SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ यत्तु तदन्यद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गत गुणारोपादौपचारिकमिति न दोषः, विवक्षाया विचित्रत्वादिति, द्विधा गता लवणोदस्य आपोऽस्मादिति अन्वर्थवशाद् द्वीपत्वं, पृथिव्यादिपरिणामरूपत्वाद्रव्यद्वीपत्वं, तत्रचद्रव्यद्वीपेनात्राधिकारः, तत्रापिअसन्दीनेन, अथवेत्थं नामादिभेदाद् द्वीपश्चतुर्द्धा, नामद्वीपो द्वीप इति नाम नामनामवतोरभेदोपचारात्, स्थाप-नाद्वीपो द्वीपस्य स्थालवलयाद्याकारः, द्रव्यद्वीपो द्वीपारम्भकद्रव्याणिपृथिव्यादीनि, तदात्मकत्वाद्वीपानां, यदाह-"जंबुद्दीवेणंभंते! किंपुढविपरिणामे आउप० जीवप० पोग्गलप० गो०! पुढविपरिणामेवि जाव पुग्गलपरिणामेवि" भावद्वीपस्तु स्थालाद्याकृतिमत् स्थालात्मकं सर्वतः समुद्रजलवलयितं क्षेत्रखण्डं, एतदनुसारेण तु चतुर्भिरपि द्वीपैरत्राधिकार इत्यलं विस्तरेण । प्रज्ञप्तिरपिनामादिभिश्चतुर्द्धा, तत्रप्रज्ञप्तिरिति नामयथाप्रज्ञप्तिर्विद्यादेवी, स्थापनाप्रज्ञप्ति प्रज्ञप्तिशब्दार्थज्ञसाध्वादिः, (आकृति) द्रव्यप्रज्ञप्तिर्विधाःआगमतो नोआगमतश्च, तत्रागम-तस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तद्रव्यप्रज्ञप्तिभेदात् त्रिधा, तत्राद्यौ भेदौ सुबोधौ, उभयव्यतिरिक्ता द्रव्यप्रज्ञप्तिर्द्विधा-लौकिकी लोकात्तराच, एकैकाऽपि त्रिविधा-सचित्ताचित्तमिश्रद्रव्यविषयभेदात्, तत्राद्या यथा प्रयियासोनृपस्यमन्दुरासमानीतहयज्ञापनं द्वितीया तस्यैव रथज्ञापनं तृतीया तस्यैव पर्याणादिपरिस्कृतहयज्ञापनं रथस्य वाऽश्वादियुक्तस्य ज्ञापनं, लोकोत्तरा तु सचित्तविषया यथा प्रव्राजनाचार्यस्य नवप्रव्रजितं प्रति शाल्यादिसचित्तज्ञापनंसैव द्वितीया शस्त्रपरिणतशाल्यादिज्ञापनसैवतृतीयादुष्पकशाल्यादिज्ञापनं चेति, अथ भावप्रज्ञप्तिरपि द्विधा--आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु भावप्रज्ञप्तिर्द्विधा- प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात्, तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताःप्रति जामातृभावनिवेदनं, प्रशस्तभावप्रज्ञप्तिरियमेवअर्थतोऽर्हतां गणधरान् सूत्रतो गणधराणां स्वशिष्यान्प्रति, उक्तावोधनामनिष्पन्नौ निक्षेपी, सम्प्रति सूत्रालापकनिष्पत्रः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात्, सूत्रं च सूत्रानुगमे समयप्राप्त भवति, ततोलाघवार्थं सूत्रानुगमसमय एव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अथानुगमो व्याख्यानरूपः, सच द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आधस्त्रधाःनिक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्र- स्पर्शिकनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्तयनुगमो जम्ब्बादिशब्दानां निक्षेपप्रतिपादनादनुगत एव, उपोदघातनिर्युक्त्यनुगमस्तु 'उद्देसे निद्देसे अ' इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिक-निर्युक्त्यनुगमस्तुसंहितादौषड्विधेव्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थान-लक्षण्याख्यानभेदचतुष्टयस्वरूपः, सच सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगमएवोच्यते, तत्र चाल्पग्रन्थंमहाथ द्वात्रिंशद्दोषविरहितमष्टगणोपेतं स्खलितादिदोषवर्जितं सूत्रमुचारणीयं, तच्चैदम् वक्षस्कारः-१) मू. (१) नमो अरिहंताणं । ते णं कालेणं ते णं समए णं मिहिला नाम नयरी होत्था, रिद्धत्थमियसमिद्धा वण्णओ, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्था, वण्णओ। जियसत्तु राया, घारिणी देवी, वण्णओ। तेणं कालेणं तेणं समए णं सामी समोसढो, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy