________________
वक्षस्कारः - ३
एतच्छत्रच्छायसमाश्रितानां हि विषादिदोषा अपि न प्रभवन्तीति विशेषः, तपोगुणैः - पूर्वजन्मा - चीर्णतपोगुणमहिम्रा लब्धं भरतेन । मू. (८६)
अहयं बहुगुणदानं उऊण विवरीअसुहकयच्छायं । छत्तरयणं पहाणं सुदुल्लाहं अप्पपुण्णाणं ॥
वृ. अथ गाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकारप्रवृत्तेः, अहतं- न केनापि योधंमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां - एश्वर्यादीनां दानं यस्य तत्तथा, ऋतूनां - हेमन्तादीनां विपरीता अथवा आर्षत्वात् षष्ठ्यर्थे पञ्चमीव्याख्यानेन ऋ तुभ्यो विपरीता उष्णर्ती शीता शीतर्तौ उष्णा अत एव कृतसुखा छाया यस्य, सूत्र क्तान्तस्य परनिपातो 'जातिकालसुखादेर्नवा' इत्यनेन विकल्पविधानात् छत्रेषु रत्नं- उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात्, सुदुर्लभमल्पपुण्यानामिति ।
मू. (८७) पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुल्लहतरं वग्धारिअमल्लदामकलावं सारयधवलब्भरययणिगरप्पगासं दिव्वं छत्तरयणं महिवइस्स धरणिअलपुण्णइंदो । तए णं से दिव्वे छत्तरयणे भरहेणं रण्णा परामुट्टे समाणे खिप्पामेव दुवालस जोअणाइं पवित्थरइ साहिआई तिरिअं ।
२४१
वृ. प्रमाणराज्ञां -- स्वस्वकालोचित शरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा--षट्खण्डधिपत्वेन सर्वराजसम्मतत्वात्, एतेन वासुदेवादिव्युदासस्तेषां त्रिखण्डभोक्तत्वात्, चक्रवर्तिना तपोगुणानां सुचरितविशेषाणां फलानां एकदेशभागरूपं, सूत्रे क्लीबलिङ्गनिर्देशः प्राकृतत्वात्, कोऽर्थ ? - चक्राधिपपूर्वार्जिततपसां फलं सर्वस्वं नवनिधान चतुर्द्दशरत्नादिषु विभक्तं, तेन तदेकदेशभूतमिदं छत्ररत्नं विमानवासेऽपि देवत्वेऽपि दुर्लभतरं, तत्र चक्रवर्त्तित्वस्यासम्भवात्, 'बग्घारिअ 'त्ति प्रलम्बितो लम्बतयाऽवलम्बितो माल्यदाम्नां - - पुष्पमालानां कलाप:-- समूहो यत्र तत्तथा, समन्ततः पुष्पमालावेष्टितमिति भावः, , शारदानि - शरत्कालभावीनि धवलान्यभ्राणि वाईलानि शारदश्च रजनिकरः -- चन्द्रः तद्वत्प्रकाशो - भास्वरत्वजनित उदद्योतो यस्य तत्तथा, दिव्यं - सहस्रदेवाधिष्ठितं शेषपदयोजना प्राक् कृतैवास्ति, अथ प्रकृतम्'तएण 'मित्यादि, ततस्तद्दिव्यं छत्ररत्नं भरतेन राजा परामृष्टं स्पृष्टं सत्क्षिप्रमेव चर्मरत्नवत् द्वादशयोजनानि साधिकानि तिर्यक् प्रविस्तृणाति, साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृतवृष्टयुपद्रवः स्वसैन्यस्य दुर्वारः स्यादिति ।
-
अथ छत्ररत्नप्रविस्तरणानन्तरं यच्चक्रे तदाह
मू. (८८) तए णं से भरहे राया छत्तरयणं खंधावारस्सुवरिं ठवेइ २ त्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अनतिवरं चारुरूवं सिलणिहि अत्थमंतमेत्तसालिज वगोहूममुग्गमासतिलकुलत्थसडिगनिष्फावचणगकोद्दवकोत्युं भरिकंगुबरगरालगअनेगधण्णावरणहारि अगअल्लगमूलगहलिद्दलाउ अतउसतुंबकालिंगकविड अंब अंबिलिअसव्वणिफायए सुकुसले गाहावइरयणेत्ति सव्वजणवीसुअगुणे ।
तए णं से गाहावइरयणे भरहस्स रन्नो तद्दिवसप्पइण्णणिष्फाइअपूइआणं सव्वधन्नाणं अनेगा कुंभसहस्साइं उववेति, तए णं से भरहे राया चम्परयणसमारूढे छत्तरयणसमोच्छत्रे 13 16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org