________________
२२४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७८ जाया यावि होत्या।
वृ. 'तएणं से भरहे राया मणिरयण'मित्यादि, ततः स भरतो राजा मणिरत्नं परामृशति, किंविशिष्टं इत्याह- 'तोत मितिसम्प्रदायगम्यं चतुरडुलप्रमाणा मात्र दैर्येण यस्य तत्तथा, चशब्दाद्
द्व्यङ्गुलपृथुलमिति ग्राह्य, यदाह-"चतुरंगुलोदुअंगुलपिहुलोअमणी''इति, अनर्धितं-अमूल्यं न केनापितस्याः , कर्तुं शक्यते इत्यर्थः तिम्रोऽनयः-कोट्यो यत्रतत्तथा, ईशंसत् षडनं षट्कोटिकं, लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाकारत्वेन प्रसिद्धत्वान्मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्त्तिनोऽनत्रयस्य सत्वात्, अत्राह-षडसमित्यनेनैव सिद्धे त्र्यनंषडसमिति किमर्थं ?, उच्यते, उभयोरन्तयोर्निरन्तरकोटिषटकभवनेनापि षडम्रता सम्भवति ततस्तदव्यवच्छेदार्थं त्र्यनं सत् षडनमित्युक्तं, तथा अनुपमधुति दिव्यं मणिरत्नेषु-पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात्, वैडूर्यंवैडूर्यजातीयमित्यर्थः, सर्वेषांभूतानांकान्तं-काम्यं, इदमेव गुणान्तरकथनेन वर्णयन्नाह
'जेण यमुद्धागएण'मित्यादि, येन मूर्द्धगतेन-शिरोधृतेनहेतुभूतेन न किञ्चिद्दुःखंजायते आरोग्यं च सर्वकालं भवति, तिर्यङ्देवमनुष्यकृताः चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च सर्वे न कुर्वन्तितस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशस्त्रवध्यः, अत्रन शस्त्रवध्योऽशस्त्रवध्य इति, नसमासोवा, अः स्वल्पार्थेऽप्यभावेऽपी'त्यनेकार्थवचनात् अ इति पृथगेव नसमानार्थनिपातो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवित, नरो मनिवरं धरन् स्थितं-विनश्वरभावमप्राप्तं यौवनं यस्य स तथा, स्थायियौवन इत्यर्थः, केशैः सहावस्थिताअवर्द्धिष्णवो नखा यस्य स तथा, पश्चात् पदद्वयस्य कर्मधारयः, भवति च सर्वभयविप्रमुक्तः, अत्र 'सर्वं भाजनस्थं जलं पीत'मित्यादाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वाद्देवमनुष्यादिप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अधैतद् गृहीत्वा नृपतिर्यञ्चकार तदाह
'तं मणि'न्ति तन्मणिरलं गृहीत्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे निक्षिपति निबध्नाति, ‘कुंभीए' इत्यत्र स्त्रीत्वंप्राकृतत्वात्, 'तएणमित्यादि, ततःस भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररत्नदेशितमार्गो यावत् समुद्ररवभूतामिव गुहामिति गम्यं कुर्वन् २ यत्रैव तमिस्पगुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य चतमिसागुहा दाक्षिणात्येन द्वारेणात्येति-प्रविशति, शशीवमेधान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह
तएणमित्यादि, ततः स भरतो राजा काकणीरलंपरामशतीत्युत्तरेण सम्बन्धः, किंविशिष्टमित्याह-चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षटसञ्जयाङ्गानि तलानि यत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षुप्रत्येकंचतसृनामश्रीणांभावात् अश्रयः-कोट्योयत्र तत्तथा, कर्णिकाः-कोणाः यत्रअश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकं, अधिकरणि-सुवर्णकारोपकरणं तद्वत् संस्थितं-संस्थानं यस्य तत्तथा, तत्सध्शाकरं समचतुरनत्वात्, आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह-अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं, तत्र सुवर्णमानमिदं-'चत्वारि मधुरतृण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org