________________
१५९
जात्याश्रयणात्, व्यक्त्या तु तेऽसङ्ख्याताः, निजकपरिवाराः - सहवर्त्तिस्वपरिकराः नेतव्याः । ततः शक्रः किं करोतीत्याह
वक्षस्कारः - २
'तए णं०, ततः शक्रो देवन्द्रो देवराजः तान् बहून् भवनपत्यादीन् देवान् एवमवादीत् क्षिप्रमेव-निर्विलम्बमेव भो देवानां प्रिया ! - देवान् - स्वामिनोऽनुकूलाचरणेन अनुप्रीणन्ति इति देवानुप्रियाः नन्दनवनात् सरसानि स्निग्धानि नतु रूक्षाणि गोशीर्षं गोशीर्षनाम्ना वरचन्दनं त्तस्य काष्ठानि संहरत-प्रापयत संहत्य च तिन चितीः कारयत - एकां भगवतस्तीर्थकरस्य एकां गणधराणांएकामवशेषानामनगारानामति । 'तएणं०, अत्रायं आवश्यकवृत्याद्युक्तश्चितारचनदिग्विभागः - नन्दनव- नानीतचन्दनदा- रुभिर्भगवतः प्राच्यां वृत्तां चितां गणधरानामपाच्यां त्र्यम्नां शेषसाधूनां प्रतीच्यां चतुरनां सुराश्चक्रुरिति, नन्वावश्यकादाविक्ष्वाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति उच्यते, अत्र प्रधानतया गणधरानामुपादानेऽप्युपलक्षणाद् गणधरप्रभृतीनामिक्ष्वाकूणां द्वितीया चिता ज्ञेयेति न काऽप्याशङ्का, ततश्चितारचनानन्तरं शक्रः किं करोतीत्याह - ततः क्षीरोदकसंहरणानन्तरं स शक्रः किं करोतीति दर्शयति
'तए ण' मित्यादि, ततः शक्रस्तीर्थकरशरीरकं क्षीरोदकेन स्नपयति स्नपयित्वा गोशीर्षवरचन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयते तं हंसनामकं पटशाटकं निवासयति, परिधापयतीत्यर्थः, पुरिधाप्य च सर्वालङ्कारविभूषितं करोति, 'तएण 'मित्यादि, ततस्ते भवनपत्यादयो देवा गणधरानामनगाराणां च शरीराणि तथैव चक्रु, अहतानि - अखण्डितानि दिव्यानिवर्याणि देवदूष्ययुगलानि निवासयन्ति, शेषं व्यक्तं 'तए ण' मित्यादि, ततः शक्रो भवनपत्यादीनेवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिन शिबिका विकुर्व्वत, विकुर्व्व इति सौत्रो धातुस्तस्माद्रूपसिद्धि, शेषं स्पष्ट, 'तएण 'मित्यादि, ततः शक्रो भगवच्छरीरं शिविकायामारोहयति महद्धर्याच चितिकास्थाने नीत्वा चितिकायां स्थापयति शेषं स्पष्टं, 'तए ण 'मित्यादि, ततः स शक्रोऽग्निकुमारान् देवान् शब्दयति- आमन्त्रयति शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्निकार्य विकुर्वत विकुर्वित्वा एतामाज्ञप्तिकां- आज्ञां प्रत्यर्पयत, शेषं व्यक्तं । 'तए णं अग्गिकुमार देवा' इत्यादि, व्याख्यातप्रायमेव,
'तए णं से सक्के' इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्वालयत - दीपयत तीर्थकरशरीरकं यावदनगारशरीरकाणि च ध्मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, 'तएणं०, ततः स शक्रो भवनपत्यादिदेवानेमवादीत् - भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगार - चितिकायां च अगुरुं तुरुक्कं - सिल्हकं घृतं मधु च एतानि द्रव्याणि कुम्भाग्रशः - अनेककुम्भ- परिमाणानि भाराग्रशः-अनेकविंशतितुलापरिमाणानि अथवा पुरुषोत्क्षेपणीयो भारः सोऽग्रं- परिमाणं येषां ते भाराग्राः ते बहुशो भाराग्रशः संहरतेति प्राग्वत्, अथ मांसादिषु ध्मापितेषु अस्थिष्ववशिष्टेषु शक्रः किं चक्रे इत्याह
'तए ण' मित्यादि, स्पष्टं, नवरं क्षीरोदकेन--क्षीरसमुद्रानीतजलेन निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह - 'तएण मित्यादि, ततश्चितिकानिर्वापणादनु भगवतस्तीर्थकर - स्योपरितनं दक्षिमं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्द्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org