SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५६ राजादेशनिवेदकाः सन्धिपालाःराज्यसन्धिरक्षकाः, एषांद्वन्द्वस्ततस्तैः, अत्रतृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सहन केवलं तत्सहितत्वमेव अपित तैः समिति समन्तात परिवतः-परिकरित इति, नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति सम्बन्धः, किम्भूतः? प्रियदर्शनः, क इव । - धवलमहामेघः-शरन्मेघस्तस्मानिर्गत इव, अत्र यावत्पदात् 'गहगणदिपंतरिक्ततारागणाण मज्झे' इति संग्रहः, तेन शशिपदाग्रस्थ इवशब्दो ग्रहगणेति विशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिहाय-यथा चन्द्रः शरदभ्रपटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणां-शोभमाननक्षत्राणांतारागणस्य चमध्ये वर्तमान इव प्रियदर्शनोभवति तथा भरतोऽपि सुधाधवलान्मजनगृहान्निर्गतोऽनेकगणनायकादिपरिवारमध्ये वर्तमानःप्रियदर्शनोऽभवत्, पुनः कीद्दशो नृपति प्रतिनिष्कामतीत्याह-धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य सतथा, तत्रधूपोदशाङ्गादि पुष्पाणि-प्रकीर्णककुसुमानिगन्धा-वासाः माल्यानि-ग्रथितपुष्पाणीति, प्रतिनिष्कम्य च किंकृतवानित्याह- 'जेणेव'इत्यादि, यौवायुधगृहशाला यत्रैवच चक्ररलं तत्रैव प्रधारितवान् गमनाय गन्तुं प्रावर्तत इत्यर्थः । अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथा- 5ऽह-'तए णमित्यादि, ततोभरतागमनादनुतस्य भरतस्य राज्ञोबहव ईश्वरप्रभृतयःयावत्पदसंग्राह्यास्तलवरप्रभृतयः पूर्ववत् अपिढिार्थे एके केचन पद्महस्तगताः एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानि वाच्यानि, यावत्पदात् 'अप्पेगइआ कुमुअहत्थगयाअप्पेगइया नलिणहत्थगयाअप्पेगइया सोगन्धिअहत्थगयाअप्पेगइयापुंडरीयहत्थगया अप्पेगइआसहस्सपत्तहत्थगया' इति संग्रहः, अत्रव्याख्या प्राग्वत्, नवरं भरतंराजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठे २ परिपाट्याचलन्तीत्यर्थः, सर्वेषामपि सामन्तानामेकैववैनयिकी गतिरिति ख्यापनार्थं वीप्सायां द्विवचनं, न केवलं सामन्तनृपा एव भरतमनुजग्मुः, किन्तु किङ्करीजनोऽपीत्याह 'तएणमित्यादि, ततः सामन्तनृपानुगमनानन्तरंतस्य भरतस्य राज्ञः सम्बन्धिन्यो बह्वयो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः, कास्ता इत्याहमू. (५७) खुजा चिलाइ वामणिवडबीओ बब्बरी बउसिआओ। जोणिअपल्हविआओ ईसिणिअथारुकिणिआओ। वृ.कुब्जाः कुब्जिका वनजङ्घाइत्यर्थः चिलात्यः-चिलातदेशोत्पन्नाः वामनिका--अत्यन्त हस्वदेहा हस्वोन्नतहदयकोष्ठा वा वडभिका-महडकोष्ठा वक्राधःकाया वा इत्यर्थः बर्यो बर्बरदेशोत्पन्नाः बकुशिकाः-बकुशदेशजाः जोनिक्यो-जोनकनामकदेशजाः पल्हविकाः-पल्हवदेशजाः ईसेणिआ थारुकिणिआओत्ति देशद्वयभवाः ईसिनिकाः थारुकिनिकाः । मू. (५८) लासिअलससिअदमिलीसिंहलि तह आरबीपुलिंदी अ। पकंणि बहलि मुरुंडी सबरीओ पारसीओ अ॥ वृ. लासिक्यो-लासकदेशजाः लकुशिक्यो-लकुशदेशजाः द्रविडयो-द्रविडदेशजाः सिंहल्यः-सिंहलदेशजाः आरब्यः-आरबदेशजा पुलिन्धः-पुलिन्द्रदेशजाः पक्वण्यः-पक्वणदेशजाः बहल्यो-बहलिदेशजाः मुरुण्डयो-मुरुंडदेशजाः शबर्यः-शबरदेशजाः पारसीकाःपारसदेशजाः, अत्र चिलात्याहयोऽष्टादश पूर्वोक्तरीत्या तत्तदेशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy