SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६७ यञ्च पूर्वऋषभदेवनिर्वाण-कल्याणाधिकारेगत्यालापककथनं यावत्पदेन अत्रच तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्तेरिति मन्तव्यं, यत्रैव भरतो राजा तत्रैवोपागच्छति उपागत्य चान्तरिक्षप्रतिपनो-नभोगतोदेवानामभूमिचारित्वात्सकिंकिणीकानि-क्षुद्रघण्टिकाभिसहगतानि पञ्चवर्णानि च वस्त्रणिप्रवरं विधिपूर्वकं यथा स्यात्तथापरिहितः परिहितवान्, यथापञ्चवर्णानि वस्त्राणि परिहितवान् तथा किंकिणीरपीत्यर्थः, किमुक्तं भवति? किंकिणीग्रहणेन तस्य नटादियोग्यवेषधारित्वदर्शनेन भृशं तस्य भरते भक्ति प्रकटिता, अथवा किंकिणीसमुत्थशब्देन सर्वजनसमक्षं सेवकोऽस्मि न तु छन्नमिति ज्ञापनार्थ तत्सहित उपागतः,अथवा सकिंकिणीकानि-बद्धकिंकिणीकानि, तद्वन्धश्च शोभातिशयाओं, करतलपरिगृहीतंदशनखं शिरसावतमस्तकेऽअलिं कृत्वा भरतंराजानंजयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत्, अत्र प्राग्वव्याख्यानमिति । किमवादीदित्याह 'अभिजिए ण'मित्यादि, अभिजितं-आज्ञावशंवदीकृतं देवानुप्रियैः-वन्द्यपादैः केवलकल्पं सम्पूर्णत्वात् विषयवासी-देशवासी अत एवाहं देवानुप्रियानामाज्ञप्तिकिकरः-- आज्ञाकारी सेवकः, अहंदेवानुप्रियाणां पौरस्त्यः-पूर्वदिकसम्बन्धी अन्तं त्वदादेश्यदेशसम्बन्धिनं पालयति-रक्षयतिउपद्रवादिभ्यइत्यन्तपालः पूर्वदिग्देशलोकानांदेवादिकृतसमस्तोपद्र-वनिवारक इत्यर्थः, 'अहन्नं देवाणुप्पिआणं' इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्रन पौनरुक्त्यं, तप्रतीच्छन्तु-गृह्णन्तु देवानुप्रिया ! मम इदम्-अग्रत उपनीतं एतद्रूपं प्रत्यक्षानु-भूयमानस्वरूपं प्रीतिदानं-सन्तोषदानं प्रामृतरूपमित्यर्थः, इतिकृत्वा-विज्ञप्य हारादिकमुपनयतिप्राभृतीकरोतीति, 'तएपमित्यादि, ततःस भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपं प्रीतिदानं तप्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छति-गृह्णाति, प्रतीष्य च मागधतीर्थकुमां देवं सत्कारयति वस्त्रादिना सन्मानयति तदुचितप्रतिपत्या सत्कार्य सन्मान्य च प्रतिविसर्जयतिस्वस्थानगमनायानुमन्यते। ततः स भरतोराजा रथंपरावर्त्तयति-भरतवर्षाभिमुखं करोति, परावर्त्य च मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च-बाह्या उपस्थानशाला तत्रैवोपागच्छतिउपागत्य चतुरगानिगृह्णाति निगृह्य चरथं स्थापयतिस्थापयित्वा च रथात् प्रतयवरोहति प्रत्यवरुह्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुप्रविशति अनुप्रविश्य जावति यावत्करणात् संपूर्ण स्नानालापको वाच्यः ससिव्व पिअदंसणे' इति विशेषणं यावत्, सच प्राग्वत्, नरपतिर्मज्जनगृहात्प्रतिनिष्कामतिप्रतिनिष्कम्य चयत्रैव भोजनमण्डपस्तत्रैवो-पागच्छति उपागत्यच भोजनमण्डपे सुखासनवरगतः सन्नष्टमभक्तं पारयति पारयित्वा च भोजन-मण्डयात्प्रतिनिष्कामतिप्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवोपा- गच्छति उपागत्य च यावसिंहासनवरगतः पूर्वाभिमुखो निषीदति निषद्य च अष्टादश श्रेणिप्रश्रेणीः शब्दयति शब्दयित्वा चैवमवादीदिति, अत्र सूत्रे यावच्छब्दो लिपिप्रमादापतित एव श्यते, संग्राहकपदाभावात्, अन्यत्र तदगमादावदश्यमानत्वाचेति, खिप्पामेवे'ति, सर्वं प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा चाह 'तए ण'मित्यादि, व्यक्तं, ततो मागधतीर्थकुमारदेवविजयाष्टाहिकामहामहिमानन्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy