________________
१९४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६१ कृ.तएणंसे' इत्यादि, ततस्तद्दिव्यंचक्ररलं अष्टाहिकायांमहामहिमायांनिर्वृतायां जातायां सत्यांआयुधगृहशालातः प्रतिनिष्कामति, प्रतिनिष्कम्य च अन्तरिक्षंप्रतिपन्नं-नभःप्राप्त, यक्षसहमसंपरिवृतं-चक्रधरचतुर्दशरत्नानांप्रत्येकं देवसहस्राधिष्ठितत्वात्, दिव्यत्रुटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतलं-शब्दाद्वैतं नमः कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यंमध्येनमध्यभागेनेत्यर्थः निर्गच्छति, निर्गत्य च गङ्गानाम्न्या महानद्यादाक्षिणात्ये कूले उभयत्र णंशब्दो वाक्यालंकारे समुद्रपार्श्ववर्तिनि तटे इत्यर्थः, अयं भावः--विनीतासमश्रेणौ हि प्राच्या वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति, इदमपि मागधतीर्थसिसाधयिषया पूर्वी दिशं यियासुः अनुनदीतटमेव गच्छति, तच्च तटं दक्षिणदिग्वर्तित्वेन दाक्षिणात्यमिति व्यवहियते, अत एव दाक्षिणात्येन कूलेन पूर्व दिशं मागधतीर्थाभिमुखं प्रयातं-चलितं चाप्यभवत्, एतच्च प्रयाणप्रथमदिनेयावत् क्षेत्रमतिक्रम्यस्थितंतावद्योजनमितिव्यवहयते, तच्च प्रमाणाङ्गुलनिष्पन्नतया भरतचक्रिणः स्कन्धावारः स्वशक्त्यैव निर्वहति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः, ___'तएणमित्यादि, उक्तार्थप्रायं, किमवादीदित्याह-खिप्पामेव'तिक्षिप्रमेवभोदेवानुप्रिया आभिषेक्यं-अभिषेकयोग्यं हस्तिरलंपट्टहस्तिनमिति भावःप्रतिकल्पयत-सजीकुरुत, हयगजरथप्रवरयोधकलितां चतुरङ्गिनी, अत्र चतुःशब्दस्याऽऽत्वं प्राकृतसूत्रेण, उक्तैरेवाश्चतुःप्रकारां सेनां सन्नाहयत-सत्रद्धां कुरुत, शेषं प्राग्वत्, 'तए णमित्यादि, अत्र यावतशब्दात् 'पुरिसा भरहेणंरन्ना एवंदुत्तासमाणा हट्टतुट्ठचित्तमानंदिआ' इति ग्राह्य, इदं चाभ्युपगमसूत्रमिश्रमाज्ञाकरणसूत्र स्पष्टमिति, अथ भरतो दिग्यात्रायियासयायविधिमकार्षीत्तमाह-'तएणमित्यादि, स्नानसूत्रं पूर्ववत्, 'हये त्यादि, हयगजरथाः प्रवराणि वानानि-वेसरादीनि भटा-योद्धारस्तेषां चडगरपहकरत्ति-विस्तारवृन्दं, इदं च देशीशब्दद्वयं, तेन संकुलया-व्याप्तया सेनया सामिति शेषः, प्रथितकीर्तिर्भरतोयत्रैव बाह्योपस्थानशाला यत्रैव चाभिषेक्यं हस्तिरलं तत्रैवोपागच्छति उपागत्य चअञ्जनगिरेः कटको-नितम्बभागस्तत्सन्निभमेतावप्रमाणमुच्चत्वेनेत्यर्थः गजपति-राजकुअरंनरपतिर्दुरुढेइति-आरूढइति।आरूढश्चकीशयाऋद्धयाचक्ररलोपदर्शितंस्थानंयातितदाह
'तएण'मित्यादि, ततः स भरताधिपो-भरतक्षेत्रपति सच भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावादृषभसूनुः चक्री इत्यर्थः, एतेनास्यैवालापकस्योत्तरसूत्रे नरिदेत्तिपदेन न पौनरुक्त्यमिति, 'हारोत्थये त्यादि विशेषणत्रयं प्राग्वत, नरसिंहः सूरत्वात्, नरपति स्वामित्वात्, नरेन्द्रः परमैश्वर्ययोगात्, नरवृषभः स्वीकृतकृत्यभरनिर्वाहकत्वात्, 'मरुद्राजवृषभकल्पो मरुतो-देवाव्यन्तरादयस्तेषां राजानः सन्निहितादय इन्द्रास्तेषांमध्ये वृषभा-मुख्याः सौधर्मेन्द्रादयस्तत्कल्पः-तत्सध्श इत्यर्थः,अभ्यधिकराजतेजोलक्ष्मयादीप्यमानइति स्पष्टं, प्रशस्तैमङ्गलशतैः-मङ्गलसूचकवचनैः कृत्वास्तूयमानो बन्दिभिरिति शेषः, जयसद्दकयालोए इतिप्राग्वत्, हस्तिस्कन्धवरंगतः-प्राप्तः, केन सहेत्याह-'सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन सह, कोऽर्थः?
यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा छत्रधरणस्यासक्तत्वात्, एवं श्वेतवरचामरैरुद्धूयमानैः-वीज्यमानैःसह इति, तेन गयवई नरवई दुरुढे इति पूर्वसूत्रेण सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां-देवविशेषाणा सहनाभ्यांसपरिवृतः, चक्रवर्तिशरीरस्य व्यन्तरदेवसहस्राद्वयाधिष्ठितत्वात्, वेसपणेचेवधनवई ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org