________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/साच त्रिधा-स्वपरोभयसमयवक्तव्यताभेदात्, तत्र स्वसमयवक्तव्यतायामस्यावतारः, तथाऽ
धिकारोवक्तव्यताविशेषएव, सचेहजम्बूद्वीपवक्तव्यतालक्षणः समुदायार्थकथनादेव उक्तः, उक्त उपक्रमः 1 अथ निक्षेपः, स च त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात, तत्रौधो यत् सामन्य-मध्ययनादिनाम, तन्निक्षेपोऽनुयोगद्वरादिभ्योऽवसेयः,तबेहभावाध्ययनादिनाऽधिकारः, नाम- निष्पन्ने तु निक्षेपेऽस्य जम्बूद्वीपप्रज्ञप्तिरिति नाम, ततो जम्बूशब्दस्य प्रज्ञप्तिशब्दस्य च निक्षेपोवाच्यः, तत्रजम्बूशब्दस्यनामस्थापनाद्रव्यभावभेदात् चतुर्धा निक्षेपः,तत्र नामजम्बूर्यस्य जम्बूरिति नाम, यथा जम्बूरन्तिमकेवली जम्ब्या अभिधानं वा, स्थापनाजम्बूर्याजम्बूरिति स्थापना क्रियते यथा चित्रलिखितजम्बूवृक्षादि, द्रव्यजम्बूद्धिधाःआगमतोनोआगमतश्च, आगमतस्तदर्थज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात् त्रिधा, तत्राद्यौ भेदौ सुप्रतीतौ, उभयव्यतिरिक्तद्रव्यजम्बूरपि त्रिधा-एकबविकबद्धायुष्काभिमुखनामगोत्रजन्तुभेदात्, तत्रैकभविको नामय एकभवानन्तरंजम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तुयेनजम्ब्वायुर्बद्धं,अभिमुखनामगोत्रस्तु यस्य जम्ब्बा नामगोत्रकर्मणी अन्तर्मुहूर्तानन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद्रव्यजम्बूरिति, भावजम्बूरपि द्विधा-आगमतोनोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु जम्बूद्रुम एव जम्बूद्रुमनामगोत्रकर्मणी वेदयन्निति, आह
यथा अभिमुखजम्बूभावस्य जीवस्य द्रव्यजम्बूत्वं भाविनि भूतवदुपचार' इति न्यायात् तथा आसनपश्चात्कृतजम्बूभावस्यापि भूतपूर्वकस्तद्वदुपचार' इति न्यायात् कथं न द्रव्यजम्बूत्वं निर्दिष्टं?, उच्यते, इदमुपलक्षणं, तेन तस्यापिद्रव्यनिक्षेप एवान्तर्भावः ‘भूतस्य भाविनोवे' त्यादिद्रव्यलक्षणस्य सद्भावात्, अत्रानिर्देशकारणंतुश्रीउत्तराध्ययनद्रुमपत्रीयाध्ययननिर्युक्तौ श्रीभद्रबाहुस्वामिपादैः द्रुमनिक्षेपेऽविवक्षणं, तत्तुल्यन्यायतवादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावजम्ब्बा अधिकारः। द्वीपोऽपिपूर्ववचतुर्द्धा, तत्र नामद्वीपो यस्य द्वीप इति नाम, स्थापनाद्वीपो याद्वीपस्य स्थापना, यथा चित्रलिखितजम्बूद्वीपादि, द्रव्यद्वीपो द्विधा--आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरद्रव्यद्वीपौ सुबोधौ, तदव्यतिरिक्त- द्रव्यद्वीपो द्विधा-सन्दीनोऽसन्दीनश्च, तत्र यो हि संदीयते-जलप्लावनात् पक्षमासादावुदकेन प्लाव्यते स सन्दीनो विपरीतस्त्वसन्दीनः सिंहलद्वीपादि, भावद्वीपोऽपि द्विधा-आगमतो नोआगमतश्च, तत्रागमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु साधुः, कथमित्याह-यथा हि नदीसमुद्रबहु-मध्यप्रदेशे सांयात्रिका द्रव्यद्वीपमवाप्याऽऽश्वसन्ति तथा पारातीतसंसारपारावारान्तरचार- खेदमेदस्विनो देहिनः परमपरोपकारैकप्रवृत्तं साधुं समवाप्याऽऽश्वसन्तिअतो भावतः-परमार्थतोद्वीपो भावद्वीप उच्यते, सोऽपि सन्दीनासन्दीनभेदाद्विधा, तत्रपरीषहोपसर्गाद्यैः क्षोभ्यः सन्दीनः तदितरस्त्वसन्दीनः, अथवाभावद्वीपः सम्यक्त्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च सन्दीनो भावद्वीपः, क्षायिकंचासन्दीन इति।
ननु क्वचित्तत्पर्यायापन्नं वस्तु भावनिक्षेपे निक्षिप्यते यथाऽत्रैव जम्बूपर्यायमनुभवन् भावजम्बूत्वे निक्षिप्तः, क्वचित्तदन्यपर्यायापनं वस्तु भावनिक्षेपेनिक्षिप्यते, यथाऽत्रैव भावद्वीपपर्यायमनुभवन् साधुः सम्यक्त्वं चेति परस्परमुदाहरणवैषम्यं कथं युक्तिमदिति?, अत्रोच्यते, वस्तुगत्या तत्पर्यायाधारतया भवनं भाव इतिकृत्वा तत्पर्यायायैव वस्तु भावनिक्षेपे निक्षिप्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org