________________
२४२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/८८
मणिरयणकउज्जोए समुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसई
वृ. 'तए ण' मित्यादि, ततः स भरतः छत्ररत्नं स्कन्धावारस्योपरि स्थापयति स्थापयित्वा च भणिरत्नं परामृशति, 'वेढो जाव'त्ति अत्र मणिरत्नस्य वेष्टको वर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, स च 'तोतं चउरंगुलप्पमाण'मित्यादिकः, परामृश्य च चर्मरत्नछत्ररत्नसम्पुटमिलननिरुद्धसूर्यचन्द्राद्यालोके सैन्येऽहर्निशमुद्योतार्थं छत्ररत्नस्य वस्तिभागे मणिरत्नं स्थापयति, ननु एवं सति सकलसैन्यावरोधः समजनित, तथा च तत्र कतं भोजनादिविधिरित्याशङ्कमानं प्रत्याह- तस्य भरतस्य राज्ञः चो वाच्यान्तरद्योतनार्थ गृहपतिरत्नं-कौटुम्बिकरलमस्तीति गम्यते, किंविशिष्टं ? - इति अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति किं ? -न विद्यते अतिवरं - अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरलं तत्र निहितमात्राणां - उत्तमात्राणां न तु लौकिकप्रसिद्धभूमिखेटनप्रभृतिकर्मसापेक्षाणां 'अत्थमंत' त्ति अर्थवतां-प्रयोजनवतां भक्षणाद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा शिलानिहितानां प्रात इति गम्यं शाल्यादीनां अत्यमंतमेत्तत्तिअस्तमयति मित्रे - सूर्ये सायमित्यर्थ निष्पादकं, संवादी चायमप्यर्थः, यदुक्तं ऋषभचरित्रे"चर्मरत्ने च सुक्षेत्र, इवोप्तानि दिवामुखे।
119 11
सायं धान्यन्यजायन्ति, गृहिरत्नप्रभावतः ।।' इत्यादि,
1TM
उभयत्र व्याख्याने पदानां व्यत्ययेन निर्देशः प्राकृतत्वात्, तत्र शालयः - कलमाद्याः यवा - हयप्रियाः गोदूम मुद्गा माषास्तिलाः कुलत्थाः प्रतीताः षष्टिकाः षष्ट्यहोरात्रैः परिपच्यमानस्तन्दुलः निष्पावा-वल्लाः चणकाः कोद्रवाः प्रतीताः 'कोत्युंभरि' त्ति कुस्तुम्भर्यो - धान्यककणाः कङ्गो - बृहच्छिरस्काः 'बरग' त्ति बरट्टाः रालका -- अल्पशिरस्काः उपलक्षणात् मसूरादयोऽन्येऽपि धान्यभेदा ग्राह्याः, अनेकानि धान्या इति - धान्यापत्राणि वरणो- वनस्पतिविशेषस्तत्पत्राणि एतप्रभृतीनि यानि हरितकानि पत्रशाकानि मेघनादवास्तुलकादीनि, पूर्वं च कुस्तुबरीशब्देन धान्यभेदः संगृहीतः इदानीं तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु संग्रह इति न पौनरुक्त्यं, 'अल्लगमूलगहलिद्द' त्ति आर्द्रकहरिद्रे प्रतीते, एते च सूरणकन्दाद्युपलक्षणभूते, मूलकं- हस्तिदन्तकं, इदं च गृञ्जनादिमूलकोपलक्षणं, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह - अलाबुतुम्बं त्रपुषं - चिर्भटजातीयं तुम्बकलिङ्गकपित्थामाम्लिकाः प्रतीताः, इदमपि फल-शाकोपलक्षणं तेन जीवन्त्या - दिपरिग्रहः आलुबुतुम्बयोर्लम्बत्ववृत्तत्वकृतो भेदः, स च तज्जातीयबी- जकृत इति जनप्रसिद्धि, सर्वशब्देन चोक्तातिरिक्त शाकादीनां ग्रहः, ननु यदि गृहपतिरत्न- मचिरक्रियया मन्त्रसंस्क्रियया धान्यादिकं निष्पादयति तर्हि किं चर्म्मरले ब्रीजवपनेन ?, तन्निर- पेक्षतयैव तत् निष्पादयतु, तस्य दिव्यशक्तिकत्वात्, उच्यते, इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य कार्यजनकत्वनियमात्, अन्यथा सूर्यपाकरसवतीकारा नलादयः सूर्यविद्यामहिम्ना रसवतीं परिपचन्तोऽपि : तन्दुलसूप शाकवेषवारादिसमाग्रीर्नापक्षेरन्निति, अत एव सुकुशलं अतिनिपुणं निजकार्यविधाबतिनिपुणं शेषं प्रायोजितं, अथोक्तगुणयोगि गृहपतिरत्नं यदवसरोचितं चकार तदाह
'तए ण' मित्यादि, ततः चर्म्मरत्नच्छत्ररत्नसम्पुटसंघटनानन्तरं तद् गृहपतिरत्नं भरतस्य राज्ञः स एव दिवसस्तद्दिवसः उपस्थानिदवसस्तस्मिन् प्रकीर्णकानां उप्तानां निष्पादितान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org