________________
२५०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१०१ नितंब तेणेव उवागच्छइ २ ता वेअद्धस्स पव्वयस्स उत्तरिले नितंबे दुवालसजोयणायामं जाव पोसहसालं अप्पुपविसइजाय नमिविनमीणं विजाहरराईणं अट्ठमभत्तं पगिण्हइ २ ता पोसहसालाए जाव नमिविनमिविजाहररायाणोमणसी करेमाणे २ चिट्ठइ, तएणंतस्सभरहस्सरण्णो अट्ठमभत्तंसि परिणममाणसि णमिविणभीविजाहररायाणो दिव्याए मईए चोइअमई अन्नमन्नस्स अंतिअं पाउब्भवंति २ ता एवं बयासी-उप्पन्ने खलु भो देवाणुप्पिआ! जंबुद्दीवे दीवे भरहे वासे भरहे रायाचाउरंतचक्कवट्टीतंजीअमेअंतीअपचुप्पन्नमणागयाणं विजाहरराईणंचक्कवट्टीणंउवत्थाणिअं करेत्तए, तं गच्छामो गंदेवाणुप्पिआ ! अम्हेवि भरहस्स रण्णो उवत्थाणिअं करेमो इति कटु विनमी नाऊणं चक्कचट्टि दिव्वाएमईए चोइअमई माणुम्माणप्पमाणजुत्तं तेअस्सिं रूवलक्खणजुत्तं ठिअजुब्बणकेसवट्टिअणहं सव्वरोगणासणि बलकार इच्छिअसीउण्हफासजुत्तं
.'तएण'मित्यादि, ततःसभरतोराजातद्दिव्यंचक्ररत्नंदक्षिणादिशि वैताढ्यपर्वताभिमुखं प्रयातं पश्यति, दृष्ट्वा च प्रमोदादि तावद् वक्तव्यं यावद् भरतोयत्रैव वैताढयस्य पर्वतस्योत्तरपार्श्ववर्ती नितम्बः-कटकस्तत्रैवोपागच्छति, उपागत्य च वैताढयस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायामयावत्पदकरणात् नवयोजनविस्तीर्णमित्यादिकं स्कन्धावारनिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्योः-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधरराज्ञोःसाधनायाष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधशालायांयावच्छब्दात्पौषधिकादिविशेषणविशिष्टो नमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्तिष्ठति, एते खगाअनुकम्प्याः एतेषामुपरिबाणमोक्षणेन प्राणदर्शनंन क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्मनसिकरणमात्ररूपे साधनोपाये प्रवृत्तः, तेनन द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु आदिनाथचरित्रेशरमोचनादिचूर्णिकृतातुयुद्धमात्रं द्वादशवर्षावधिअन्ने भणंतीत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रान्तरे यज्जातंतदाह
'तए णमित्यादि, तस्य भरतस्याष्टमभक्ते परिणमति सति नमिविनमी विद्याधरराजानौ दिव्यया दिव्यानुभावजनितत्वात् मत्या-ज्ञानेन जोदितमती-प्रेरितमतिको अवधिज्ञाननाधभावेऽपि यत्तयोर्भरतमनोविषयक ज्ञानं तत्सौधर्मेशानदेवीनांमनःप्रविचारिदेवानांकामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासामपि स्वविमानचूलिकाध्वजादिमात्रविषयकावधिमतीनां तद्रिरंसाज्ञानासम्भवेन सुरतानुकूलचेष्टोन्मुखत्वं न सम्भवेदिति, एताशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां, किमवादिषातामित्याह
___ “उप्पन्ने खलु इत्यादि, उत्पन्नः खलुः-अवधारणे भो देवानुप्रिया! जम्बूद्वीपेद्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्तीतस्माजीतमेतत्-कल्प एषोऽतीतवर्तमानानागतानांविद्याधरराज्ञां चक्रवर्तिनामुपस्थानिकं-प्राभृतं कर्तु,
तद् गच्छामो देवानुप्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म ‘इति कटु' इत्यादि इति कृत्वा-इति अन्योऽन्यं भणित्वा विनमिरुत्तरश्रेण्यधिपति सुभद्रां नाम्ना स्त्रीरलं नमिश्च दक्षिणश्रेण्याधिपती रत्नानि कटकानि त्रुटिकानि च गृहातीत्यन्वयः, अथ कीशः सन् विनमि किं कृत्वा सुभद्रां कन्यारलं गृहातीत्याह-दिव्यया मत्या नोदितमति सन् चक्रवर्त्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् नाऊण चक्कट्टिमित्याधुक्तं तत् सुभद्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org