________________
वक्षस्कार:- २
१६७
स्युरित्याह- हीनो - ग्लानस्येव स्वरो येषां ते तथा, दीनो दुःखितस्येव स्वरो येषां ते तथा, अनिष्टादिशब्दा उक्तार्था एवात्र स्वरेण योजनीयाः
‘अनादेयवचनप्रत्याजाताः' अनादेयं असुभगत्वाद् अग्राह्यं वचनं वचः प्रत्याजातं च - जन्म येषां ते तथा, निर्लज्जाः व्यक्तं, कूटं भ्रान्तिजनकद्रव्यं कपटं-परवञ्चनाय वेषान्तरकरणं कलहः -- प्रतीतः वधो- हस्तादिभिस्ताडनं बन्धो-रज्जुभि संयमनं वैरं प्रतीतं तेषु निरताः, मर्यादातिक्रमे प्रधाना - मुख्याः, अकार्ये नित्योद्यताः, गुरूणां मानादिकानां नियोगः- आज्ञा तत्रयो विनयः - ओमित्यादिरूयस्तेन रहिताः, चः पूर्ववत्, विकलं असम्पूर्ण काणचतुरङ्गुलिकादिस्वभावत्वाद्रूपं येषां ते तथा, प्ररूढा गर्तासूकराणामिवाजन्मसंस्काराभावात् वृद्धिं गता नखाः केशा श्मश्रूणि रोमाणि च येषां ते तथा, कालाः कृतान्तसदृशाः क्रूरप्रकृतित्वात् कृष्णा वा खरपरुषाः - स्पर्शतोऽतीव कठोराः श्यामवर्णा--नीलीकुण्डे निक्षिप्तोत्क्षिप्ता इव, ततः कर्मधारयः, क्वचिद् ध्यामवर्णा इत्यपि पदं दृश्यते, तत्रानुज्ज्वलवर्णा इत्यर्थः, स्फुटितशिरसः - स्फुटितानीव स्फुटितानि राजिमत्वात् शिरांसि - मस्तकानि येषां ते तथा, कपिलाः केचन पलिताश्च - शुक्लाः केचन केशा येषां ते तथा, बहुस्नायुभिः - प्रचुरस्नसाभिः संपिनद्धं - एव दुःखेन दर्शनीयं रूपं येषां ते तथा । सङ्घटितं सङ्कुचितं वल्यो-निर्मांसत्वग्विकारास्ता एव तदनुरूपाकारत्वात् तरङ्गा-वीचयस्तैः परिवेष्टितानि अङ्गानि - अवयवा यत्र तदेवंविधमङ्ग - शरीरं येषां ते तथा, के इवेत्याह-जरापरिणता इव, स्थविरनरा इवेत्यर्थः,
-
स्थविराश्चान्यथापि व्यपदिश्यन्ते इति जरापरिणतग्रहणं, प्रविरला सान्तरालत्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन दन्तश्रेणिर्येषां ते तथा, उद्भट विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, क्वचित्तु उभडघाडामुहा इति पाठः, तत्र उद्भटे स्पष्टे घाटामुखे - कृकाटिकावदने येषां ते तथा, विषमे नयने येषां ते तथा, वक्रा नासा येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भीषणं--भयजनकं मुखं येषां ते तथा दद्रुकिटिभसिध्मानि - क्षुद्रकुष्ठविशेषास्तठप्रधाना स्फुटिता परुषा च वि-शरीरत्वग्येषां ते तथा, अत एव चित्रलाङ्गाः - कर्बुरावयवशरीराः कच्छ्रः -पामा तया कसरैश्च खसरैरभिभूता - व्याप्ता ये ते तथा ।
अत एव खरतीक्ष्णनखानां कठिनतीव्रनखानां कण्डूयितेन खर्जूकरणेन विकृता-कृतव्रणा तनुः शरीरं येषां ते तथा, टोलाकृतयः - अप्रशस्ताकाराः, कचित् टोलागइति पाठस्तत्र टोलगतयः - उष्ट्रादिसमप्रचाराः, तथा विषमाणि दीर्घहस्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, तथा उत्कटुकानि - यथास्थानमनिविष्टानि अस्थिकानि - कीकसानि विभक्तानीव च - ६श्यमानान्तराणीव येषां ते तथा, अत्र विशेषणपदव्यत्ययः प्राग्वत्, अथवा उत्कुटुकस्थितास्तथास्वभावत्वात् विभक्ताश्च-- भोजनविशेषरहिता ये ते तथा, 'दुर्बला' बलहीनाः 'कुसंहनना' सेवार्त्तसंहननाः 'कुप्रमाणाः' प्रमाणहीनाः 'कुसंस्थिताः' दुःसंस्थानास्तत एषां टोलाकृत्यादिपदाना कर्मधारयः, अत एव 'कुरूपाः' कुमूर्तयः तथा कुस्थानासनाः - कुत्सिताश्रयोपवेशनाः कुशय्याः कुत्सितशयनाः कुभोजिनो दुर्भोजनास्ततः एभि पदैः कर्मधारयः, अशुचयः-स्नानब्रह्मचर्यादिवर्जिताः अश्रुतयो वा - शास्त्रवर्जिताः अनेकव्याधिपरिपीडिताङ्गाः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org