________________
वक्षस्कारः-३
वैश्रमण इव धनपति अमरपतेः सन्निभया ऋद्धया प्रथितकीत्तिर्गङ्गाया महानद्या दाक्षिणात्यकूले उभयत्र णंशब्दो प्राग्वत् अथवा सप्तम्यर्थे तृतीया ग्रामाकरादीनां - - प्राक्प्रथमारकवर्णने युग्मिवर्णनाधिकारे उक्तस्वरूपाणां सहस्रैर्मण्डितां तदानीं वासबहुलत्वाद्भरतभूमेः स्तिमितमेदीनीकां प्रस्तुतनृपस्य प्रजाप्रियत्वात् स्तिमिता-निर्भयत्वेन स्थिरा मेदिनी - भेदिन्याश्रितजनो यस्यां सा तथा तां, बहुव्रीहिलक्षणः कप्रत्ययः, अत्र मेदिनीशब्देन 'तात्स्थयात्तदव्यपदेश' इति न्यायात्तनिवासी जनो लक्ष्यते, एवंविधां वसुधा अभिजयन् २ - तत्रत्याधिपवशीकरणेन स्ववशे कुर्वन् २ इत्यर्थः, अयाणि वराणि - अत्यन्तमुत्कृष्टानि रत्नानि - तत्तजातिधानवस्तूनि आज्ञावशंवदीकृततत्तद्देशाधिपादिप्राभृतीकृतानि प्रतीच्छन् २- गृण्हन् २ तद्द्द्दिव्यं चक्ररत्नमनुगच्छन्, चक्ररत्नगत्यङ्कितमार्गेण चलन्नित्यर्थः, योजनं-चतुः क्रोशात्मकं तदनन्तरिताभिर्वसतिभिर्विश्रामैर्वसन् २, अयमर्थएकस्माद्विश्रामाद्येोजनं गत्वा परं विश्राममुपादत्ते इति, यत्रैव मागधतीर्थं तत्रैवोपागच्छति, तत्रोपागतः सन् किं चकारेत्याह- 'उवागच्छित्ता' इत्यादि, उपागत्यच मागधतीर्थस्य दूरंच - विप्रकृष्टं सामन्तं च- आसनं दूरसामन्तं ततोऽन्यत्र, नातिदूरे नात्यासन्न इत्याशयः, द्वादशयोजनायामं नवयोजनविस्तीर्ण वरनगरसध्शं विजययुक्तः स्कन्धावारः - सैन्यं तस्य निवेशं -स्थापनां करोति, कृत्वा च वर्द्धकिरलं- सूत्रधारमुख्यं शब्दयति, शब्दयित्वा च एवमवादीदिति, किमवादीदित्याह'खिप्पामेव 'त्ति क्षिप्रमेव भो देवानुप्रिय ! मम कृते आवासं पौषधशालां च, तत्र पौषधंपर्वदिनानुष्ठेयं तप उपवासादि तदर्थं शाला - गृहविशेषः तां कुरु, कृत्वा मम एतामाज्ञप्तिकां प्रत्यर्पयेति । 'तएण 'मित्यादि, स्पष्टं, नवरं 'आवसहं' आवासमिति, अथ भरतः किं चक्रे इत्याह'तएण 'मित्यादि, ततः स भरतो राजा आभिषेक्याद् हस्तिरत्नात् प्रत्यवरोहति, प्रत्यवरुह्य च यत्रैव पौषधशाला तत्रौवोपागच्छति उपागत्य च पौषधशालामनुप्रविशति, अनुप्रविश्य च पौषधशालां प्रमार्जयति, प्रमार्ण्य च दर्भसंस्तारकं संस्तृणाति, संस्तीर्य च दर्ष्मसंस्तारकं दुरूहतिआरोहति, आरुह्य च मागधतीर्थकुमारनाम्नो देवस्य साधनायेति शेषः, अथवा चतुर्थ्यर्थे षष्ठी, तेन मागधतीर्थकुमाराय देवाय, अष्टमभक्तं समयपरिभाषयोपवासत्रयमुच्यते, यद्वा अष्टमभक्तमिति सान्वयं नाम, तच्चैवं एकैकस्मिन् दिने द्विवारभोजनैचित्येन दिनत्रयस्य षण्णां भक्तानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च त्यागेनाष्टमं भक्तं त्याज्यं यत्र तथा, प्रगृह्णाति, अनेनाहारपौषधमुक्तं, प्रगृह्य च पौषधशालायां 'पौषधिकः' पौषधवान्, पौषधंनामेहाभिमतदेवतासाधनार्थकव्रतविशेषोऽभिग्रह इतियावत्, नत्वेकादशव्रतरूपस्तद्वतः सांसारिककार्यचिन्तनानौचित्यात्, नन्वेवमेकादशव्रतिकोचितानि तद्वयो ब्रह्मचर्याद्यनुष्ठानानि सूत्रे कथमुपात्तानि ? ऐहिकार्थसिद्धिरपि संवरानुष्ठानपूर्विकैव भवतीत्युपायोपेयभावदर्शनार्थं, अभयकुमारमन्त्रि श्रीविजयराजधम्मिल्लादीनामिव, अत एव परमजागरूकपुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिषितसुरसाधनसिद्धिनिश्चयं जानाना जिनचक्रिणोऽतिसातोदयिनः कष्टानुष्टानेऽष्टमादी नोपतिष्ठन्ते, किन्तु मागधतीर्थाधिपादि सुरः प्रभुणा हदि चिन्तितः सन् गृहीतप्राभृतकः सहसैव सेवार्थमभ्युपैति यदाहु:- श्रीहेमचन्द्रसूरिपादाः श्रीशान्तिनाथचरित्रे
119 11
"ततो मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्धविकारो न्यषदत् प्रभुः ॥
For Private & Personal Use Only
Jain Education International
१९५
:
www.jainelibrary.org