________________
वक्षस्कारः - ३
२०३
चक्ररलं कीदृशं क च सञ्चचारेत्याह-- 'तए ण'मित्यादि, ततस्तद्दिव्यं चक्ररलं वज्रमयं तुम्बं - अरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररत्नगया अरका यत्र तत्तथा, जाम्बूनदं - पीतसुवर्णं तन्मयो नेमि-धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरप्राकारत्वात् क्षुरप्ररूपं स्थालं-- अन्तः परिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं, नन्दि - भम्भामृदङ्गादिर्द्वादशविधसूर्यसमुदायस्तस्य घोषस्तेन सहगतं यत्तत्तथा, सकिङ्किणीकं क्षुद्रण्टिकाभि सहितं, दिव्यमिति विशेषणस्य प्रागुक्तत्वेऽपि प्रशस्ततातिशयख्यानार्थं पुनर्वचनं तरुणरविमण्डलनिभं नानामणिरत्नघणिटाकाजालेन परिक्षिप्तं सर्वतो व्याप्तं ।
'सव्वोउअ' इत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्ना च सुदर्शनं नरपतेः - चक्रिणः प्रथमंप्रधानं सर्वरत्नेषु तस्य मुख्यत्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच्च चक्ररत्नं, प्रथमशब्दस्य 'पढमे चंदयोगे' इत्यादौ प्रधानार्थकत्वेन प्रयोगदर्शनान्त्रेदमसङ्गतिभाग् व्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां आयुधगृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च दक्षिणपश्चिमां दिशं नैर्ऋतीं विदिशं प्रतीति शेषः, वरदामतीर्थाभिमुखं प्रयातंचलितं चाप्यभवत्, अयं भावः - शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्त्तिवरदामतीर्थं व्रजतः आग्नेय्या विदिशागमने -प्रतीचिदिशागमने वक्रः पन्थाः तेनैवमुक्तं यच्च ऋषभचरित्रे"दक्षिणस्यां वरदामतीर्थं प्रति ययौ ततः ।
119 11
चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवान्वगाद् !!"
इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात्, यच्चात्र चक्ररत्नस्य पूर्वतः दक्षिणदिशि गमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम् ।
मू. (६८) तए णं से भरहे राया तं दिव्वं चक्करयणं दाहिणपश्चत्थिमं दिसिं वरदामतित्थाभिमुहं पयातं चावि पासइ २ त्ता हट्ठट्ठ० कोडुंबिअपुरिसे सद्दावेइ २ त्ता एवं वयासी- खिप्पामेव भो देवाणुष्पिआ ! हयगयरह पवर चाउरंगिणि सेन्नं सण्णाहेह आभिसेकं हत्थिरयणं पडिकप्पेहत्तिकड मजणधरं अनुपविस र त्ता तेणेव कमेणं जाव धवलमहामेहनिग्गए जाव से अवरचामराहिं उद्धव्वमाणीहिं २ माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए -
उक्कडवरमउडतिरीडपडागझयवेजयंतिचामरचलंतछत्तंधयार कलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललउडभिंडिमालधणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअसुकिल्लअणेगचिंधसयसण्णिविट्टे अप्फोडिअसीहणायछेलिअहयहेसि अहत्थिगुलुगुलाइअअनेगरहस्यसहस्सधणघणेंतणीहम्ममाणसद्दसहिएण जमगसमगभभाहोरंमकिणितखर
मुहिमुगंदसंखि अपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकं सालकरधाणुत्थिदेण । महता सद्दसण्णिणादेण सयलमवि जीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसह- सपरिवुडे वेसमणे चेव धनवई अमरपतिसण्णिमाइ इद्धीए पहिअकित्ती गामागरनगरखेडकब्बड तहेव सेसं जाव विजयखंधावारणिवेसं करेइ २ त्ता वद्धइरयणं सद्दावेइ २ ता एवंवयासी- खिप्पामेव भोदेव० ! मम आवसहं पोसहसालंच करेहि, ममेअमाणत्तिअंपञ्चप्पिणाहि । बृ. 'तए ण' मित्यादि, ततः स भरतो राजा तद्दिव्यं चक्ररत्नं दक्षिणपश्चिमां दिशं प्रति वरदामतीर्थाभिमुखं प्रयातं चापि पश्यति, दृष्टवा च हट्टतुट्ठत्ति आलापकादिपदैकदेशग्रहणात्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org