________________
२६४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२१
यावत्तस्य राज्ञः पुरतो महाश्वाः-बृहत्तुरङ्गाः अश्वधरा-अश्वधारकपुरुषाश्च उभयतो-भरतोपवाह्यगजस्तनस्य द्वयोः, पार्श्वयो गा-गजा नागश्चरा-गजधारकपुरुषाश्च, पृष्ठतो रथाः स्थसञ्जेल्ली-रथसमुदायः,देश्योऽयंशब्दः,चः समुच्चये, आनुपूक्सम्प्रस्थिताः,अत्र यावत्पदसंग्रहश्चायं-सवर्णकसेनाङ्गानि, तत्राश्वाः-'तयनंतरचणंतरमल्लिहाय-णाणहरिमेलामउलमल्लिअच्छाणं चंचुच्चिअललिअपुलिअचलचवलचंचलगईणं लंघणवग्गण-धावणधोरणतिवइजइणसिक्खियगईणं ललंतलामगललायवरभूसणाणं मुहमंडगओचूलगथासग-अहिलाणचामरगण्डपरिमण्डिअडीणं किंकरवरतरुणपरिग्गहिआ अट्ठसयंवरतुरगाणं पुरओ अहानुपुविए संपट्ठिअंति
तदनंतरं 'तरमल्लिहायणाणं ति तरो-वेगो बलं वा तथा 'मल्ल मल्लि धारणे' ततश्च तरोमल्लीतरोधारको वेगादिकृत् हायनः-संवत्सरोवर्तते येषांतेतथा यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामितियोगः, वरमल्लिभासणाणति क्वचित्पाठः तत्रप्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः, हरिमेला- वनस्पतिविशेषस्तस्या मुकुलं-कुडमलं मल्लिका चविचकिलस्तद्वदक्षिमी येषां तथा तेषां ते खुस्लाक्षाणामित्यर्थः, 'चंचुच्चियं तिप्राकृतत्वेन चंचुरितं-कुटिलगमनं अथवा चंचुः-शुकचंचुस्त द्वद्वक्रतयेत्यर्थ उचितं-उच्चिताकरणं पादस्योत्पाटनं चंचुच्चितं च तच्चलितं च-विलासवदगति पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलो-वायुराशुगत्वात् तद्वच्चपलचञ्चला अतीव चपला गतिर्येषांतेतथा तेषां,शिक्षितं अभ्यस्तं लंघनं-गत्तदिरतिक्रमण वल्गन-उत्कूईनं धावनं- शीघ्रगमनं धोरणं-गतिचातुर्य तथा त्रिपदी-भूमौ पदत्रयन्यासः पदत्रयस्योन्नमनं वाजयिनी-गत्यन्तरजयनशीला गतिश्च येषां ते तेषां, पदव्यत्ययः प्राकृतत्वात्, ललन्ति-दोलायमानानि लामत्ति-आर्षत्वाद्रम्याणिगललातानि कण्ठेन्यस्तानि वरभूषणानि येषांतेतथा तेषां, तथा मुख नाण्डकं-मुखाभरणंअवचूलाः-प्रलम्बगुच्छाः स्थासका-दर्पणाकारा अश्वालङ्काराः अहिलाणं मुखसंयमनं एतान्येषां सन्तीति मुखभाण्डकावचूलस्थासकाहिलाणाः मत्वर्थीयलोप-दर्शनादेव प्रयोगः, तथा चमरीगण्डैः-चामरदण्डैः परिमण्डिता कटिर्येषां ते तथा ततः कर्मधार- यस्तेषां, किङ्करभूता ये वरतरुणा-वरयुवपुरुषास्तैः परिगृहीतानां दवरकितानामित्यर्थः, अष्टोत्तरं शतं वरतुरगाणांपुरतो यथानुपूर्ता सम्प्रस्थितं ।
अथेभाः-'तयनंतरं च णं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउचछंगउन्नयविसालधवलदंताणं कंचणकोसीपविठ्ठदन्ताणं कंचणमणिरयणभूसिआणंवरपुरिसांरोहगसंपउत्ताणं गयाणंअट्ठसयंपुरओअहानुपुब्बीए संपस्थितिईषद्दान्तानां मनाग्ग्राहितशिक्षाणांगजानामिति योगः ईषन्मत्तानां यौवानारम्भवर्त्तित्वात् ईषत्तुङ्गानां-उच्चानां तस्मादेव उच्छङ्गइवोत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च यौवनारम्भवर्त्तित्वादेव तेच ते धवलदन्ताश्चेति समासोऽतस्तेषां, काञ्चनकोशी-सुवर्णखोलातस्यांप्रविष्टा दन्ताः अर्थाविषाणाख्या येषांते तथा तेषां काञ्चनमणिरत्नभूषितानामिति व्यक्तं, वस्पुरुषा-ये आरोहका निषादिनस्तैः सम्प्रयुक्तानां-सज्जितानां गजानां-गजकलभानामष्टोत्तरं शतं पुरतो यथानुपूक् सम्प्रस्थितं।
अथ रथाः-'तयनंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिखिणीजालपरिखित्ताणं हेमवयचित्ततिणिसकणगणिजुत्तदारुगाणंकालायससुकयणेमिजंतकम्माणं सुसिलिट्ठवत्तमण्डलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org