________________
२३४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/८१ कशा - चर्म्मदण्डस्तेषां निपातैस्तथा अंकेल्लणप्रहारै:- तर्जनकविशेषाघातैश्च परिवर्जितं अशववारमनोऽनुकूलचारित्वात् अङ्गं यस्य तत्तथा, तपनीयमयाः स्थासका - दर्पणाकारा अश्वालङ्कारविशेषा यत्र तदेवंविधं अहिलाणं-मुखसंयमनविशेषो यस्य तत्तथा, वरकनकमयानि सुष्ठु - शोभनानि पुष्पाणि स्थासकाश्च तैर्विचित्रा रत्नमयी रज्जु पार्श्वयोः- पृष्ठोदरान्तवर्त्यवयवविशेषयोर्यस्य तत्तथा, वध्यन्ते हि पट्टिकाः पर्याणध्ढीकरणार्थमश्वानामुभयोः पार्वयोरिति, काञ्चनयुतमणिमयानि केवलकनकमयानि च प्रतरकाणि - पत्रिकाभिधानभूषणानि अन्तरान्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौक्तिकजालकानि च तैः परिमण्डितेन पृष्ठेन शोभमानेन शोभमानं कर्केतनादिरत्नमयं मुखमण्डनार्थं रचितं आविद्धमाणिक्यं -- प्रीतमाणिक्यं सूत्रकं - हयमुखभूषणविशेषस्तेन विभूषिकं कनकमयपद्मेन सुष्ठु कृतं तिलकं यस्य तत्तथा, देवमत्या - स्वर्गिचातुर्येण विविधप्रकारेण कल्पितं -सज्जितं सुरवरेन्द्र- वाहनम् उच्चैः श्रवा हयस्तस्य योग्या - मण्डलीकरणाभ्यासस्तस्या 'व्रज गतावित्यस्याचप्रत्यये व्रजं-प्रापकं ।
ये गत्यर्थास्ते प्राप्तयर्था इति वचनात् अयं भावः--याद्दशं खुरली श्रममुचैःश्रवाः करोति ताध्शमयमपि, अत्र षष्ठयर्थे द्वितीया प्राकृतत्वात्, तथा सुरूपं सुन्दरं द्रवन्ति - इतस्ततो दोलायमानानि सहजचञ्चलाङ्गत्वाद् गलभालमौलिकर्णद्वयमूलविनिवेशितत्वेन पञ्चसङ्ख्याकानि यानि चारूणि चामराणि तेषां मेलक - एकस्मिन् मूर्द्धनि सङ्गमस्तं धरद् - वहत्, चामरा इत्यत्र स्त्रीनिर्देशः समयसिद्ध एव, गौडमतेन वा चामरा इत्याबन्तः शब्दः, अत्रापीडशब्दे व्याख्यायमाने मूर्द्धालंकार एवोक्तो भवति, न तु कर्णाद्यलङ्कारः, ध्श्यन्ते च लोके एकं चामरं मूर्द्धालङ्कारभूतं चामरद्वयं च कर्णालङ्कारभूतं एकं च भालालङ्कारभूतं एकं च कंठालङ्कारभूतमिति, तेन यथोक्तव्याख्यानमेव सुन्दरं, अथ देवमतिविकल्पितादिविशेषणविशिष्ट उच्चैःश्रवानाम शक्रहयोऽपि स्यादित्याह -अनभ्रवाहंअननचारी अभ्रवाहः अश्वः उच्चैःश्रवास्तदन्यं 'अदब्मवाह' मिति पाठे तु अदनं-भूरि वहतीति अदभ्रवाहस्तत्, अभेले - दोषादिना असंकुचिते नयने यस्य तत्तथा ।
अत एव कोकासिते-विकसिते बहले - ध्ढे अनश्रुपातित्वात् पत्रले - पक्ष्मवती न तु ऐन्द्रलुप्तिकरोवगशाद्रोमरहिते अक्षिणी यस्य तत्तथा, सदावरणे--शोभार्थं दंशमशकादिरक्षार्थं वा प्रच्छादनपटे नवकनकानि - नव्यस्वर्णानि यस्य तत्तथा स्वर्णतन्तुव्यतप्रच्छादनपटमित्यर्थः, तप्तपनीयं तद्वदरुणे तालुजिह्ने यत्र तदेवंविधमास्यं यस्य तत्तथा, ततः पूर्वविशेषणेन कर्मधारयः, श्रीकाया - लक्ष्मया अभिषेकः - अभिषेचनं नाम शारीरलक्षणं घोणायां-नासिकायां यस्य तत्तथा, क्वचित्पाठान्तरे तु सिरिसातिसे अघोणमिति दृश्यते, तत्र शिरीषं - शिरीषपुष्पं तद्वदतिश्वेता घोणा यस्येति, तथा पुष्करपत्रमिव-कमलदलमिव सलिलस्य बिन्दवो यत्र तदेवंविधं, कोऽर्थः ? - यथा पुष्करपत्रं जलान्तरस्थं वाताहतजलबिन्दुयुतं भवति तथेदमपि सलिलं - पानीयं लावण्यमित्यर्थः तस्य बिन्दवः - छटास्तैर्युतं, बिन्दुग्रहणेनात्र प्रत्यङ्गं लावण्यं सूचितं, लोकेऽपि प्रसिद्धमेतत् मुखेऽस्य पानीयमिति, अचंचलं- स्वामिकार्यकरणे स्थिरं, साधुवाहित्वात्, चञ्चलशरीरं जातिस्वभावात् अथ यदि चञ्चलाङ्गस्तदाऽमेध्यवस्तुष्वपि स्वाङ्गप्रवर्तको भविष्यतीत्याह- चोक्षःकृतस्नानश्चरको घाटिभिक्षाचरः परिव्राजको-मस्करी ततश्चरकसहितः परिव्राजकश्चरकपरिब्राजकः, प्रथमा द्वितीयार्थे तेन चरपरिव्राजकमिव प्राकृत शैल्या अकारप्रश्लेषादभिलीयमानं २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org