________________
१६०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४६
धिपत्वाच्च, ईशानेन्द्रः उपरितनं वामं, ऊर्ध्वलोकवासित्वात् उत्तरलोकार्द्धाधिपतित्वाच्च चमरश्चासुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिणं सक्थि गृह्णाति, अधोलोकवासित्वात् दक्षिणश्रेणिपतित्वाञ्च्च, बलि दाक्षिणात्यासुरेभ्यः सकाशाद् वि इति विशिष्टं रोचनं दीपनं दीप्तिरितियावत् येषामस्ति ते वैरोचनाः, स्वार्थेऽणू, औदीच्यासुराः, दाक्षिणात्येभ्यः औत्तराहानामधिकपुण्यप्रकृतिकत्वात्, तेषामिन्द्रः, एवं वैरोचनराजोऽपि अधस्तनं वामं सक्थि गृह्णाति, अधोलोकवासित्वात् उत्तर श्रेण्याधिपत्वाच्च, अवशेषा भवनपतयो यावत्करणात् व्यन्तरा ज्योतिष्काश्च ग्राह्याः, वैमानिका देवा यथार्हं यथामहर्द्धिकं अवशेषाणि अनि-भुजाद्यस्थीनि उपाङ्गानि - अङ्गसमीपवर्तीनि अङ्गुल्याद्यस्थीनि गृह्णन्तीति योगः, अयं भावः - सनत्कुमाराद्यष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान् अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति, ननु देवानां तन्द्गहणे क आशय इत्याह
केचिज्जिनभक्त्या जिने निर्वृते जिनसक्थि जिनवदाराध्यमिति केचिज्जीतमिति पुरातनैरिदमाचीर्णमित्यस्माभिरपीदे कर्त्तव्यमिति, केचिद्धर्म- पुण्यमितिकृत्वा, अत्र ग्रन्थान्तरप्रसिद्धोऽयमपि हेतु:
॥१॥
'पुअंति अ पइदिअहं अह कोइ पराभवं जइ करेज्जा । तो पक्खालि ताओ सलिलेण करेति नियरक्खं ।।'
सौधर्मेन्द्रेशानेन्द्रयोः परस्परं सवैरयोस्तच्छटादानेन वैरोपशमोऽपि इत्यादिको ज्ञेयः, तथा 'व्याख्यातो विशेषार्थप्रतिपत्ति' अतो विद्याधरनराश्चिताभस्म शेषामिव गृह्णन्ति, सर्वोपद्रवविद्रावणमितिकृत्वा, आस्तां त्रिजगदाराध्यानां तीर्थकृतां योगभृच्चक्रवर्त्तिनामपि देवाः सक्थिग्रहणं कुर्वन्तीति ॥ अथ तत्र विद्याधरादिभिरहंपूर्विकया भस्मनि गृहीते अखातायामेव गर्त्तायां जातायां मा भूत्तत्र पामरजनकृताशातनाप्रसङ्ग सातत्येन तीर्थप्रवृत्तिश्च भूयादिति स्तूपविधिमाह
'तए ण' मित्यादि, सर्वं स्पष्टं, नवरं सर्वात्मना रत्नमयान्- अन्तर्वहिरपि रत्नखचितान् महातिमहतः - अतिविस्तीर्णान्, आलप्रत्ययः स्वार्थिकः प्राकृतप्रभवः, त्रीन् चैत्यस्तूपान् चैत्याःचित्ताल्हादकाः स्तूपाश्चैत्यस्तूपास्तान् कुरुत चितात्रयक्षितिष्वित्यर्थः, आज्ञाकरणसूत्रे ततस्ते बहवो भवनपत्यादयो देवास्तथैव कुर्वन्ति, ननु यथाऽऽज्ञाकरणसूत्रे यावत्करणेन सूत्रकृतो लाघवसूचा तथा पूर्वसूत्रेऽपि कथं न लाघवचिन्ता कृता ?, उच्यते, विचित्रत्वात् सूत्रप्रवृत्तेरिति ।
'तए ण' मित्यादि, ततस्ते बहवो भवनपत्यादयो देवास्तेषु स्तूपेषु यथोचितं तीर्थकरस्य परिनिर्वाणमहिमां कुर्वन्ति कृत्वा च यत्रैवाकाशखण्ड नन्दीश्वरवरो द्वीपत्रैवोपागच्छन्ति, ततः स शक्रः पौरस्त्ये अञ्जनकपर्वते अष्टाहिकां- अष्टानामह्ना - दिवसानां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां सा अष्टाहिका तां महामहिमां करोति, ततः शक्रस्य चत्वारो लोकपालाः सोमयमवरुणवैश्रमणनामानस्तत्पार्श्ववर्त्तिषु चतुर्षु दधिमुखपर्वतेषु अष्टाहिकां महामहिमां कुर्वन्ति, नन्वत्र नन्दीश्वरादिशब्दाना कोऽन्वर्थ इति ?, उच्यते, नन्द्या - पर्वतपुष्करिणीप्रमुखपदार्थसार्थसमुद्भूतात्यद्भुतसमृद्धया ईश्वरः - स्फातिमान्नन्दीश्वरः स एव मनुष्यद्वीपापेक्षया बहुतरसिद्धायत नादिसद्भावेन वरो नन्दीश्वरवरः, तथा अञ्जनरत्नमयत्वादञ्जनास्ततः स्वार्थे कप्रत्ययः यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः, उपमाने कप्रत्ययः, तथा दधिवदुज्वलवर्णं मुखं शिखरं रजतमयत्वाद् येषां ते तथा, बहुव्रीहौ कप्रत्ययः, अथेशानेन्द्रस्य नन्दीश्वरावतारवक्तव्यतामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org