________________
२१०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७३ निर्वातानि-वातरहितानि यानि कन्दरान्तराणि-दरीमध्यानि तत्र संवर्द्धिताश्चित्रा-विविधास्तिनिशा-रथद्रुमास्त एव दलिकानि-दारूणि यस्य तं, सूत्रे च पदव्यत्ययः आर्षत्वात्।
जाम्बूनदसुवर्णमयं सुकृतं-सुघटितं कूवरं-युगन्धरं यत्र तं, कनकदण्डिकाः-- कनकमयलघुदण्डरूपाः अरायत्रतं, पुलकानिवरेन्द्रनीलानि सासकानिरलविशेषाःप्रवालानि स्फटिकवररत्नानिचप्रतीतानि लेष्टवो-विजातिरलानि मणयः-चन्द्रकान्ताद्याःविद्रुमः-प्रवालविशेषः अनयोश्च वर्णादितारतम्यकृतो विशेषो बोध्यः तैर्विभूषितं, रचिताः प्रतिदिशं द्वादश २ सद्भावात् अष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात् ।
तपनीयपट्टै रक्तस्वर्णमयपट्टकैर्लोके महलू इति प्रसिद्धैः संगृहीते-४ढीकृते तथा युक्ते-उचिते नातिमहती इत्यर्थः ततः पदत्रयस्य कर्मधारयः एताशे तुम्बे यस्य स तथा तं, प्रघर्षिताः-प्रकर्षेणधृष्टाः प्रसिताः-प्रकर्षेणबद्धाःईद्दशा निर्मिता-निवेशिताः नवाः---अजीर्णा पट्टाः-पट्टिका यत्र तत्तथाविधं यत्पृष्ठं-चक्रपरिधिरूपं यल्लोके पूंठी इति प्रसिद्धं तत्परिनिष्टितं-सुनिष्पन्न कार्यनिर्वाहकत्वेन यस्य स तं, अत्र पदव्यत्ययः प्राकृतत्वात्, विशिष्टलष्टेअतिमनोजे नवे-सद्यस्के लोहवर्धे-अयश्चर्मरज्जुके तयोः कर्म-कार्यं यत्र स तं, अयमर्थः--
तत्र रथे येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरि-वासुदेवस्तस्य प्रहरणरत्नं-चक्रं 'चक्कमुसलजोही ति वचनात् तत्सशे चक्रे यस्य सतं, कर्केतनेन्द्रनीलशस्करूपरलत्रयमयं सुष्टु-सम्यग्आहितं-निवेशितंकृतसुन्दरसंस्थानमित्यर्थः ईशंबद्धंजालकटकं-जालकसमूहो यत्र स तथा तं, अयं भावः-रथगुप्तौ जालकपदवाच्या सच्छिद्ररचनाविशिष्टा अवयवविशेषा बहवस्तत्र शोभा जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा--अवका धूर्यत्र स तं, पुरमिव गुप्तं समन्ततः कृतवरूथं, रथेहि प्रायः सर्वतोलोहादिमयी आवृतिर्भवति, पुरवरदृष्टान्तकथनेनायमर्थः
यथा पुरंगोपुरभागपरित्यागेन समन्ततोवप्रगुप्तं भविततथाऽयमप्यारोहस्थानसारथिस्थाने विहाय गुप्त इति, सुकिरणं-शोभमानकान्तिकं यत्तपनीयं-रक्तंसुवर्णं तन्मयंयोकं तेन कलितं, योक्रेण हि वोढस्कन्धे युगंबद्धयत इति, अत्रच एतत्सूत्रादर्शेषु तवणिज्जजालकलि मिति पाठो ऽशुद्धएवसम्भाव्यते, आवश्यकचूर्णी अस्यैव पाठस्य दर्शनात, कंकटका:-सत्राहास्तेषां नियुक्तास्थापिता कल्पना-रचना यत्र सतथा तं, यथाशोभंतत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरणैरनुयातं-भृतमित्यर्थः, एतदेव व्यक्तितआह-खेटकानि प्रतीतानिकणका-बाणविशेषाः धषि मण्डलायाः-तरवारयः वरशक्तयः-त्रिशूलानि कुन्ता-मल्लाः तोमराश्च-बाणविशेषाः शराणां शतानि येषु ताशा ये द्वात्रिंशतूणा-भस्त्रकास्तैः परिमण्डित-समन्ततः शोभितं कनकरलचित्रं । तथा युक्तं तुरगैरित्यनेन सम्बद्धयते, किंविशिष्टरित्याह
हलीमुखं रूढिगम्यमिति बलाको बकः गजदन्तचन्द्रौ प्रतीतौ मौक्तिकं-मुक्ताफलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्दं- श्वेतः पुष्पविशेषः कुटजपुष्पाणि-वरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि-कन्दलवृक्षविशेष- पुष्पाणि वरफेननिकरो हारो-मुक्ताकलापः काशाः-तृणविशेषास्तेषां प्रकाशः-औज्वल्यं तद्वद्धवलैः अमरा-देवा मनांसि-चित्तानि पवनो-वायुस्तान् वेगेन जयतीति अमरमनःपवन-जयिनः, अत एव च-पलशीघ्रं-अतिशीघ्रं गामिनो-गमनशीलाः, ततः पदद्वयकर्मधारयः, तैश्चतुर्मि-चतुःशङ्ख्याकैः तथा चामरैः कनकैश्च
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only