________________
२६२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२१ छत्रविशिष्टापताकाच यावत्पदात् 'सचामरा दंसणरइअ आलोअदरिसणिज्जा बाउ अविजयवेजयंती अब्भुस्सिआ गगनतलमणुलिहंती पुरओ अहाणुपुबीए' इति ग्राह्यं, अत्र व्याख्या
सचामरा-चामरयुक्ता दर्शन-प्रस्थातुष्टिपथेरचिता मङ्गल्यत्वात्अतएवालोके–बहिःप्रस्थानभाविनि शकुनानुकूल्यालोकने दर्शनीया-द्रष्टुं योग्या, ततो विशेषणसमासः, काऽसा. वित्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पावतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत् उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया एते च कलशादयः पदार्था पुरतो यथानुपूर्व्या संप्रस्थिता इति । तए णमित्यादि, ततो वैडूर्यमयो 'भिसंत'त्ति दीप्यमानो विमलो दण्डोयस्मिंस्तत्तथा, यावत्पदात्पलम्ब कोरण्टमल्लदामोवसोहिअंचन्दमंडलनिभंसमूसिविमलं आयवत्तं परं सिंहासणंचमणिरयणपायपीढं सपाउआजोगसमाउत्तंबहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं विमलं आयवत्तंपवरं सिंहासणंच मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहानुपुब्बीए संपट्ठिअंति, अत्र व्याख्याप्रलम्बेन कोरण्टा- भिधानवृक्षस्य माल्यदाम्ना-पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छितं-ऊर्वीकृतं विमलाभातपत्रं-छत्रं प्रवरं सिंहासनं च मणिरत्नमयं पादपीठं-पदासनं यस्मिंस्तत्तथा, स्वः-स्वकीयो राजसत्क इत्यर्थः पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किङ्कराः-प्रतिकर्मपृच्छाकारिणः कर्मकराः ततोऽन्यथाविधास्तेच ते पुरुषाश्चेति समासः पादातं-पदातिसमूहस्तैः परिक्षिप्तं-सर्वतो वेष्टितं तैधृतत्वादेवपुरतो यथानुपूर्व्या संप्रस्थितं। ___'तएण'मित्यादि, ततः सप्त एकेन्द्रियरलानि पृथिवीपरिणामरूपाणिपुरतः संप्रस्थितानि, तद्यथा-चक्ररत्नादीनि प्रागभिहितस्वरूपाणि, चक्ररलस्य च एकेन्द्रियरलाखण्डसूत्रपाठादेवात्र भणनं, तस्य मार्गदर्शकत्वेन सर्वतः पुर संचरणीयत्वाद्, अत्र च गत्यानन्तर्यस्य वक्तुमुपक्रान्तत्वादिति, 'तयनंतरचणंनव महानिहिओपुरओ' इत्यादि, ततोनवमहानिधयोऽग्रसः प्रस्थिताः पातालमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छयः सर्वं प्राग्वत्, उक्ता स्थावराणां पुरतो गति किङ्करजनधृतत्वेन दिव्यानुभावेन वा, अथजङ्गमानांगतेरवसर इति तयनंतरचणं सोलस देव' इत्यादि, ततःषोडश देवसहस्राःपुरतो यथानुपूर्व्या संप्रस्थिताः, 'तयनंतरं च णं बत्तीसमित्यादि, व्यक्तं- 'तए ण'मित्यादि, व्यक्तं, नवरं पुरोहितरत्न-शान्तिकर्मकृत्, रणे प्रहारार्दितानां मणिरलजलच्छटया वेदनोपशामकं, हस्त्यश्वरलगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन नात्र कथनं ।
'तए ण मित्यादि, ततो द्वात्रिंशत् ऋतुकल्याणिकाः-ऋतुषु षट्स्वपि कल्याणिकाःऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः न तु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीवद्वषकन्यारूपास्तासां सहस्र पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकन्यानामग्रेतनसूत्रेणाभिधानाच्चतासांसहस्राः पुरतो यथानुपूर्व्या-यथाज्येष्ठलघुपर्याय संप्रस्थिताः, तथा द्वात्रिंशत् ‘जनवय'त्ति जनपदाग्रणीनां देशमुख्यानां कल्याणिकानां सहन अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराजनपदग्रहणेन जनपदाग्रण्यो ज्ञेयाः, न चैवं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only