________________
१६८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/४९
स्खलन्ती विह्वला च वा-अर्दवितर्दा गतिर्येषां ते तथा, निरुत्साहाः सत्वपरिवर्जिताः विकृतचेष्टा नष्टतेजसः स्पष्टानि, अभीक्ष्णं शीतोष्णखरपरुषवातैर्विज्झडिअं-मिश्रितं व्याप्तमित्यर्थः, मलिनं पांसुरूपेण रजसा न तु पौष्परजसाऽवगुण्ठितानि - उद्धूलितान्यङ्गानि - अवयवा तस्य एताद्दशमङ्ग येषां ते तथा, बहुक्रोधमानमायालोभाः बहुमोहाः न विद्यते शुभं - अनुकूलवेद्यं कर्म येषां ते तथा, अत एव दुःखभागिनः, ततः कर्मधारयः, अथवा दुःखानुबन्धिदुःखभागिनः ।
'ओसण्णं' ति बाहुल्येन धर्मसंज्ञा-धर्मश्रद्धा सम्यक्त्वं च ताभ्यां परिभ्रष्टाः, बाहुल्यग्रहणेन यथा सम्यष्टित्वमेषां कदाचित् सम्भवति तथाऽधस्तनग्रन्थे व्याख्यातं, उत्कर्षेण रत्नेः - हस्तस्य यच्चतुर्विंशत्यङ्गुलक्षणं प्रमाणं तेन मात्रा - परिमाणं येषां ते तथा, इह कदाचित्षोडश वर्षाणि कदाचिच्च विंशतिर्वर्षाणि परममायुर्येषां ते तथा, श्रीविरचरित्रे तु ' षोडश स्त्रीणां वर्षाणि विंशति पुंसां परमायु' रिति, बहूनां पुत्राणां नप्तॄणां - पौत्राणां यः परिवारस्तस्य प्रणयः - स्नेहः स बहुलो येषां ते तथा अनेनाल्पायुष्केऽपि बह्नपत्यता तेषामुक्ता, अल्पेनापि कालेन यौवनसद्भावादिति, ननु तदानीं गृहाद्यभावेन क्व ते वसन्तीत्याह- गङ्गासिन्धू महानद्यौ वैताढ्यं च पर्वतं निश्रां कृत्वा 'बावत्तरिं' ति द्वासप्तति स्थानविशेषाश्रिता निगोदा: - कुटुम्बानि, द्विसप्ततिसङ्ख्या चैवं - वैताढ्यादर्वाग् गङ्गायास्तटद्वये नवनवबिलसम्भवादष्टादश, एवंसिन्ध्वा अपि अष्टादश, एषु च दक्षिणार्द्धभरतमनुजा वसन्ति, वैताढ्यात् परतो गङ्गातटद्वयेऽष्टादश, एवं तत्रापि सिन्धुतटद्वये अष्टादश, एषु चोत्तरार्द्धभरतवासिनो मनुजा वसन्ति, बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् बीजस्येव मात्रा - परिमाणं येषां ते तथा, स्वल्पाः स्वरूपत इत्यर्थः, बिलवासिनो मनुजा भविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेन न पुनरुक्तमवसातव्यं, अथ तेषामाहारस्वरूपं पृच्छन्नाह
'ते णं भंते! मणुआ' इत्यादि, ते भगवन् ! मनुजाः किमाहरिष्यन्ति ? - किं भोक्ष्यन्ते, भगवानाह - गौतम ! तस्मिन् काले - एकान्तदुष्षमालक्षणे तस्मिन् समये - षष्ठारकप्रान्त्यरूपे गङ्गासिन्धू महानद्यौ रथपथः - शकटचक्रद्वयप्रमितो मार्गस्तेन मात्रा - परिमाणं यस्य स ता शो विस्तरः- प्रवाहव्यासो ययोस्ते तथा, अक्षं-चक्रनाभिक्षेप्यकाष्ठं तत्र तो-धुरः प्रवेशरन्ध्रं तदेव प्रमाणं तेन मात्रा - अवगाहना यस्य तत्तथाविधं जलं वक्ष्यतः, इयत्प्रमाणे न गम्भीरं जलं धरिष्यत इत्यर्थः ननु क्षुल्लहिमवतोऽरकव्यवस्थाराहित्येन तद्गतपद्मद्रहनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोक्तरूपौ (प्रवाह) कथं सङ्गच्छेते ?, उच्यते, गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवसादपरजलशोषे समुद्रप्रवेशे तयोरुक्तमात्रावशेषजलवाहित्वमिति न काप्यनुपपत्तिरिति, तदपि च जलं बहुमत्स्यकच्छपाकीर्णं न चैव अब्बहुलं - बह्वप्कायं सजातीयापरापूकायपिण्डबहुलमित्यर्थः, ततस्ते मनुजाः सूरोद्गमनमुहूर्त्ते सूरास्तमयनमुहूर्ते च, यकारलोपो ऽत्र प्राकृतत्वात्, चकारौ परस्परं समुच्चयार्थी, बिलेभ्यो निर्द्धाविष्यन्ति - शीघ्रया गत्या निर्गमिष्यन्ति, मुहूर्तात्परतोऽतितापातिशीतयोरसहनीयत्वात्, बिलेभ्यो निर्द्धाव्य मत्स्यकच्छपान् स्थलानि-तटभूमीः णिगन्तत्वाद् द्विकर्मकत्वं ग्राहयिष्यन्ति - प्रापयिष्यन्ति, ग्राहयित्वा च शीतातपततैः रात्रौ शीतेन दिवा आतपेन तप्तैः - रसशोषं प्रापितैराहारयोग्यतां प्रापितैरित्यर्थः, अतिसरसानां तज्जठराग्निनाऽपरिपाच्यमानत्वाद् मत्स्यकच्छपैरेकविंशतिं वर्षसहस्राणि यावद्वृत्तिं - आजीविकां कल्पयन्तो - विदधाना विहरिष्यन्ति । अथ तेषां गतिस्वरूपं पृच्छन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org