________________
वक्षस्कारः-२
१५७
छिन्नजाइजरामरणबंधणेसिद्धेबुद्धेमुत्तेअंतगडेपरिनिब्बुडे इतिसंग्रहः, तत्रसम्यग् अपुनरावृत्या ऊर्ध्वं-लोकाग्रलक्षणं स्थानं यातः-प्राप्तो न पुनः सुगतादिवदवतारी, यतस्तद्वचः॥१॥ "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम।
___ गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः।।" इति ।
छिन्नंजात्यादीनांबन्धनं बन्धनहेतुभूतं कर्मयेनसतथा सिद्धो-निष्ठितार्थबुद्धो-ज्ञातत्वः मुक्तो भवोपग्राहिकाशेभ्यः अन्तकृत्सर्वदुःखानां परिनिर्वृतः-समन्ताच्छीतिभूतः कर्मकृतसकलसन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा।
अथ भगवति निवृते यद्देवकृत्यं तदाह-'जंसमयंचण मित्यादि, यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छब्दवाक्येऽपि, अवधिना ज्ञानेनाभोगयति-उपयुनक्ति, शेषं सुगम, उपयुज्य एवमवादीत्, किमित्याह–'परिनिव्वुए' इत्यादि, परिनिर्वृतः खलुरिति वाक्यालकारे जम्बूद्वीपे द्वीपे भरते वर्षे ऋषभोऽर्हन् कौशलिकस्तत्-तस्माद्धेतोः जीतंकल्पः आचारः एतद्-वक्ष्यमाणं वर्तते अतीतप्रत्युत्पन्नानागतानां अतीतवर्तमानानागतानां शक्राणां' आसनविशेषाधिष्ठातृणां देवानांमध्ये 'इन्द्राणां परमैश्वर्ययुक्तानांदेवानां देवेषु(वा) राज्ञांकान्त्यादिगुणैरधिकंराजमानानां तीर्थकराणां परिनिर्वाणमहिमां कर्तुं तद्गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य परिनिर्वाणमहिमां करोमीतिकृत्वा भगवन्तं निवृतं वन्दते-स्तुतिं करोति नमस्यति प्रणमति, यत्र जीवरहितमपि तीर्थकरशरीरमिन्द्रवन्धंतदिन्द्रस्य सम्यग्दृष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति तत्वं, वंदित्वा नमस्थित्वा च किं चक्रे इत्याह
___ 'चउरासीई'इत्यादि, चतुरशीत्या सामानिकानांप्रभुत्वमन्तरेण वपुर्विभवधुतिस्थित्यादिभि शक्रतुल्यानां सहनैः-त्रयस्त्रिंशता त्रायस्त्रिंशकैः-गुरुस्थानीयैर्देवैः चतुर्भिर्लोकपालैः-सोमयमवरुण-कुबेरसंज्ञैः यावत्पदात् 'अट्टहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनीएहिं ति, अत्र व्याख्या-अग्रमहिष्योऽष्टौ पद्मा १ शिवा२शची ३ अजू४ अमला ५ अप्सर ६ नवमिका ७ रोहिणी ९, एताभिः षोडशसहनैः २ देवीपरिवारयुताभिः तिसृभिः पर्षद्भिःबाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैहय १ गज २ रथ ३ सुभट ४ वृषम ५ गन्धर्व ६ नाट्य ७ रूपैः सप्तभिः अनीकाधिपतिभि चतसृभिश्चतुरशीतिभिश्चतुर्दिशंप्रत्येकं चतुरशीतिसहस्राङ्गरक्षकसद्भावात्षट्त्रिंशत्सहनाधिकलक्षतरयप्रमितैरङ्गरक्षकदेवसहनै अन्यैश्च बहुभिः सौधर्मकल्पवासिभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः तया-देवजनप्रसिद्धया उत्कृष्टया-प्रशस्तविहायोगतिषूत्कृष्टतमत्वात्, यावत्पदात् 'तुरिआए चवलाए चंडाए जयणाए जाव वीईवयमाणे २'त्ति ।
अत्र व्याख्या-त्वरितया मानसौत्सुक्यात् चपलया कायतःचण्डयाक्रोधाविष्टयेव श्रमासंवेदनात् जवनया परमोत्कृष्टवेगवत्वात्, अत्र च समयप्रसिद्धाश्चण्डादिगतयो न ग्राह्याः, तासां प्रतिक्रम संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात्, तेनैतानि पदानि देवगतिविशेषणतया योज्यानि, देवास्तुतताभवस्वभावादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एव चलन्तीति, अन्यथा जिनजन्मादिषु महिमानिमित्तंतत्रैव दिवसेझटित्येवात्यन्तदूरेकल्पादिभ्यः सुराः कथमागच्छेयुरिति?, उद्धृतया उद्धृतस्य दिगन्तव्यापिनो रजस इव या गति सा तया, अत एव निरन्तरं शीघ्रत्वयोगाच्छीघ्रया दिव्यया-देवोचितया देवगत्या व्यतिव्रजन् , सम्भ्रमे द्विवचनं, तिर्यगसङ्घयेयानां द्वीपसमुद्राणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org