________________
२२६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७८ सर्वजनानां अधमर्णोत्तमर्णानांप्रज्ञापका-मेयद्रव्याणामियत्तानिर्णायकाः, अयमाशयोयथा सम्प्रति आप्तजनकृतनिर्णयाचं कुडवादिमानं जनप्रत्यायकं व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्तिकाले कारणिकपुरुषैः काकणीरलाकितंतत्ताशं भवेदित्यर्थः, यच्छब्दगर्भेणैववाक्येन माहास्यान्तरमाह-नापिचन्द्रः तत्र तिमिरं नाशयतीति योजनीयं, नवा सूर्य, अनईक्यिालङ्कारे एवं सर्वत्र, नवाऽग्निर्दीपादिगतः न वा मणयस्तत्र तिमिरं नाशयन्ति, प्रकाशं कर्तुमलंभूष्णव इत्यर्थः, यत्रान्धकारेअन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकारमत्रास्तीति अभ्रादित्वादप्रत्ययविधानाद्वा अन्धकारवतिगिरिगुहादौ तकत्-काकणीरत्नं दिव्यं-प्रभावयुक्तं तिमिरं नाशयति, अधयदीदंप्रकाशयति तदा कियत् क्षेत्रप्रकाशयतीत्याह-द्वादश योजनानि तस्य लेश्याः-प्रभा विवर्द्धन्ते अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्याः?
तिमिरनिकरप्रतिषेधिकास्तमिनादिगुहायाः पूर्वापरतो द्वादशयोजनविस्तारयोस्तासां प्रसरणात् 'रत्तिं च त्ति प्रथमान्तयच्छब्दाध्याहारदर्थवशाद्विभक्तिपरिमाणाञ्च यद्रलं रात्रौ चो वाक्यान्तरारम्भार्थः सर्वकालं स्कन्धावारे दिवससशं, यथा दिवसेआलोकस्तथा रात्रावपीत्यर्थः, आलोकं करोति, यस्यप्रभावेण चक्रवर्ती तमिस्रांगुहा अत्येति-प्रविशति सैन्यसहितोद्वितीयम
भरतमभिजेतुंउत्तरभरतं वशीकर्तुमित्यर्थः, नचात्रान्तरा यच्छब्दगर्भितवाक्यावतारेण वाक्यान्तरप्रवेशोनामसूत्रदूषणमिति वाच्यं,आर्षत्वात्तस्यादुष्टत्वेन शिष्टव्यवहारात्, यथा आर्षे छन्दस्सु वर्णाधाधिक्यादावपि न छन्दोभ्रष्टत्वदोषो महापुरुषोपज्ञत्वेनाय॑त्वात् तथैव शिष्टव्यवहारात्, राजवरो-भरतः 'कागणिं ति पदैकदेशे पदसमुदायोपचारात् काकणीरलं गृहीत्वा-लात्वा तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयोः-भित्योः प्राकृतत्वाद् द्विवचने बहुवचनं, योजनान्तरितानि प्रमाणांगुलनिष्पन्नयोजनमपान्तराले मुक्त्वा कृतानीत्यर्थः,अवगाहनापेक्षयोत्सेधांगुर्ल"निष्पन्नपञ्चधनुःशतमानविष्कम्भाणि, वृत्तत्वा विष्कम्भग्रहणेनायामोऽपि तावानेवावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काकणीरत्नेन क्रियमाणत्वान्मण्डलाना, अयं च मण्डलावगाहः स्वस्वप्रकाश्ययोजनमध्ये एव गण्यते, अन्यथा ४९ मण्डलानामवगाहे पिण्डीक्रियमाणे गुहामित्योरायाम उक्त प्रमाणाधिकप्रमाणः प्रसज्येतेति, अत एव च योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलान्तरालं तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः।
चक्रस्य नेमि-परिधिस्तत्संस्थानानि वृत्तानीत्यर्थः तथा चन्द्रमण्डलस्य प्रतिनिकाशानिभास्वरत्वेन सह शानि, एकोनपञ्चाशतं मण्डलानि-वृत्तहिरण्यरेखारूपाणि, काकणीरलस्य सुवर्णमयत्वात्, आलिखन् २-विन्यस्यन् २ अनुप्रविशति गुहामिति प्रकरणाद् ज्ञेयं, वीप्सावचमाभीक्ष्णयद्योतनाथ, मण्डालालिखनक्रमश्चायं-गुहायां प्रविशन् भरतः पाश्चात्यपान्थजन प्रकाशकरणाय दक्षिणद्वारे पूर्वदिक्कपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति, ततो गोमूत्रिकान्यानोत्तरतः पश्चिमदिक्कपाटकोडके तृतीययोजनादौ द्वितीयमण्डलमालिखति, ततस्तेनैवन्यायेन पूर्वदिकपाटतोड्डके चतुर्थयोजनादौतृतीयं,ततः पश्चिमदिग्भित्तीपञ्चमयोजनादौ चतुर्थं ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं ततः पश्चिमदिग्भित्तौ सप्तमयोजनादौ षष्ठं ततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमं एवं तावद् वाच्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिक्कपाटे प्रथमयोजनादौ एकोनपञ्चाशत्तमं चोत्तरदिरद्वारसत्कपूर्वदिकपाटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org