SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-३ १८७ -- कटिसूत्रेण-कट्याभरणेन सुष्टु कृता शोभा यस्य स तथा, अत्र पदत्रयस्य कर्मधारयः अथवा कल्पितहारादिभि सुकृता शोभायस्य स तथा, पिनद्धानि-बद्धानि ग्रैवेयकाणि-कण्टाभरणानि अङ्गलीयकानि-अङ्गल्याभरणानि येन स तथा, अनेनाभरणालङ्कार उक्तः, तथा ललितेसुकुमालेऽङ्गके-मू दौललितानि-शोभावन्ति कचानां-केशानाआभरणानि-पुष्पादीनि यस्य स तथा, अनेन केशालङ्कार उक्तः, अथ सिंहावलोकनन्यायेन पुनरप्याभरणालङ्कारं वर्णयन्नाह नानामणीनांकटकत्रुटिकैः--हस्तबाह्वाभरणविशेषैर्बहुत्वात्स्तम्भिताविवस्तम्भिती भूजौ यस्य स तथा, अधिकसश्रीक इति स्पष्टं, कुण्डलाभ्यामुदद्योतितं आननं-मुखं यस्य स तथा मुकुटदीप्तशिरस्कः स्पष्टं, हारेणावस्तृत-आच्छादितं तेनैव हेतुना प्रेक्षकजनानां सुकृतरतिकं वक्षो यस्य सतथा, प्रलम्बेन-दीर्घेण प्रलम्बमानेन-दोलायमानेनसुकृतेन-सुष्टु निर्मितेन पटेनवस्त्रण उत्तरीयं-उत्तरासङ्गो यस्य स तथा, प्राकृतत्वात् पूर्वपदस्य दीर्घत्वं, मुद्रिकाभि-साक्षराङ्गुलीयकैः पिङ्गला अङ्गुल्यो यस्य स तथा, बहुव्रीहिलक्षणः कः प्रत्ययः, नानामणिमयं विमलं महाधु-बहुमूल्यं निपुणेन शिल्पिना 'ओअवित्ति परिकर्मितं 'मिसिमिसेंत'त्ति दीप्यमानं विरचितं--निर्मितं सुश्लिष्टं-सुसन्धि विशिष्टं अन्येभ्यो विशेषवत्लष्टं-मनोहरं संस्थितं-संस्थानं यस्य तत्, पश्चात् पूर्वपदैः कर्मधारयः, एवंविधं प्रशस्तं आविद्ध-परिहितं वीरवलयं येन स तथा, अन्योऽपियः (दि)कश्चिद्वीरव्रतधारी तदाऽसौ मांविजित्यमोचयत्वेतद्वलयमिति स्पर्द्धयन्(यत)परिदधाति तद्वीरवलयमित्युच्यते, किंबहुना? वतिनेति शेषः, 'कप्परुक्खए वेवत्तिअवचेवशब्द इवार्थे तेन कल्पवृक्षकइवालङ्क तो विभूषितश्च, तत्रालङ्क तो दलादिभिर्विभूषितः फलपुष्पादिभि कल्पवृक्षो राजा तु मुकुटादिभिरलङ्क तो विभूषितस्तु वस्त्रदिभिरिति, नरेन्द्रः 'सकोरंट जाव'त्ति अत्र यावत्करणात् 'सकोरंटमल्लदामेणं छत्तेणंधरिजमाणेण'मिति ग्राह्यं, तत्र सकोरण्टानि-कोरण्टाभिधानकुसुमस्तबकवन्ति, कोरण्ट-पुष्पाणि हिपीतवर्णानिमालान्तेशोभार्थदीयन्ते, मालायै हितानिमाल्यानिपुष्पाणीत्यर्थः, तेषांदामानि-माला यत्रतत्तथा, एवंविधेनछत्रेण ध्रियमाणेन शिरसि, विराजमान इति गम्यं, चतुर्णां-अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानत्वाच्चतुःशङख्याङ्कानांचामराणांवालींजितमझ्यस्येति, मङ्गलभूतो जयशब्दोजनेन कृतआलोके-दर्शनेयस्य स तथा, अनेके गणनायकामल्लादिगणमुख्याः दण्डनायकाः-तन्त्रपालाः यावत्पदात् 'ईसरतलवरमाडंबिअकोडुबिअमंतिमहामंतिगणगदोवारिअमच्चचेडपीढमद्दणगरणिगमसेविसेणावइसत्यवाह' इति द्रष्टव्यं । अत्र व्याख्या-तत्र राजानो-माण्डलिकाः ईश्वरा-युवराजानोमतान्तरेण आणमाद्यैश्वर्ययुक्ताः तलवराः-परितुष्टनृपदत्तपट्टवन्धविभूषिताराजस्थानीयाः माडम्बिकाः- छिन्नमडम्बाधिपाः कौटुम्बिकाः-कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका-गणितज्ञा भाण्डागारिका वादौवारिकाः-प्रतीहाराःअमात्या-राज्याधिष्ठायकाः चेटा:-पादमूलिका दासा वापीठमी-आस्थाने आसन्नासन्नसेवकाः वयस्या इत्यर्थः वेश्याचार्या वानगरं-तास्थ्यात्तद्व्यपदेशेन नगरनिवासिप्रकृतयःनिगमाः-कारणिका वणिजो वा श्रेष्ठिन:श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः अथवा नगराणां निगमानांच-वणिग्वासानां श्रेष्ठिनो-- महत्तराः सेनापतयः-चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः दूता अन्येषां राज्यं गत्वा Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy