SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति उपाङ्गसूत्रम् २/४६ मध्यंमध्येन - मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति, अत्र सर्वत्रातीतनिर्देशे कर्त्तव्ये वर्तमाननिर्देशस्त्रकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, न हि निर्हेतुका ग्रन्थकाराणां प्रवृत्तिरिति, उपागत्य च तत्र यत्करोति तदाह - 'उवागच्छित्ता' इत्यादि, उपागत्य विमनाः- शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोतीति प्राग्वत्, नात्यासन्ने नातिदूरे शुश्रूषन्निव तस्मिन्नप्यवसरे भक्त्याविष्टतया भगवद्वचनश्रवणेच्छाया अनिवृत्तेः यावत्पदात् 'णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासइत्ति परिग्रहः, अत्र व्याख्या " नमस्यन् पञ्चाङ्गप्रनामादिना अभि- भगवन्तं लक्षीकृत्य मुखं यस्य स तथा विनयेनआन्तरबहुमाने प्राञ्जलिकृत इति प्राग्वत् पर्युपास्ते- सेवते इति, अथ द्वितीयेन्द्रवक्तव्यतामाह'ते णं कालेण' मित्यादि, सर्वं स्पष्टं, नवरं अरजांसि - निर्मलानि यान्यम्बरवस्त्राणि - स्वच्छता आकाशकल्पानि वसनानि तानि धरतीति यावत्करणात् 'आलइ अमालमउडे नवहेमचारुचित्तचंचल कुंडलविलिहिज्जमाणगल्ले महिद्धीए जाव महासुक्खे भासुरबोंदी पलंबवणमालधरे ईसान कप्पे ईसाणवडेंस विमाणे सुहम्माए सभाए ईसाणंसि सिंहासणंसि से णं अट्ठावीसाए विमाणावाससय साहस्सीणं असीईए सामानि असाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणं अन्नेसिं च ईसाणकप्पवासीणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमामे महयाहयनट्टगी अवाइ अतंतीतलतालतुडि अघणमुइंगपडुपडहवाइअरवेणं' इति संग्रहः, सर्वं स्पष्टं, नवरं आलगिती - यथास्थानं स्थापिती मालामुकुटी येन स तथा, नवाभ्यामिव हेममयाभ्यां चारुभ्यां चित्रकृद्द्भ्यां चञ्चलाभ्यां इतस्ततश्चलद्भ्यां कुण्डलाभ्यां विलिख्यमानी गल्ली यस्य स तथेति । १५८ अत्र 'तएण 'मित्यादि, यथा शक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भणितव्य ईशानेन्द्रः यावत्पर्युपास्ते इत्यन्तं वाच्य इत्यर्थः, 'एवं सव्वे' इत्यादि, एवं शक्रन्यायेन सर्वे देवेन्द्रा वैमानिकाः अत एव यावदच्युत इत्युत्तरसूत्रं संवदति, निजकपरिवारेण - आत्मीयात्मीयसामानिकादिपरिवारेण सहानेतव्या - भगवच्छरीरान्तिकं प्रापणया ग्रन्थवाचकेनेत्यर्थः, ग्रन्थापेक्षया वेदं सूत्रं योजनीयं, एवं वैमानिकप्रकारेण यावद् भवनवासिनां - दक्षिणोत्तरभवनपतीनामिन्द्रा विंशतिरित्यर्थः, यावच्छब्दो न गर्भगतसंग्रहसूचकः सङ्ग्राह्यपदाभावात्, किन्तु सजातीयभवनपतिसूचकः, वानमन्तराणां - व्यन्तराणां षोडशेन्द्राः - कालादयः -- ननु स्थनाङ्गादिषु द्वात्रिंशत्व्यन्तरेन्द्रा अभिहिताः, इह तु कथं षोडश ?, उच्यते, मूलभेदभूतास्तु षोडश महर्द्धिकाः कालादय उपात्ताः तदवान्तरभेदभूतास्तु षोडश अणपन्नीद्रादयोऽल्पर्द्धिकत्वात् नह विवक्षिताः, अस्ति हि एषाऽपि सूत्रकृन्प्रवृत्तिर्विचित्रा यदन्यत्र प्रसिद्धा अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारो न निबध्नाति यथा प्रति वासूदेवा अन्यत्रावश्यकनिर्युक्त्यादिषु उत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाङ्गे चतुष्पञ्चाशत्तमसम- वाये नोक्ताः “भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए चवण्णं चउवण्णं (महापुरिसा) उप्पजिंसु वा ३ तं० - चउवीसं तित्थयरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा" इति परमुपलक्षणात् तेऽपि ग्राह्याः । ज्योतिष्काणां द्वी चन्द्रौ सूर्यौ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy