________________
वक्षस्कारः - ३
त्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात् तथा नरेन्द्रो - भरतः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय च पादपीठात् - पदासनात् प्रत्यवरोहति - अवतरति प्रत्यवरुह्य च - अवतीर्य पादुकेपादत्राणे अवमुञ्जति भक्त्यतिशयात् अवमुच्य च एकः शाटो यत्र स तथा तद्धितलक्षण इक प्रत्ययः अखण्डशाटकमय इत्यर्थः एताद्दशमुत्तरासङ्गो - वक्षसि तिर्यग्विस्तारितवस्त्रविशेषस्तं सप्त वा अष्टौ वा पदानि । अनूपसर्गस्य सन्निधिवाचकत्वादनुगच्छसि - आसन्नो भवति, दृष्टञ्चानुशब्दप्रयोगः सन्निधौ, यथा 'अनुनदि शुश्रुविरे चिरं रुतानि' इति, पदानां सङ्ख्याविकल्पदर्शनमेताशभाषाव्यवहारस्य लोके श्यमानत्वात्, अनुगत्य च वामं जानुं आकुञ्चयति - ऊर्ध्व करोतीत्यर्थः, दक्षिणं जानुं धरणीतले निहत्य - निवेश्य 'करतले 'त्यादि विशेषणजातं प्राग्वत् अञ्जलिं कृत्वा चक्ररलस्य प्रमाणं करोति, कृत्वा च तस्यायुधगृहिकस्य 'यथामालितं यथाधारितं यथापरिहितमित्यर्थः, इदंच विशेषणं दानरसातिशयाद्दानं निर्विलम्बेन देयमिति ख्यापनार्थं, यदाह119 11 “सव्वपाणिगतमप्यपसव्यप्रापणावधि न देयविलम्बः ।
न ध्रुवत्वनियमः किल लक्ष्मयास्तद्विलम्बनविधौ न विवेकः ॥ अविलम्बितदानगुणात् समुज्ज्वलं मानवो यशो लभते । प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥
अवमुच्यते- परिधीयते यस्सोऽवमोचक:- आभरणं, मुकुटवर्जं - मुकुटमन्तरेणेत्यर्थः, अत्र 'उतोऽन्मुकुलादिष्वि' त्युकारस्याकराः तस्य राजचिन्हालङ्कारत्वेनादेयत्वात्, न कार्पण्यादिना न ददातीति एतेनान्यमनुष्याणां मौलिवेष्यनस्य राजचिन्हत्वमभ्युपगच्छन्तो ये केचन जिनगृहाद्यभिगमविधी मौलिवेष्टनमपाकुर्वन्ति ते अशुभदर्शनत्वादपशकुनमितीवाभ्युपगच्छता आगमोक्तविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति बोध्यं दत्वा चान्यत् किं करोतीत्याह - विपुलं जीवितार्ह - आजीविकायोग्यं प्रीतिदानं ददाति, सत्कारयति वस्त्रदिना सन्मानयति वचनबहुमाने, सत्कृत्य सन्मान्यच प्रतिविसर्जयति-स्वस्थानगमनतो ज्ञापयति, प्रतिविसर्ज्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः - उपविष्ट इति । अथ भरतो यत्कृतवान् तदाह- 'तएण 'मित्यादि, निगदसिद्धं,
किमवादीदित्याह - 'खिप्पामेव त्ति, क्षिप्रमेव भो देवानुप्रिया ! विनीतां राजधानीं सहाभ्यन्तरेण-नगरमध्यभागेन बाहिरिका- नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं, आसिक्ता-ईषत्सिक्ता गन्धोदकच्छटकदानात् सम्मार्जिता - कचवरशोधनात् सिक्ता जलेनात एव शुचिका संसृष्टा - विषमभूमिभञ्जनाद् रथ्या-राजमार्गोऽन्तरवीथी च- अवान्तरमार्गे यस्यां सा तथा, इदं च विशेषणं योजनाया विचित्रत्वात् सम्मृष्टसम्मार्जित- सिक्तासिक्त शुचिकरध्यान्तरवीथिकामित्येवं दृश्यं सम्मृष्टाद्यनन्तरभावित्वाच्छुचिकत्वस्य, मंचा - मालकाः प्रक्षेणकद्रष्टजनोपवेशननिमित्तं अतिमञ्चाः तेषामप्यरि ये तैः कलिता ता नानाविधो रागो-रञ्जनं येषु तानि कौसुम्भमाञ्जिष्टादिरूपाणि वसनानि - वस्त्राणि येषु ताध्शा ये ऊर्ध्वकृता- उच्छ्रिता ध्वजाः - सिंहगरुडादिरूपकोपलक्षिता बृहत्पट्टरूपाः पताकाश्च तदितररूपा अतिपताकाःतदुपरिवर्त्तिन्यस्ताभिर्मण्डितां, अत्र च 'लाउल्लोइय' इत्यादिको 'गंधवट्टिभुअ' मित्य- न्तो विनीतासमारचनवर्णकः प्रागभियोग्यदेवभवनवर्णके व्याख्यात इति न व्याख्यायते, ईध्शविशेषणविशिष्टा कुरुत स्वयं कारयत परैः कृत्वा कारयित्वा च एतामाज्ञप्तिं - आज्ञां प्रत्यर्पयत, ततस्ते किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
१८५
॥२॥