________________
वक्षस्कारः-३
२२५
फलान्येकः श्वेतसर्षपः षोडश श्वेतसर्पषा एकंधान्यमाषफलं द्वे धान्यमाषफले एका गुभा पञ्च गुआ एकः कर्ममाषकः षोडश कर्ममाषकाः एक सुवर्ण' इति, एताशैरष्टभि सुवर्ण काकणीरलं निष्पद्यते इति, अत्र चाधिकारे।
___ "एतानि चमधुरतृणफलादीनि भरतचक्रवर्त्तिकालसम्भवीन्येवगृह्यन्ते, अन्यथाकालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि"त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थानाङ्गवृत्तिवचनात् । ॥१॥ "चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो।
चउरंगुलप्पमाणा सुवण्णवरकागणी नेया॥ इहाङ्गुलं-प्रमाणाङ्गुलमवगन्तव्यं, सर्वचक्रवर्तिनामपि काकण्यादिरत्नानां तुल्यप्रमाणत्वादिति" मलयगिरिकृतबृहतसंग्रहणीबृहदृत्तिवचनाच केचनास्यप्रमाणाङ्गुलनिष्पन्नत्वं, केचच्च “एगमेगस्स णं रन्नो चाउरंतचक्रवट्टिणो अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पन्नत्ते, एगमेगा कोडी उस्सेहंगुलविक्खम्भा तं समणस्स भगवओ महावीरस्स अद्धंगुलं" इत्यनुयोगद्वारसूत्रबलादुत्सेधाङ्गुलनिष्पन्नत्वं, केऽपि च एतानि सप्तैकेन्द्रियरत्नानि सर्वचक्रवर्तिनामात्माङ्गुलेन ज्ञेयानि, शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्कालीनपुरुषोचितमानानीति प्रवचनसारोद्धारवृत्तिबला- दात्माङ्गुलनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्वनिर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति।
अस्य परामर्शानन्तरंयच्चक्रेतदाह-'तएण'मित्यादि, ततःपरामर्शानन्तरंतत्काकणीरलं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखन्नालिखन्अनुप्रविशतीत्युत्तरेण सम्बन्धः, कथम्भूतमित्याह-चतुरङ्गुलप्रमाणमात्रं, अस्यैकैका अश्रिश्चतुरङ्गुलप्रमाणविष्कम्माद्वादशाप्यश्रयः प्रत्येकं चतुरङ्गुलप्रमाणा भवन्तीत्यर्थः,अस्य समचतुरम्मत्वादायामोविष्कम्भश्चप्रत्येकं चतुरङ्गुलप्रमाणइत्युक्तंभवति, यैवानिरूर्वीकृताआयामंप्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिर्णयः स्यादेवेतिसूत्रेविष्कम्भस्यैव ग्रहणं, तदग्रहणे चायामोऽपि गृहीत एव, समचतुरनत्वात्तस्येति, तदेवं सर्वतश्चतुरङ्गुलप्रमाणमदं सिद्धं ।
यत्तु तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स अद्धंगुलं इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं, तथाऽष्टभि सुवर्णैर्निष्पन्नमष्टसुवर्ण, अष्टसुवर्णमूलद्रव्येण निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषंजङ्गमादिभेदभिन्न तस्य हरणं, स्वर्णाष्टगुणानामध्येविषहरणस्यप्रसिद्धत्वात्, अस्यच तथाविधस्वर्णमयत्वादिति, अतुलं-तुलारहितमनन्यसशमित्यर्थः, चतुरस्रसंस्थानसंस्थितमितितुविशेषणं पूर्वोक्ताधिकरणिदृष्टान्तेन भाव्यमिति, ननु अधिकरणिद्दष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरंगुलतोपपद्येत अधिकरणेरधः संकुचितत्वेन विषमचतुरस्रत्वादित्याह- समानिनन्यूनाधिकानितलानिषडपि यस्य तत्तथा, अथैतदेव यच्छब्दगर्भितवाक्यद्वारा विशिनष्टि-यतः काकणीरलात् मानोन्मान [प्रमाण] योगाः-एते मानविशेषव्यवहारा लोके चरन्ति प्रवर्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवादि, रसमानं चतुःषष्टिकादि, उन्मानं कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्यं गुआदि, किंविशिष्टास्ते व्यवहाराः ? 13] 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org