SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/तत्रोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमत उपक्रमशब्दार्थस्य ज्ञाता, तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिविधो-ज्ञशरीरभव्यशरीरतद्यतिरिक्तभेदात्, तत्र यदुपक्रमशब्दार्थज्ञस्य शरीरंजीवविप्रमुक्तं सिद्धशिलातलादिगतंतद्भूतभावत्वात ज्ञशरीरद्रव्योपक्रमो, यस्तु बालको नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चावश्यमायत्यां भोत्स्यते स भाविभावनिबन्धनत्वात् भव्यशरीरद्रव्योपक्रमः, ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः-सचित्ताचित्तमिश्रभेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पापदोपाधिभेदभिन्नस्त्रविधः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशेच।तत्रावस्थितस्यैव द्रव्यस्य गुणविशेषापादनंपरिकर्मतस्मिन् परिकर्मणि, सच्चित्तद्विप- दद्रव्योपक्रमो यथा मनुष्याणां वर्णकर्णस्कन्धनक्रवृद्धयादिकरणं, सचित्तचतुष्पदद्रव्योपक्रमो यथा हस्त्यादीनां शिक्षाघापादनं सचित्तापदद्रव्योपक्रमो यथा वृक्षादेवृक्षायुर्वेदोपदेशाद् वृद्धादिगुणकरणं, वस्तुविनाशे पुनस्त्रिविधोऽपि सचित्तद्रव्योपक्रमस्तेषामेवमनुष्यादीनां खड-गादिभिर्विनाशकरणं, अचित्तद्रव्योपक्रमोद्विविधः-परिकर्मणि वस्तुविनाशे, मिश्रद्रव्योपक्रमोऽपि द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि कटकादिभूषितपुरुषादिद्रव्यस्य गुणविशेष- करणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः, तथा क्षेत्रकालोपक्रमावपि द्विविधः-परिकर्मणि वस्तुविनाशे च। तत्र क्षेत्रम्-आकाशं तच्चामूर्त नित्यं चेति न तस्य परिकर्मरूपो विनाशरूपो वा उपक्रमो घटते तथापि मंचाः क्रोशन्तीत्यादिन्यायादुपचारेण तदाश्रितस्येक्षुक्षेत्रादेहलादिभि परिकर्म गजबन्धनादिभिस्तु विनाश इति, एवं कालस्यापि पूर्वोक्तन्यायेन उपक्रमासम्भवेऽपि शंकादिच्छायादिभिर्यद्यथार्थपरिज्ञानं सपरिकर्मणि कालोपक्रमः, यच्च ग्रहनक्षत्रादिचारैरनिष्टफलदायकतया परिणमनं स विनाशे कालोपक्रमः, तथा चलौकिकी वागपि--अमुकेन ग्रहेण नक्षत्रेण वाइत्थमित्थं गच्छता विनाशितः काल इति, भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमत उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः ‘उपयोगो भावनिक्षेप' इति वचनादिति, नोआगमतो द्विधाअप्रशस्तः प्रशस्तश्च, तत्राद्यो जामातृपरीक्षकब्राह्मणीवेश्यामात्यानामवि संसाराभिवर्धिनाऽध्यवसायेन परभावोपक्रमणरूपः, परश्च श्रुतादिनिमित्तमाचार्यभाववधारणरूपः, अनेनेहाधिकारः,अथानुयोगाङ्गप्रतिपादनाधिकारेगुरुभावोपक्रमाभिधानमनर्थकम्, अतदङ्गत्वात्, तदसम्यक, तस्याप्यनुयोगाङ्गत्वाद्, यद्भाष्यकार:॥१॥ "गुरुचित्तायत्ताइ वक्खाणंगाईजेण सव्वाइं। तेण जह सुप्पसन्नं होइ तयं तं तहा कजं ॥" आह-यद्येवंतर्हि गुरुभावोपक्रम एवदर्शनीयः नशेषाः, निष्प्रयोजक (न) त्वादिति, न, गुरुचित्तप्रसादनार्थं तेषामप्युपयोगित्वात्, तथाहि-बालग्लानादिसाधून पथ्यानपानादिना प्रतिजाग्रति वैयावृत्यनियुक्ते साधौ द्रव्योपक्रमात् गुर्वासनशयनाद्यपभोगिभूतलप्रमार्जनादिना संस्कुर्वति क्षेत्रोपक्रमात् भव्यस्य छायालग्नादिना दीक्षादिसमयं सम्यक् साधयति कालोपक्रमाच गुरु प्रसीदति, नामस्थापनोपक्रमौ तुप्रस्तुतेऽनुपयोगिनाविति, अथवा उपक्रमसाम्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेऽपि दर्शनीयाः, यतोऽनुपयोगिनिरासेनोपयोगिनि निष्प्रतिपक्षा प्रतिपत्तिरुपजायते, तथा चाप्रस्तुतार्थापाकरणं प्रसुतार्थव्याकरणंच नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति महाधियः । उक्तः लौकिक उपक्रमः, अथ शास्त्रीय उच्यते-सोऽपि षोद्वैव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy