________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३ / ५६
वृ. 'तएण 'मित्यादि, ततो माण्डलिकत्वप्राप्तेरनन्तरं तस्य भरस्य राज्ञोऽन्यदा कदाचित् माण्डलिकत्वं भुञ्जानस्य वर्षसहस्र गते इत्यर्थः, आयुधगृहशालायां दिव्यं चक्ररलं सुदपद्यत, 'तए णं से' इत्यादि, ततः - चक्ररत्नोत्पत्तेरन्तरं सः - आयुधगृहिको यो भरतेन राज्ञा आयुधाध्यक्षः कृतोऽस्तीति गम्यं भरतस्य राज्ञः आयुधगृहशालायां दिव्यं चक्ररलं समुत्पन्नं पश्यति, स्ट्वा च हृष्टतुष्टं - अत्यर्थं तुष्टं हृष्टं वा - अहो मया इदमपूर्वं दृष्टमिति विस्मितं तुष्टं--सुष्ठु जातं यन्मयैव प्रतममिदमपूर्व टं यनिवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापन्नं चितं यत्र तद् यथा भवति तथा आनन्दितः - प्रमोदं प्राप्तः यद्वा हृष्टतृष्टः - अतीव तुष्टः तथा चित्तेन आनन्दितः मकार - प्राकृतत्वात् अलाक्षणिकः ततः कर्मधारयः नन्दितो - मुखसोमतादिभावैः समृद्धिमुपागतः प्रीति - प्रीणनं मनसि यस्य स तथा चक्ररत्ने बहुमानपरायण इत्यर्थः परमं सौमनस्यं - सौमनस्कत्वं जातमस्येति परमसौमनस्थितः, एतदेव दुष्टानि, यतः वक्ता हर्षे 'ति ।
॥१॥
१८४
वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवन् तथा निन्दन् ।
यत् पदमसकृत ब्रूयात् तत् पुनरुक्तं न दोषाय ॥
यत्रैव तद्दिव्यं चक्ररलं तत्रैवोपागच्छति, उपागत्य च त्रिकृत्वः -- त्रीन् वारान् आदक्षिणप्रदक्षिण-दक्षिणहस्तादारभ्य प्रदक्षिणं करोति, त्रिप्रदक्षिणयतीत्यर्थः, तथा कृत्वा च 'करतल' त्ति अत्र यावत्पदात् 'करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं 'ति ।
अत्र व्याख्या करतलाभ्यां परिगृहीतः - आत्तस्तं दश करद्वयसम्बन्धिनो नखाः समुदिता यत्र तं शिरसि - मस्तके आवर्त्तीः- आवर्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं शिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं - मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररत्नस्य प्रनामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामति- निर्याति, प्रतिनिष्क्रम्य च यत्रैव बाहिरिका - आभ्यन्तरिकापेक्षया बाह्या उपस्थानशाला - आस्थानमण्डपो यत्रैव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च 'करतल जाव' त्ति पूर्ववत् जयेन - परानभिभवनीयत्वरूपेण विजयेन परेषामसहमानानामभिभावकत्वरूपेण वर्द्धयति - जयविजयाभ्यां त्वं वर्द्धयस्येत्याशिषं प्रयुङ्क्ते वर्द्धयित्वा चैवमवादीत्, किं यदित्याह - 'एवं खलु' इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्यवादिना यदन्यथा भवति, यद्देवा- नुप्रियाणां - राजपादानां आयुधगृहशालायां दिव्यं चक्ररलं समुत्पन्नं तदेव तत् णमिति प्रागवत् देवानुप्रियाणां प्रियार्थतायै प्रीत्यर्थं प्रियं इष्टं निवेदयामः 'एतत्' प्रियनिवेदनं प्रियं 'मे' भवतां भवतु, ततो भरतः किं चक्रे इत्याह- 'तते न' मित्यादि, ततः स भरतो राजा तस्यायुधगृहिकस्य समीपे एनमर्थं श्रुत्वा - आकर्ण्य कर्णाभ्यां निशम्य अवधार्य हृदयेन तुष्थे यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाद्ये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाहविकसितकमल-वन्त्रयनवदने यस्य स तथा प्रचलितानिचक्ररत्नोत्पत्तिश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वरकटके - प्रधानवलये त्रुटिके बाहरक्षकी केयूरे-बाह्वोरेव भूषणविशेषी मुकुटं कुण्डले च यस्य स तथा, सिंहावलोकनन्यायेन प्रचलित शब्दो ग्राह्यः तेन प्रचलितहारेण विराजद्रतिदं च वक्षो यस्य स तथा पश्चात् तदद्वयस्य कर्मधारयः, प्रलम्बमानः सम्प्रमादेव प्रालम्बोझुम्बनकं यस्य स तथा, घोलद्-दोलायमानं भूषणं-उक्तातिरिक्तं धरति यः स तथा ।
+
ततः पदद्वयस्य कर्मधारयः अत्र पदविपर्य आर्षत्वात्, ससम्भ्रमं - सादरं त्वरितं -मानसौ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International