SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६८ सम्पूर्णालापको ग्राह्यः,सचायं-'हट्टतुट्ठचित्तमाणदिए' इत्यादिकः प्रागुक्तएव, कौटुम्बिकपुरुषान् शब्दयतिशब्दयित्वाचैवमवादीत्, 'खिप्पामेव त्ति प्राग्व्याख्यातार्थ, अत्र लाघवार्थमतिदेशवाक्येनाह-तेनैव क्रमेण-पूर्वोक्तस्नानाधिकार-सूत्रपरिपाट्या तावद् वाच्यं यावद् ‘धवलमहामेहनिग्गए' इत्यादि निगमनसूत्र, तदनुयावच्छेतव-चामरैरुद्धूयमानैरित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथयथाभूतो भरतो वरदामतीर्थप्राप्तोयथाचतत्र स्कन्धावारनिवेशमकरोत्तथाऽऽह, अत्रचसूत्रेवाक्यद्वयं, तत्रचादिवाक्येतहेवसेसमित्यतिदेशपदेन सूचिते ग्रन्थे जेणेव वरदामतित्ये तेणेव उवागच्छइ' इत्यनेनान्वययोजना कार्या, सा चैवम्-स भरतो यत्रैव वरदामतीर्थ तत्रैवोपागच्छतीति, द्वितीयवाक्ये च विजयस्कन्धा- वारनिवेशं करेइ इत्यनेनेति, किंलक्षण इत्याह- ‘माइय'त्ति हस्तपाशितं वरफलकं-प्रधानखेटकं यैस्ते तथा प्रवरः परिकरः-प्रगाढगात्रि- काबन्धः खेटकं च येषां ते तथा, फलकं दारुमयं खेटकं च वंशशलाकादिमयमिति न पौनरुक्त्यं, वरवर्मकवचमात्यः-सन्नाहविशेषा येषा ते तथा, एषां चविशेषस्तत्कलाकुशलेभ्योवेदितव्यः, यथावमलोहकुतूहलिकामयंइत्यादि तेषां सहस्र-वृन्दवृन्दैः कलितोयः सतथा, राज्ञां हिप्रयाणसमये युद्धाङ्गानांसह सञ्चरणस्यावश्यकत्वात, उत्कटवराणिउन्नतप्रवराणि मुकुटानि प्रतीतानि किरीटानि-तान्येव शिखरत्रयोपेतानि पताका-लघुपटरूपा ध्वजा-बृहत्पटरूपावैजयन्त्यः-पार्श्वतोलघुपताकिकाद्वययुक्ताः पताकाएव, चामराणिचलन्ति छत्राणि तेषां सम्बन्धि यदन्धकारं-छायारूपं तेन कलितः, अत्रान्धकारशब्दान्तसमासपदाग्रे आर्षत्वात्तृतीयैकवचनलोपोद्रष्टव्यः कलितइति चपृथगेवतेन वक्ष्यमाणानन्तरसूत्रेकलितशब्दो योजनीयोऽन्यथा ततस्थचकारस्य नैरर्युक्यापत्तेः,यद्वाअत्र समस्तोऽपिकलितशब्दश्चकारकरणबलादेव तत्रापि योजनीय इति, प्रस्तुतविशेषणस्यायं भावार्थः चलतश्चक्रिणोमुकुटादिकाततसैन्यस्यचछत्रव्यतिरिक्ता सामग्री तथा अस्तियथाऽध्वनि मनागपिआतपक्लेशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बद्धयते, सैन्यकृतो जयः स्वामिन्येवेति व्यवहारदर्शनात, पुनर्भरतमेव विशिनष्टि-असयः-खगविशेषाः क्षिप्यन्ते सीसकगुटिका आभिरिति क्षेपिण्यो-हथनालिरिति लोकप्रसिद्धा खडगाः सामान्यतः चापा:-कोदण्डाः नाराचा:-सर्वलोहबाणाः कणका-बाणविशेषाः कल्पन्यः-कृपाण्यः शूलानिप्रतीतानि लकुटा:-प्रतीताः भिन्दिपाला--हस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः धनूंषिवंशमयबाणासनानि किरातजनग्राह्याणि तूणाः-तूणीराः शराः-सामान्यतो बाणाः इत्यादिभि प्रहरणैः, अत्र चकारेण पूर्वविशेषणस्थः समस्तोऽसमस्तो वा कलितशब्दो योज्यः, तेन तैः संयुक्त इति, दिग्विजयोद्यतानां राज्ञां हि शस्त्राणि सेनासहवर्तीनि भवन्तीतिज्ञापितं, कथमुक्तप्रहरणैः कलित काले त्यादि,अत्र रुधिरशब्दो रक्तार्थ तेन कालनीलरक्तपीतशुक्लानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तरभेदादनेकरूपाणि यानि चिह्नशतानि तानि सन्त्रिविष्टानि येषु तद्यथा स्यात्तथेतिक्रियाविशेषणतया बोध्यं, कोऽर्थः?-राज्ञांहिशस्त्रध्यक्षास्तत्तजातीत्तदेशीयशस्त्राणां निर्विलम्ब परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् केशान् कर्वन्तीत्यर्थः, अथ तूर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि-आस्फोटितं-करास्फोटरूपंसिंह-नादः-सिंहस्येवशब्दकरणं छेलिअत्ति सेंटितंहर्षोत्कर्षेणसीत्कारकरणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy