्लोकमध्यवर्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कप्रत्ययः, अभ्यन्तरमानं धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादा-नमिति, अनेन जम्बूद्वीपस्यावस्थानमुक्तं १।
तथा सर्वेभ्योऽपि-शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः, तथाहि-सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च द्वीपा जम्बूद्वीपादारभ्य द्विगुणरविष्कम्भायामपरिधयः, ततः शेषद्वीपसमुद्रापेक्षयाऽयं दीर्घत्वंप्राकृतत्वात्, अनेन सामान्यतः प्रमाणमभिहितं, विशेषतस्त्वायामादिगतंप्रमाणमग्रे वक्ष्यति, अत्र विशेषप्रमाणमवसरप्राप्तमपि यन्त्रोक्तं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति, तथा वृत्तः, सच शुषिरवृत्तोऽपिस्याद् अत आह-'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः, अत्र तैलादित्वा- ल्लकारस्य द्वित्वं, तथा वृत्तो रथचक्रवालसंस्थानसंस्थितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org