SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/५१ -प्रस्तावेऽमृतमेधो यथार्थनामा महामेघः प्रादुर्भविष्यति यावद्वर्षिष्यति इति पर्यन्तं पूर्ववत्, यो मेघोभरतेवर्षेवृक्षागुच्छा गुल्मालता वल्लयः तृणानिप्रतीतानि पर्वगा-इक्ष्वादयः हरितानि-दूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः-पल्लवाः अड्डराः-शाल्यादिबीजसूचयः इत्यादीन् तृणवनस्पतिकायिकान्-बादरवनस्पतिकायिकान् जनयिष्यतीति। अथ पञ्चममेघस्वरूपवक्तव्यतामाह-तंसि च ण मित्यादि, व्यक्तं, परं रसजनको मेघो रसमेघः, यो रसमेघस्तेषाममृतमेघोत्पन्नानांबहूनांवृक्षाद्यगुरान्तानांवनस्पतीनां तिक्तोनिम्बादिगतः कटुकोमरिचादिगतः कषायो बिभीतकामलकादिगतः अम्बोऽम्लिकाद्याश्रितः मधुरः शक्कराधाश्रितः, एतान् पञ्चविधान् सविशेषान्जनयिष्यति, लवणरसस्य मधुरादिसंसर्गजत्वाद् तदभेदेन विवक्षणात्, सम्भाव्यतेच तत्र माधुर्यादिसंसर्ग सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन न पृथग्निर्देशः, एषा च पञ्चानां मेघानां क्रमेणेदं प्रयोजनं सूत्र उक्तमपि स्पष्टीकरणाय पुनर्लिख्यते-आद्यस्य भरतभूमेर्दाहोपशमः द्वितीयस्य तस्याएव सुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वं नचात्र क्षीरमेघेनैव शुभवर्णगन्धरसस्पर्शसम्पत्ती भूमिस्निग्धतासम्पत्तिरिति वाच्यं, स्निग्धताधिक्यसम्पादकत्वात् तस्य, नहि याद्दशी घृते स्निग्धता तादृशी क्षीरे दृश्यत इत्यनुभव एवात्रसाक्षी, चतुर्थस्य तस्यांवनस्पतिजनकत्वं, पञ्चमस्य वनस्पतिषुस्वस्वयोग्यरसविशेषजनकत्वं, यद्यप्यमृतमेघतो वनस्पतिसम्भवे वर्णादिसम्पत्तौ तत्सहचारित्वात् रसस्यापि सम्पत्तिस्तस्मादेव युक्तिमती तथापि स्वस्वयोग्यरसविशेषान् सम्पादयितुं रसमेघ एव प्रभुरिति, तदा च याशं भरतं भावि तथा चाह 'तएणं भरहे वासे' इत्यादि, ततः उक्तस्वरूपपञ्चमेघवर्षणानन्तरंणमिति पूर्ववत् भारतं वर्ष भविष्यति, कीशमित्याह-प्ररूढा-उद्गता वृक्षा गुच्छा गुल्मा लता वल्लयस्तृणानि पर्वजा हरितानि औषधयश्च यत्र तत्तथा, अत्र समासे कप्रत्ययः, एतेन वनस्पतिसत्ताऽभिहिता, उपचितानि-पुष्टिमुपगतानि त्वक्पत्रप्रवालपल्लवांकुरपुष्पफलानिसमुदितानि-सम्यकप्रकारेण उदयं प्राप्तानि यत्रतत्तथाक्तान्तस्यपरनिपातःप्राकृतत्वात्, एतेन वनस्पतिषुपुष्पफलानां रीतिर्दर्शिता, अत एव सुखोपभोग्यं सुखेनासेवनीयं भविष्यति, अत्र वाक्यान्तरयोजनार्थमुपात्तस्य भविष्यतिपदस्य न पीनरुक्त्यं । अथ तत्कालीना मनुजास्ताशं भरतं दृष्टा यत् करष्यति तदाह मू. (५२) तए णं ते मणुआ भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयहरिअओसहीयं उवचिअतयपत्तपवालपल्लवंकुरपुप्फफलसमुइअंसुहोवभोगंजायं २ चावि पासिहिति पासित्ता बिलेहितो निद्धाइस्संति निद्धाइत्ता हट्टतुट्ठाअन्नमन्नंसहाविस्संति र त्ता एवं वदिस्संतिजातेणं देवाणुप्पिआ! भरहे वासे पढरुक्खगुच्छगुम्मलयवल्लितणपव्वयहरिअजाव सुहोवभोगे, तंजेणं देवाणुप्पिआ ! अम्हं केइ अज्जप्पमिइ असुभंकुणिमं आहारं आहारिस्सइ से णं अनेगाहिं छायाहिं वज्जणिज्जेत्तिक? संठिइं ठवेस्संतिर ताभरहे वासे सुहंसुहेणंअमिरममाणा २ विहरिस्संति। वृ. 'तए णमित्यादि, ततस्ते मनुजा भरतवर्षं यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति, दृष्टा बिलेभ्यो निर्धाविष्यन्ति-निर्गमिष्यन्ति, निर्धाव्य हष्टा-आनन्दितास्तुष्टाः-सन्तोषमुपगताः पश्चात् कर्मधारयःअन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ तेकिं वदिष्यन्तीत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy