________________
वक्षस्कारः-३
२६३
स्वमतिकल्पितमिति वाच्यं, तावतीभिर्जनपदाग्रणीकन्याभिरवृतः' इति श्रीऋषभचरित्साम्मत्यदर्शनात्, तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रैः-अभिनेतव्यप्रकारैर्बद्धाः-संयुक्ता नाटकसहस्राः पुरतोयथानुपूर्ताप्रथमंप्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेणसम्पस्थिताः, एतेषांचोक्तसङ्ख्याकता द्वात्रिंशता राजवरसहनैःस्वस्वकन्यापाणिग्रहणकारणे प्रत्येकं करमोचनसमयसमप्तिकैकनाटकसद्भावात्।
तयनंतरंचणंतिन्निसट्टा सूयसया' इत्यादिततःत्रीणिसूपानांपूर्ववदुपचारात्सूपकाराणां शतानि षष्टानि-षष्टयधिकानिवर्षदिवसेषुप्रत्येकमेकैकस्य रसवतीवारकदानात्, ततः कुम्भकाराद्या अष्टादश श्रेणयः तदवान्तरभेदाःप्रश्रेणयः ततः चतुरशीतिरश्वशतसहस्रततश्चतुरशीतिर्हस्तिशतसहस्राः ततः पन्नवतिर्मनुष्याणां पदातीनां कोटयः पुरतः प्रस्थिताः, 'तयनंतरं च णमित्यादि, ततो बहवो राजेश्वरतलवराः यावत्पदात् माडंबिअकोडुंबिय इत्यादिपरिग्रहः सार्थवाहप्रभृतयः परतः सम्प्रस्थिताः अर्थ प्राग्वत् । 'तयनंतरं च णमित्यादि, ततो बहवोऽसि-खग स एव यष्टि-दण्डोऽसियष्टिसतद्राहाः-तदग्राहिणः अथवा असिश्च यष्टिश्चेति द्वन्द्वे तदग्राहिण इति, एवमग्रेऽपि यथासम्भवमक्षरयोजना कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि पाशा-छूतोपकरणानि उत्रस्ताश्वादिबन्धनानि वा फलकानि-सम्पुटकफलकानिखेटकानि वा अवष्टम्भानि वा द्यूतोपकरणानि वा पुस्तकानि-शुभाशुभपरिज्ञानहेतुशास्त्रपत्रसमुदायरूपाणि वीणाग्राहाव्यक्तं, कुतपः-तैलादिभाजनं, हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा, पीढग्गाहादीविअग्गाहा इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहगाथायामद्दष्टत्वेन न लिखितं, तदव्याख्यानं त्वेवं-पीठं-आसनविशेषःदीपिकाचप्रतीतेति,स्वकैः२-स्वकीयैः २ रूपैः-आकारैः एवं स्वकीयैः २ इत्यर्थ वेषैः-वस्त्रालङ्काररूपैः चिह्न:-अभिज्ञानैः नियोगः-व्यापारैः स्वकीयैर्नेपथ्यैः-आभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तन्नियमार्थं संग्रहगाथा सूत्रबद्धा क्वचिदादर्श इंश्यते, यथा । ॥१॥ “असिलठिकुंतचावे चामरपासे अफलगपोत्थे।
वीणाकूवग्गाहे तत्तो यहडप्फगाहे अ॥" 'तय णमित्यादि, ततो बहवो दण्डिनोदण्डधारिणः मुण्डिनः-अपनीतशिरोजाः शिखण्डिनः-शिखाधारिणः जटिनो-जटाधारिणः पिच्छिनो-मयूरादिपिच्छवाहिनः हास्यकारका इति व्यक्तं खेडं-द्यूतविशेषस्तत्कारकाः द्रवकारकाः-केलिकराः चाटुकारकाः-प्रियवादिनःकान्दर्पिकाः-कामप्रधानकेलिकारिणः कुक्कुइआ इति-कौत्कुच्यकारिणो भाण्डाः, मोहरिआ इति-मुखरा वाचाला असम्बद्धप्रलापिन इति यावत्, गायन्तश्च गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्चश्ममाणाश्चअक्षादिभिः क्रीडयन्तश्च कामक्रीडया शासयन्तश्च-परेषां गानादीनि शिक्षयन्तः श्रावयन्तश्च-इदं चेदंचपरुतपरारिभविष्यतीत्येवंभूतवचांसि श्रवणविषयीकारयन्तः जल्पन्तश्च-शुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः स्वजल्पितान्यनुवादयन्त इत्यर्थ शोभमानाश्च-स्वयंशोभयन्तः परान् आलोकमानाश्च-राजराजस्यावलोकनं कुर्वन्तः जयजयशब्दं चप्रयुञ्जानाःपुरतोयथानुपूर्व्यापूर्वोक्तपाठक्रमेण सम्प्रस्थिताः । इहगमेकचिदादर्शेन्यूनाश्चिकान्यपि पदानि दृश्यन्ते इति, एवमुक्तक्रमेण औपपातिक-गमने-प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org