________________
वक्षस्कारः-१
आनुपूर्वीनामप्रमाणवक्त-व्यतार्थाधिकारसमवतारभेदात्, एतद्व्यक्तयर्थिनातुअनुयोगद्वारसूत्रं विलोक्यं, ग्रन्थविस्तरभयात्तुनेह तन्यते, केवलं आनुपूव्यार्दिषुपंचसूपक्रमभेदेषु षष्ठे समवतारभेदे विचार्यमाणे इदमध्ययनं समवतारयेत्, ततश्चानुपूव्यार्दिरुपक्रमः षड्विधोऽप्यभिहितो भवति, तथाहि-दशविधायामप्यानुपूव्यार्मस्याध्ययनस्योत्कीर्तनगणनानुपूर्दोः समवतारः, तत्रोत्कीर्तन -संशब्दननामकथनमात्रंयथा द्वादशाङ्गोपाङ्गानांमध्येऔपपातिकंराजप्रश्नीयंजीवाभिगमाध्ययनं प्रज्ञापना सूर्यप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिरित्यादि ।
गणनं-परिसंख्यानं एकंटे त्रीणीत्यादिसाचगणनानुपूर्वी त्रिधा-पूर्वानुपूर्वीपश्चानुपूर्वी अनानुपूर्वी चेति, तत्र पूर्वानुपूक् इदं षष्ठं पश्चानुपूर्व्या सप्तमं अनानुपूर्व्या अनियतं, नाम च एकनामादिदशनामपर्वन्तं, तत्र षड्नाम्यस्यावतारः, तत्रचषड्भावा औदयिकादयो निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावेऽवतारः, सर्वश्रुतस्य क्षायोपशमिकभावरूपत्वात् ।
प्रमाणं चतुर्द्धा-द्रव्यक्षेत्रकालभावभेदात्, तत्रेदमध्ययनं क्षायोपशमिकमावात्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा-गुणनयप्रमाणसंख्याभेदात्, तत्राद्यंजीवाजीवगुणप्रमाणभेदाद्विधा, तबाजीवोपयोगरूपत्वाज्जम्बूद्वीपप्रज्ञप्तयध्ययनस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शन चारित्रभेदात् त्रिधा, तत्र बोधात्मकत्वादस्य ज्ञानगुणप्रमाणे, तदपि प्रत्यक्षानमानपमानागमभेदाच्चतुष्प्रकारं, तत्रास्य आप्तोपदेशरूपत्वादागमे, सोऽपिलौकिकलोकोत्तरभेदाद् द्विविधः, तत्र परममुनिप्रणीतत्वेन लोकोत्तरे, सोऽपि द्विधा
आवश्यकमावश्यकव्यतिरिक्तश्च, तत्रेदमावश्यकव्यतिरिक्ते, आवश्यकव्यतिरिक्तो द्विधा-अङ्गप्रविष्टानङ्गप्रविष्टभेदात्, तत्रेदमनङ्गप्रविष्टे, सोऽपि द्विधा-कालिकोत्कालिकभेदात्, तत्रेदंकालिके, सोऽपि सूत्रार्थोभयभेदात् त्रिधा, तत्रेदं सूत्रार्थरूपत्वात् तदुभये, सोऽपिआत्मानन्तरपरम्परागमभेदात् त्रिविधः, तत्र चेदं गणभृतां सूत्रत आत्मागमस्तच्छिष्माणामनन्तरागमः ततप्रशिष्याणांतुपरम्परागमः, अर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः ततः परम्परागम इति त्रिष्वप्यागमेष्वस्याध्ययनस्यावतार इति, ननु अङ्गप्रविष्टसूत्रं गणधरप्रणीतमिति भवतु तेषामात्मागमः, इदं तूपाङ्गत्वेनानङ्गप्रविष्टत्वात् स्थविरकृतं, यदाह॥१॥ “गणधरकयमंगसुअंजं कय थेरेहिं बाहिरं तं तु।
निययं अंगपविठं अनिययसुय बाहिरं तं तु ।। ततः कथं गणधराणामात्मागमत्वेन भाव्यते ?, उच्यते, गणधरैर्वादशाङ्गीविरचने परमार्थतस्तदकेदेशरूपोपाङ्गानामपि विरचनमाख्यातमिति तेषामपीदमुपाङ्गसूत्रतआत्मागम इति न कश्चिद्विरोधः, व्यवहास्तस्तु स्थविस्कृतत्वेनेदमुपाङ्गं स्थविराणामेव सूत्रत आत्मागमः, “सुत्तं थेराणअत्तागमोत्ति" इति श्रीउत्तराध्ययनबृहदृत्तिवचनादिति, अयमेव शास्त्रप्रामाण्यसूचकोऽर्थ पूर्वं गुरुपर्वक्रमरूपसम्बन्धावसरे निरूपित इति।नयप्रमाणेतुनास्यसम्प्रत्यवतारो, मूढनयत्वात्, आगमस्य, उक्तं च- “मूढनइयं सुयं कालियं च (तु)" इत्यादि।
संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदात् अष्टप्रकारा, तत्र चास्यपिरमाणसंख्यायामवतारः,तत्रापि कालिकश्रुतपरिमाणसंख्यायांसमवतारः, साऽपिद्विधा-सूत्रतोऽर्धतश्च, तत्रसूत्रतः परिमितपरिमाणं (अर्थतोऽनन्तार्थत्वात्.सर्वेषांसूत्राणामपरिमाण) सम्प्रति वक्तव्यता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org