________________
वक्षस्कारः-३
२३३ तत इति क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेकं अश्वरत्न सेनापति क्रमेण-सत्राहादिपरिधानविधिना समभिरूढ-आरूढः, किंविशिष्टमित्याह-अशीत्यङ्गुलानि उच्छ्रितं, अंगुलंचात्र मानविशेषः,नवनवत्यंगुलानि-एकोनशतांगुलप्रमाणपरिणाहो मध्यपरिधिर्यस्य तत्तथा, अष्टोत्तरशतांगुलान आयतं-दीर्घ, सर्वत्र मकारोऽलाक्षणिकः, तुरगाणांतुङ्गत्वं खुरतःप्रारभ्य कर्णावधि परिणाहः पृष्ठपार्योदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह ॥१॥ “मुखादापेचकं दैर्ध्य, पृष्ठपाश्र्वोदरान्तरात्।
आनाह उच्छ्रयः पादान, विज्ञेयो यावदासनम् ।।१॥" तत्रोच्चत्वसङ्ख्यामेलनाय साक्षादेव सूत्रकृदाह-'बत्तीस मित्यादि, द्वात्रिंशदंगुलोच्छितशिरस्कंचतुरंगुलप्रमाणकर्णकं, हस्वकर्णत्वस्यजात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुन्चत्वेनास्य स्थिरयौवनत्वमभिहितंशंकुकर्णत्वात्, हयानां यौवनपातेवनितास्तनयोरिव अनयोः पातःस्यात्, दीर्घत्वंचार्षत्वात्, अत्र योजनायाःक्रमप्राधान्येन पूर्व कर्णविशेषणं ज्ञेयं पश्चाच्छिरसः,अश्वश्रवसो मून उच्चतरत्वात्, विंशत्यङ्गुलप्रमाणा बाहा-शिरोभागाधोवीजानुनोरुपरिवर्तीप्राक्चरणभागो यस्यतत्तथा, चतुरंगुलप्रमाणंजानु-बहुजंघसंधिरूपोऽवयवो यस्यतत्तथा, तथा षोडशांगुलप्रमाणा जंघाजान्वधोवीखुरावधिरवयवोयस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुराः-पादतलरूपा अवयवा यस्य तत्तथा, एषामवयवा- नामुद्यत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशीत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यत्तु श्रेष्ठाश्वमा-नमाश्रित्य लौकिकपारासरग्रन्थे।
'जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत।
अंगुलानां शतं हीनं, विंशत्या दशभिस्त्रिभिः॥ ॥२॥ परिणाहोऽङ्गुलानि स्यात्, सप्तति सप्तसप्ततिः।
एकाशीति समासेन, त्रिविधं स्याद् यथाक्रमम् ॥ ॥३॥ तथा षष्टिश्चतुःषष्टिरष्टषष्टि समुच्छ्रयः ।
द्विपञ्चसप्तकयुता, विंशति स्यान्मुखायति ।। . इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यंगुलानि परिणाहः अष्टषष्टयंगुलानि समुच्छ्यः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठहयानाश्रित्यनतुहयरत्नमाश्रित्य, दृष्टश्चायं विशेषः पुरुषोत्सेधेसामुद्रिके उत्तमपुरुषाणामटोत्तरशतांगुलान्युत्सेधः उत्तमोत्तमानांतुविंशत्युत्तरशतांगुलानि, अनेनास्यप्रमाणोपेतत्वंसूचितं, सम्प्रत्यवयवेषुलक्षणोपेतत्वं सूचयति-मुक्तोलीनाम अधउपरिचसङ्कीर्णा मध्ये त्वीषद्विशालाकोष्ठिका तद्वत् संवृत्तं-सम्यग्वर्तुलं वलितं-वलनस्वभावं न तु स्तब्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादुचितेयमुपमा, ईषदंगुलं यावत् प्रणतं-नन्तुमारब्धं अतिप्रणतस्योपवेष्टुर्दुखावहत्वात् पृष्ठ-पर्याणस्थानं यस्य तत्तथा आरोहकसुखावहपृष्ठकमित्यर्थः, सम्यग् अधोऽधः क्रमेण नतं पृष्ठं यस्य तत्तथा, सङ्गतं-. देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं-जन्मदोषरहितं पृष्ठं यस्य तत्तथा, प्रशस्तं-शालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किं बहुना ? विशिष्टपृष्ठं प्रधानपृष्ठमितियावत्, उक्तं पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि-एणी-हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतं च चरमभागे स्तब्धंसुध्दं पृष्ठं यस्य तत्तथा, वेत्रो-जलवंशः लता-कम्बा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org