SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-३ २५१ स्त्रीरलमस्यैवोप्रयोगीति योग्यताख्यापनार्थं, किंलक्षणांसुभद्रामित्याह-'मानोन्मानप्राणयुक्तां, तत्रमान-जलद्रोणप्रमाणता उन्मानं तुलारोपितस्यार्द्धभारप्रमाणतायश्चस्वमुखानिनवसमुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थः । जलपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुदगलोपचितो जलस्य द्रोणं विटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोनां वा तां पूरयति स मानोपेतः, तथा सुरपुद्गलोपचितत्वादेव यस्तुलायामारोपितः सन्नद्धभारंपलससर्रात्मकंतुलयतिसउन्मानोपेतः, तथा यद्यस्यात्मीयमलं तेनाङ्गुलेन द्वादशांगुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्तः स्यात्, प्रत्येकं द्वादशांगुलैनवभिर्मुखैरष्टोत्तरशतमङ्गुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात्, एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता, तथा तेजस्विनी व्यक्तं रूपं-सुन्दराकारो लक्षणानि व-छत्रादीनितैर्युक्तां, स्थितमविनाशित्वाद्यौवनं यस्याः सातथा, केशवदवस्थिता-अवर्द्धिष्णवो मखा यस्याः सा तथा, ततः परद्वयकर्मधारये तां, अयं भावः भुजमूलादिरोमाण्यजहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथातत्केशपाशस्यप्रलम्बतया व्याख्यानं उत्तरसूत्रे करिष्यमाणं नोपपद्येत, सर्वरोगनाशनी, तदीयस्पर्शमहिम्ना सर्वे रोगा नश्यन्तीति, तथावलकरी सम्भोगतो बलवृद्धिकरी नापरपुरन्ध्रीणामिवास्याः परिभोगेपरिभोक्तुर्बलक्षय इति भावः, ननुयदिश्रूयतेसमये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरलस्यस्वकामुकपुरुषविभीषिकोत्पादनंतर्हि कथमेतदुपपद्यते?,उच्यते, चक्रवर्त्तिनमेवापेक्ष्येतद्विशेषणद्वयस्यव्याख्यानात्, यत्तु सत्यपि स्त्रीरले ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानधस्तनग्रन्ये दण्डवर्णनव्याख्यातोऽवसेयं, ईप्सिताऋतुविपरीतत्वेनेच्छागोचरीकृता ये शीतोष्णस्पर्शास्तैर्युक्तां उष्णौ शीतस्पर्शीशीतौउष्णस्पर्शामध्यमत्तौमध्यमस्पर्शामितिभावः, त्रिषुस्थानेषु-मध्योदरतनुलक्षणेषु तनुकां-कृशां तनुमध्या-तंनूदरी तन्वङ्गीतिकविप्रसिद्धः, ननुसामुद्रिकेऽन्यान्यपिदन्तत्वगादीनि तनूनि कथितानि तथा च सति कथं तनूनां त्रिसङ्याङ्कता युज्यते इति ? उच्यते, - विचित्रत्वात् कविरुचेस्त्रिकसङ्ख्याविशिष्टानुप्रासभासुरं बन्धं निबघ्नता ग्रन्थकारेण स्त्रीपुंससाधारणानियानि त्रिकरूपाणि लक्षणानिसमुचित्यानुप्रासाभङ्गार्थं त्रिकरूपत्वेन निबद्धानि तेननेहापरग्रन्थविरोधः,अतएव दन्तत्वगादीनितनून्यपितस्याअत्रन विवक्षितानीति, एवमुत्तरवापि माव्यं त्रिषु-गन्ताधरयोनिलक्षणेषुस्थानेषु ताम्रां-रक्तां, गन्तरक्तत्वं हि स्त्रीणांदकचुम्बने पुरुषस्यातीव मनोहरं भवतीति, त्रयों वलयो मध्यवर्तिरेखारूपा यस्याः सा तथा तां, अब द्वितीयैकवचनलोपः प्राकृतत्वात, त्रिवलीकत्वं स्त्रीणामतिप्रशस्यं पुंसां तु तथाविधं न, यदाह॥१॥ “शस्त्रान्तं स्त्रीभोगिनमाचार्य बहुसुतं यथासङ्ख्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान् नृपं त्ववलिम्।।" मू. (१०२) तिसु तणुअंतिसुतंब तिवलीगतिउण्णयं तिगंभीरं। तिसु कालं तिसु सेअंतिआयतं तिसु अविच्छिण्णं ।। वृ. तथा त्रिषु-स्तनजघनयोनिलक्षणेषु उन्नतां त्रिषु-नाभिसत्वस्वररूपेषु गम्भीरां त्रिषु-रोमराजीचूचुककनीनिकारूपेष्ववयवेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेतां त्रिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy