________________
वक्षस्कारः-२
१७१
गुच्छगुम्मलयवल्लितणपव्वगयगहरिअओसहिए, उवचियतयपत्तपवालंकुरपुप्फफलसमुइए सुहोवभोगे आवि भविस्सइ।
वृ. 'तेण'मित्यादि, तस्मिन् काले-उत्सर्पिण्या द्वितीयारकलक्षणे तस्मिन् समये-तस्यैव प्रथमसमये, पुष्कलं-सर्वं अशुभानुभावरूपं भरतभूरौक्ष्यदाहादिकंप्रशस्तस्वोदकेन संवर्त्तयतिनाशयतीति पुष्कलसंवर्तकः स च पर्जन्यप्रभृतिमेघवयापेक्षया महान् मेघो-दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महामेघः प्रादुर्भविष्यति-प्रकटीभविष्यति, भरतक्षेत्रप्रमाणेन साधिकैकसप्ततिचतुः शताधिकचतुर्दशयोजन सहस्ररूपेण मात्रा-प्रमाणं यस्य स तथा, केन?-आयामेन-दीर्घभावेन, अयं भावः-पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् तस्य वार्दलकं व्याप्तं भविष्यतीत्यर्थः, तदनुरूपश्च-भरतक्षेत्रस्यानुरूपः-सदृशः, सूत्रेच लिङ्गव्यत्ययः प्राकृतत्वात्, क्रियाविशेषणं वा,-विष्कम्भबाहल्येन, अत्र समाहारद्वन्द्ववशादेकवद्भावः, कोऽर्थः?
यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पञ्चशतयोजनानि षड्विंशतिर्योजनानि षट् च कला योजनेकविंशतिभागपाः तदतिरिक्तस्थानेतुअनियततया तथाऽस्यापि विष्कम्भः, बाहल्यं तुयावताजलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमार्दीकृत्यतापः उपशाम्यतेतावज्जलदलनिष्पन्नमेव ग्राह्यमिति, अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह-'तएण'मित्यादि, ततश्च स-पुष्कलसंवर्तकमेघः क्षिप्रमेव-उन्नमनकाल एव पतणतणाइस्सई ति अनुकरणवचनमेतत् प्रकर्षण स्तनितं करिष्यति, गर्जिष्यतीत्यथः, तथा च कृत्वा क्षिप्रमेव युगं-रथावयवविशेषः मुसल-प्रतीतं मुष्टिः-पिण्डिताङ्गुलिकः पाणि एषांयप्रमाणमायामबाहल्यादिभिस्तेन मात्रा यासांताभिः, इयता प्रमाणेन दीर्घाभि-स्थूलाभिरित्यर्थः धाराभि ओधेन-सामान्येन सर्वत्र निर्विशेषेण मेघो यत्र तं तथाविधं सप्तरात्रं-सप्ताहोरात्रान् वर्षं वर्षिष्यति करिष्यतीत्यरर्थः।
'जेण'मिति पूर्ववत् भरतस्य वर्षस्य-क्षेत्रस्य भूमिभार्ग अङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तमज्योतिर्भूतं वाक्यान्तरप्रारम्भार्थ, पुष्कलसंवर्त्तके महामेघेसप्तरात्रंयावन्निपतिते सति-निर्भर वृष्टे सति अत्रान्तरे क्षीरमेघो नामतो महामेघःप्रादुर्भविष्यति, शेषं भरते'त्यादि प्राग्वत्, अथ स प्रादुर्भवन् किं करिष्यतीत्याह– 'तए ण'मित्यादि, अत्र वासिस्सइत्ति पर्यन्तं प्राग्वत्, यो मेघो भरतस्य भूम्या वर्ण गन्धं रसं स्पर्श च जनयिष्यति, अत्र वर्णादयः शुभा एव ग्राह्याः, येभ्यो लोकोऽनुकूलं वेदयते, अशुभ-वर्णादयः प्राक्कालानुभावजनिता वर्तन्तएवेति,ननुयदिशुभवर्मादीन् जनयति तदातरुपत्रादिषुनीलो वर्णो जम्बुफलादिषुकृष्णः मरिचादिषुकटुको रसः कारवेल्लादिषु तिक्तः चणकादिषु रूक्षः स्पर्श सुवर्णादिषु गुरु क्रकचादिषु खरः इत्यादयोऽशुभवर्णादयः कथं सम्भवेयुरिति ? उच्यते, अशुभपरिनामा अप्येतेऽनुकूलवेद्यया शुभा एव, यथा मरिचादिगतः कटुकरसादि प्रतिकूलवेद्यतया शुभोऽप्यशुभ एव, यथा कुष्ठादिगतः श्वेतवर्णादिरिति, अथ तृतीयमेधवक्त-व्यतामाह___तंसि'इत्यादि, तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरे घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्वप्राग्वत्, अथ सप्रादुर्भूतः किं करिष्यतीत्याह-'तए णमित्यादि, सर्वं प्राग्वत्, नवरं यो घृतमेघो भरतभूमेः स्नेहभावं-स्निग्धतां जनयिष्यतीति,
अथ चतुर्थमेघवक्तव्यतामाह-तंसि'इत्यादि, तस्मिंश्च घृतमेघे सप्तरात्रं निपतिते सति अत्रJain Education International
For Private & Personal Use Only
www.jainelibrary.org